१०

अथ श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्या संवरणाधिकारे क्रमाङ्क अध्याय १०
अत ऊर्ध्वं प्रवक्ष्यामि संवर्णा च यथा भवेत्
उदयेन समायुक्ता भाग सङ्ख्या च संयुता १
अर्धोदयं च यत्प्रोक्तं वामनं उदयं भवेत्
कृते चैव भवेच्छान्तिः सर्वयज्ञफलं लभेत् २
अर्धोदयं च नवधाः द्वौभागौ परिवर्जयेत्
अनन्तं उदयं नामः सर्वलोके सुखावहम् ३
अधोदयं च नवधाः त्रीणि भागानि सन्त्यजेत्
वाराहं उदयं नाम अनन्तं फल दायकम् ४
उदये च समाख्याता अनन्तं फलदायिका
तस्मिन् देशे भवेच्छान्ति क्षेमारोग्यं प्रजायते ५
उदयंहीना चये केचित् क्रियन्ते मण्डपा भुवि
तत्र मारीमहाव्याधि राष्ट्रभङ्ग भयं भवेत् ६
दुर्भिक्षं चाति रौद्रं च राज्ञो च म्रियते तथा
यजमानं निष्कुलं यान्ति शिल्पिनो म्रियते ध्रुवम् ७
एक हस्तादितः कृत्वा यावतः सप्त षष्टि वत्
तावन्तश्चतुरो वृद्धिः घण्टिका परिकीर्तिता ८
घण्टानां च विभागेन तलोदय समन्वितम्
विविधा मण्डपैश्चैव संवर्णा ऊर्ध्वसंयुता ९
एकहस्ते द्विहस्ते च प्रासादे मण्डपं शुभम्
पञ्च घण्टिका संयुक्तं मण्डपं सर्वकामदम् १०
त्रि हस्तेन नव घण्टा च चतुर्हस्ते त्रयोदशः
दशसप्त घण्टिकैर्युक्तं पञ्च हस्ते प्रकीर्तितम् ११
एकविंशत्समायुक्तं घण्टिका मण्डपं शुभम्
प्रासादे षट्हस्तेन सर्वशोभासमन्विते १२
सप्त हस्ते तु प्रासादे घण्टिका पञ्चविंशति
मण्डपं कारयेत्प्राज्ञः गजसिंहसमन्वितम् १३
वसु हस्तेन कर्तव्या घण्टिका उनत्रिंशतिः
नव हस्ते तथा प्रोक्तं दश हस्ते तथैव च १४
त्रयस्त्रिंशत्समायुक्तं सार्धपादसमन्वितम्
कलश सिंहसमोपेता तथा गरुडसमन्विता १५
सप्तत्रिंशत्समायुक्तं घण्टिकायाः समन्वितम्
एकादशा दितकृत्वा यावत्षोडशहस्तकम् १६
हस्ते सप्तत्रिंशो मेते यावत् जिनहस्तकम्
घण्टिका च प्रकर्तव्या चत्वारिंशेक संयुता १७
पञ्चविंशति संयुक्ता प्रासादे सर्व कामदे
तावश्चैव प्रकर्तव्यं ज्ञातव्यं त्रिंशहस्तकम् १८
पञ्चचत्वारिंशेघण्टा मण्डपा सुशोभना
एकत्रिंशति हस्ते तु यावत् षड्त्रिंशतिः
घण्टिकानां प्रकर्तव्या उनपञ्चाश संयुता १९
सप्तत्रिंशोदितः कृत्वा यावत्पञ्चाश हस्तकम्
घण्टिकानां प्रकर्तव्यं शतमेकोत्तरीयुतम् २०
एकपञ्चादितः कृत्वा ज्ञातव्यं सप्तषष्टीय
घण्टिकानां प्रकर्तव्यो शतमेकोनत्रिंशक २१
एवं संवरणा कार्या गजसिंहसमन्विता
रथिकातिलकयुताघण्टिकास्कन्धपट्टिका २२
मूलकूटक संयुक्ता तवङ्गे छाद्य संयुता
कूटकौ बहुसम्पन्ना कार्या संवरणा शुभा २३
चतुरस्रीकृते क्षेत्रे अष्टभाग विभाजिते
भागौ द्वौ रथिका कार्या चतुर्दिक्षु व्यवस्थिता २४
द्वौ भागौ कर्णकं चैव घण्टिका च द्विभागिका
कूटं भागोन कर्तव्यं चतुर्दिक्षु व्यवस्थितम् २५
द्विभागा घण्टिका कार्या सर्वशोभासमन्विता
मूलघण्टा चतुर्भागा द्विभागै कलशं भवेत् २६
उदयं च प्रवक्ष्यामि भागाश्चत्वारिमेव च
रथिकातिलकङ्कूटं भागमेकेन कारयेत् २७
सार्धपादा तथा घण्टा मूलघण्टा तथैव च
भाग भाग च कर्तव्यं उदये परिकीर्तितः २८
मूलघण्टा च पादोना स्कन्धं पट्टं च शोभनम्
मूलघण्टा त्रिधा कृत्वा विभजेय यथाक्रमम् २९
अन्तरपत्रं पदं चैव कर्ण चैव तथैव च
भागमेकेन कर्तव्यं स्कन्धं वै भागमेव च ३०
घसिकामलसारि च तथा चैव तु कर्तरि
भागमेकेन कार्या एवं घण्टा विवर्तना ३१
पञ्चघण्ठा मया प्रोक्ता संवरणा सुशोभना
द्वादशैव ततः कार्या घण्टिका च समन्विता ३२
संवरणा नामानि
अथ नामानि वक्ष्यामि संवरणा यथास्थिता
पद्मिनी पञ्चघण्टा च नवघण्टा च नन्दिनी ३३
त्रयोदश घण्टिकोपेता कमला परिकीर्तिता
सप्तदश घण्टिकोपेता हंसिनी परिकीर्तिता ३४
सुनन्दा चैकविंशत्या नलिनी पञ्चविंशतीः
नन्दा चैकोनत्रिंशत्या त्रयस्त्रिंश यशोवती ३५
सप्तत्रिंश विशालाक्षी घण्टिका परिकीर्तिता
कीर्तिसंवर्द्धनी नाम चत्वारिंशेक संयुता ३६
पञ्चत्वारिंश देवश्च वा पदा परिकीर्तिता
उनपञ्चाशद्युक्ता गजवर्द्धनिका शुभा ३७
सिंहालिका तथा प्रोक्ता त्रिपञ्चाश च घण्टिका
सप्तपञ्चाशद्युक्ता श्रीधरी प्रविकीर्तिता ३८
एकषष्टं गन्धलता पञ्चषष्टं तु मालिका
विशाल नवषष्टं तु घण्टिका प्रविधीयते ३९
त्रिकूटा त्रिसप्तति घण्टिकाः क्रियते पुनः
दलदा सप्त सप्तायां घण्टिकासुर्विधीयते ४०
एकाशिती घण्टिकानां तु पुष्पशिखा प्रशस्यते
तारावली तु पञ्चाशी घण्टिका परिकीर्तिता ४१
नावांस्री घण्टिकायुक्ता पूर्णोदरी प्रशस्यते
त्रिनवत्यांश्चित्रकूटानां घण्टाङ्कूटस्य पूजयेत् ४२
माहेन्द्री सप्तनवत्या च घण्टा गवाक्ष क्रियते
शतेनैकोत्तराणां तु गौरी घण्टा प्रकीर्तिता ४३
शतपञ्चोत्तरी घण्टा चन्द्रा स्यानामनामतः
नवधिकं शतं कार्यं पञ्चमुखी प्रकीर्तिता ४४
कीर्तिसञ्जीवनी नाम घण्टा त्रयोदशं शतम्
मृणालसिंह सम्भूता शतं सप्तदशाधिकाम् ४५
गवाक्षं तत्र सम्भूतं कूटाकारं तु शोभनम्
शतमेकोनविंशत्या कर्तव्यं मृगसुन्दरम् ४६
शतं विंशाधिका पञ्च वैज्यन्ती घण्टामेव च
शतमेकोन त्रिंशत्या राजवर्द्धनिका शुभा ४७
यशः कीर्तिं बलं देयं राज्ञानां दर्द्धते मुदा
-–४८
इति विश्वकर्मा कृतायां वास्तुविद्यायां वास्तुशास्त्रे संवरणाधिकार अध्याय क्रमाङ्क १०