०९

श्री विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे क्रमाङ्क अध्याय ९
करोटक लक्षणाध्याय
अतोर्ध्वं मण्डपं वक्ष्ये अन्तरः क्रियते यथा
मण्डपस्य प्रमाणं स्यात् ज्ञातव्यं सूत्र साधितम् १
चतुरश्च कृते क्षेत्रे गर्भसूत्रं तु पातयेत्
व्यासार्धं तु ततो ग्राह्यं द्विषड्भागं तत्र भागयेत् २
गर्भार्धपञ्चभागाय दशभागैक अस्य
अष्टास्त्रः सिध्यते ह्येवं नात्रकार्या विचारणा
पूर्वोक्त भागमानेन सार्धस्य पट्टविस्तरम् ३
तन्त्रकेन समायुक्तं ज्ञातव्यं शिल्पिना त्वया
अतोर्ध्वं भ्रामयेद्वत्स सूत्रं तु भ्रमसाधितम् ४
पट्टयोरुभयोर्मध्ये विस्तारं च प्रलक्षयेत्
विस्तारार्धन तत्रैव कर्तव्यं च ततोच्छ्रयम् ५
उच्छ्रयेण शतं कुर्यात् अष्टादश विनिश्चितम्
कर्णदर्दरिका
अतो दर्दरिकां वक्ष्ये भागाश्चैव चतुर्दश ६
कामरूपं च भागेन भागं पादोन चिप्पिका
कर्णकं तु द्विभिर्भागैः भागैकं पदिकान्तरम् ७
त्रिभिः स्कन्धं च कर्तव्यं भागैकं पट्टिकाद्वयम्
चतुर्भागास्ततश्चोर्ध्वे ग्रासपट्टीश्च शोभना ८
पादोनकर्णमुत्सेधं अर्धं चान्तरपत्रकम्
चतुर्दशैस्तु कर्तव्या भागै दर्दरिका शुभा ९
निर्गमं ततो वक्ष्ये दर्दरिका सुशोभनम्
भागैकं कामरूपं च चिप्पिका द्वय निर्गता १०
सपादैस्तु त्रिभिर्भागै कर्णं तु तत्र कारयेत्
स्कन्धश्चैव ततः कार्यः सपादत्रयनिर्गतः ११
द्वौ भागौ निर्गमेणैव कर्तव्यं पट्टिका द्वयम्
सार्धेकादशभागे तु निर्गमेणैव कारयेत् १२
एवं दर्दरिका कार्या उदये निर्गमेन च
रूपकण्ठ
रूपकण्ठं ततो वक्ष्ये भागं चैव तु द्वादशे १३
कामरूपं च भागेन सार्धभागेन चिप्पिका
भागार्धं च ध्रुवं कार्यं पञ्चसार्धाश्च रूपकम् १४
छुरकं चार्धभागेन पादोना चैव चिप्पिका
पादेन घसिका कार्या पादूने चोर्ध्वचिप्पिका १५
कर्णं च भागपादोन अर्धेनान्तरपत्रकम्
तस्योर्ध्वे द्वादशोत्सेधं रूपकण्ठं सुशोभनम् १६
निर्गमं चैव वक्ष्यामि त्रिभिर्भागैस्तु कारयेत्
विद्याधरान् ततो कुर्यात् षोडशैव तु सङ्ख्यकान् १७
रूपकण्ठोच्छ्रिता कार्या निर्गमान् तत्प्रमाणतः
विस्तृता तत्प्रमाणेन मूले चैव तु कीर्तिताः १८
विद्याधराणामूध्वेन कामदेवं सुशोभनम्
प्रावृत्तं नायिकाभिश्च सुरूपैः सुमनोरमैः १९
इशान्याभिमुखं कार्यं धनुर्हस्तं पुष्पबाणक्रम्
एवं विधं प्रकर्तव्यं सर्वदोषापहारकम् २०
षड्दर्शनेषु प्रासादेषु अग्रेश्चैव तु कारयेत्
अन्यथा कुरुते यस्तु सगच्छेन्नरकं ध्रुवम् २१
शिल्पिनो निष्कुलं यान्ति राष्ट्रभङ्गभयं भवेत्
म्रियते यजमानस्तु नात्र कार्या विचारणा २२

गजतालु
भागोस्त्रयोदशैश्चैव कुर्याच्च गजतालुका
उच्छ्रयेण ततः कुर्यात् यथा भवति शोभनम् २३
भागैकं कामरूपं च भागं कुर्याच्च चिप्पिकाम्
लूमा वै सप्तभिः कुर्यात् भागैकं कामरूपकम् २४
भागैकं चिप्पिका कार्या कर्णसार्ध समुच्छ्रितम्
भागार्धे चान्तरपत्रं कर्तव्यं नात्रसंशयः २५
एवं त्रयोदशभागैः उच्छ्रयेण तु कारयेत्
निर्गमं चास्य वक्ष्यामि यथावदतु पूर्वतः २६
भागार्ध कामरूपस्तु चिप्पिकाद्वयनिर्गता
त्रिभिश्च गजतालुका चतुर्भिस्तु लूमास्मृता २७
चिप्पिका पृष्टिसूत्रेण खल्वणा तत्र कारयेत्
द्विभिर्माणिबन्धस्तु चिप्पिका द्वयनिर्गता २८
एवं त्रयोदशैः सार्धं निर्गमं गजतालुके
द्वितीय गजतालु
जगतालु द्वितीया च भागैश्चैव तु द्वादशैः २९
उच्छ्रयेण ततः कुर्यात् निर्गमः सार्ध द्वादशः
भागैरेकादशैश्चैव उच्छ्रयेण गजतालुका ३०
सार्ध एकादशाभागा निर्गमेण तु कारयेत्
तृतीयां कारयेत्प्राज्ञः सर्वकामफलप्रदाम् ३१
कोल
गजतालुकोर्ध्व कर्तव्यं कोलं चैव सुशोभनम्
पुष्पकण्ठं समायुक्तं छुरकैस्तु समावृत्तः ३२
भागादर्धं च ध्रुवं कुर्यात् द्वितीय ह्येवमेव च
पुष्पकण्ठं च सोधन छुरिका भाग त्रयेण तु ३३
कामरूप सपादेन चिप्पिका भाग पादुन
पट्टिका द्वयभागेन अर्धयान्तरपत्रिका ३४
कोलं च दशभिर्भागै उच्छ्रये निर्गमे तथा
चिप्पिका भागपादोन लूमापादाष्टका स्मृता ३५
पिण्ड कार्योनुभागेन एवं कोल समुच्छ्रय
सार्ध त्रिक एवं कार्यं कोलकं तस्य मध्यतः ३६
ध्रुवकेण समायुक्ता चिप्पिकाभिर्विनिर्गता
सार्धद्धि निर्गतं कार्य टेकरं तत्र शोभनम् ३७
सिद्धिस्तु पद्मपत्राणि शेषा लूमाः समालिखेत्
द्विभागे निर्गमणं च प्रथमा वलिका तत्र त्रिभिर्भागैस्तु निर्गता ३८
उच्छ्रिता च द्विभागेन पद्मकेसर संयुता
द्वितीया तत्समा कार्या निर्गमौच्छ्रये यथा ३९
त्रिभिश्चैव तृतीयं च निर्गमेणैव कारयेत्
उच्छ्रिता च द्विभागेन न न्यूना न चाधिका ४०
चतुर्थी च तथा कार्या सार्धद्विभाग निर्गता
प्रथमं षोडशैः कोलै द्वितीयं द्वादशैः स्थितम् ४१
अष्टकोलं तृतीयं च चतुः कोलं चतुर्थकम्
द्विकोलं पञ्चमं प्रोक्तं सर्वशोभासमन्वितम् ४२
उदयं निर्गमेणैव दशभागानि च कारयेत्
थरैः पञ्चभि च ख्याता भागानि उदयेन तु ४३
अष्टाविंशति शतार्धे भागानुत्र सङ्ख्यता
यथामेधागताश्चैव आषाढे य महिपति ४४
तथा मेधाश्च मण्डपा प्रोक्त आकाशं दशते पुनः
निलवृक्षे समुत्पन्ना देवता मपिता दुर्लभ ४५
इति श्री विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे करोटकलक्षणनाम क्रमाङ्क अध्याय ९