श्री विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे द्वारमानलक्षणाध्याय
क्रमाङ्क ६
श्री विश्वकर्मा उवाच -द्वार लक्षणं मान प्रमाण
द्वारस्य लक्षणं वत्स कथयामि यथार्थत
एकहस्ते तु प्रासादे द्वारस्यात् षोडशाङ्ङ्गुलम् १
षोडशाङ्गुलं वृद्धि पर्यन्त चतुर्हस्तकम्
गुणङ्गुका भवेद् वृद्धिर्यावम् वसुहस्तकम् २
अतः ऊर्ध्व द्वयाङ्गलावृद्धि पञ्चाश हस्तकम्
यं दृष्टा त्रिदशाः सर्वे विस्मय परमङ्गलः ३
ज्ञातव्यं द्वारमुत्सेधं शिल्पिनेन तु तत्त्वतः ४
पञ्चमांशेन पादेन त्रिभागेन तु कार्यतः
प्रासाद द्वार विस्तारं द्विगुणं तस्य चोछ्रयम् ५
द्वारस्य विस्तरं ज्ञात्वा शाखा लक्षणमब्रवीत्
पञ्च मांशेन हीना च षोडशोना तदर्धतः ६
त्रिभागेन प्रकर्तव्या पादूना वाथ कारयेत्
शाखास्य विस्तरं वत्स एकैकस्य तु प्रकल्पयत् ७
शाखास्य विस्तरं वत्स भागैश्चैव विभञ्जयत्
शाखास्य विस्तरं ज्ञात्वा त्रयोविंशार्ध संयुतैः ८
--कर्तव्यं तु सदा तज्ञे
--शिल्पिनिः शास्त्रपारगैः ९
भद्र शाखा तु कर्तव्या भागैश्चतुर्भिरेव च
रूपशाखां द्वयोर्भागा द्वितीया तत्समा भवेत् १०
तृतीया चैव त्रिभागा द्वौभागौ च चतुर्थिका
पत्रशाखां त्रिभिर्भागैरुभयोः पार्श्वयोः समाः ११
बकुली सार्ध भागेन भागं भागं च चिप्पिका
घसिका सुर संयुक्ता वौलिका भगतस्थिताः १२
पत्रशाखा द्विभिर्भागै पट्टिका द्वय संयुता
--खल्वशाखा च भागतः १३
शाखाश्च पेटकं पुत्र द्वार विस्तार पादतः
उदयं च प्रवक्ष्यामि यथा वदनु पूर्वशः १४
द्वारस्य चोछ्रयं ज्ञात्वा विंशभागैर्विभाजयेत्
दशपञ्च तथा कुर्यात् अतोर्ध्व भज्जनं शृणु १५
रथिका भद्र शाखास्य भागाश्चत्वारि दापयेत्
निगरं चाष्टभिर्भागैः शेषं चैवोपरिस्थितिम् १६
यस्य पदा देवा प्रतिहारा तस्य कारयेत्
सीमा मधेयदेवान् उपरे तत्र कारयेत् १७
निगरे वामा शाखायां महाकालं तु कारयेत्
दक्षिणे तु स्थितोनन्दी सर्वोपद्र वनाशनः १८
शिवस्याग्रे भवेद् ह्येवं नान्येषां तु सुरालये
निगरस्योपरिष्टा तु शिवरूपाणि कारयेत् १९
त्रिरथिकं च कर्तव्यं चतुर्भि वाथ कारयेत्
उपर्युपरि विन्यस्य रथिका शाखमानतः २०
उत्तरङ्गम्
उत्तरङ्ग च वक्ष्यामि यथोक्तं च स्वयम्भुवा
द्वारोच्छ्रयस्य पादून त्रिभागेवाथ चार्धतः २१
उछ्रयं चैव कर्तव्यं कथितेन यथार्थतः
भद्रे षु पल्लवैर्युक्तं भरणेषु विशेषतः २२
मालाधरस्तथायुक्तं मध्यभागे विनायकम्
ग्रहैश्चैव समोपेतं अधिनायक रूपकै
रथिको द्वि द्वि वधेषु भूषितव्यं प्रयत्नतः
उदम्बरम्
उदम्बरो ततो वक्ष्ये उच्छ्रयेण विशेषतः २४
द्वारोच्छ्रयस्य पादेन बाहुल्यो उदुम्बरस्य च
कर्तव्यं सर्वतस्तेवं घटां तस्य समोदयम् २५
द्वारविस्तार त्रिभागेन मध्यकन्द कारयेत्
मृणालेन समायुक्तं पद्यं कुर्यात्ततोपरि २६
पार्श्वयोरुभयोः कार्य ग्रासरूपं सपत्रकम्
धनदं वामदेशे तु दक्षिणे तु विनायकम् २७
युग्मेन सहितं वाथ कर्तव्यं नात्र संशयः
पीठोपरि तु कर्तव्यं मृणालं रूपसंयुतम् २८
मूलनासिक्योर्मध्ये समसूत्रं तु शोभनम्
शाखायां भित्तितुल्यं न न्यूनं न ततोऽधिकम् २९
सीमाधिक्यं हने दृष्टं भृत्यां श्चैवस्तु बान्धवान्
सीमा मध्यगतं वाथ स्वसुतं स्वामीनं हनेत् ३०
ऋजुसूत्रस्य चक्र स्यात् प्रजाहानिस्तदा भवेत्
अज्ञानात्स्थापयेदस्तु शिल्पीन च बुद्धिमान् ३१
निष्कुलं शिल्पीनस्तत्र कारकं मृत्युमाप्नुयान्
अथ शास्त्रप्रभाणेन उभयोरन्तरं चिरम् ३२
अर्धचन्द्र म्
अर्धचन्द्र प्रवक्ष्यामि द्वारविस्तार चार्धतः
कर्तव्यं निर्गमं तस्य न न्यूनं न ततोऽधिकम् ३३
निर्गमस्य च यन्मान द्विगुणं कारयेद्बुधः
त्रिभागेन नगरक उभयोः पार्श्वताः समम् ३४
पद्मं च मध्यतः कुर्यात्ततो वृत्तं समालिखेत्
शङ्खयुग्मं समायुक्तं पद्माकारैः समावृत्तम् ३५
एतत्ते कथितं सर्व निःसन्देह यथार्थतः
अपूर्ण
इति श्री विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे द्वारमान
लक्षणाध्याय क्रमाङ्क ६