०२

श्री विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे क्रमाङ्क
द्वितीयोऽध्याय २
ग्रन्थपूर्ति
वास्तुप्रारम्भ
शुभ लग्ने शुभ नक्षत्रे पञ्चग्रह बलान्विते
मास सङ्क्रान्तिवत्सादि निषिद्धकाल वर्जिते १
भूमिपरीक्षा
सर्वदिक्षुप्रवाहो वा प्रागुदक्शङ्करप्लवा
केशाङ्गाराकाष्टलोहास्थिक्रान्त शोधयेत् भूमि २
पाषाणान्ते जलान्तवा वालुकान्नखनेन्त भूमि
दिग्शुद्धिकृते वास्तु पुरप्रासाद मन्दिर ३
पञ्चवानवाशिला मध्ये कर्मशिला स्थापयेत्
एक हस्ते तु प्रासादे शिलो वेदाङ्ङ्गुलो भवेत् ४
षडाङ्ङ्गुला द्विहस्ते च त्रिहस्ते च ग्रहाङ्गुला
चतुहस्तेय प्रासादे शिलास्याद द्वादशाम् ५
ततोऽपरेष्ट हस्तान्ते वृद्धिवेदाङ्गुलो भवेत्
पुनः त्र्! यङ्गुलातो वृद्धि पञ्चाश हस्तकावधि ६
पादेन चोच्छिता शस्तातां कुर्याद् पङ्कजान्वितम्
दिग्पाल क्षेत्रपाल गणेशचण्डीका वास्तौ ७
एतेषां विधिवत्पूजा कृत्वा कर्मसमारभेत्
शिलाधः नागकूर्मोपरिकुभ स्थापयेत् ८
एक हस्तादिप्रासादाद् यावद् हस्तशतार्धकम्
प्रमाणां कुम्भकेमुले नासिकेभित्ति बाह्यते ९
त्रिपञ्चसप्तनवोभि फलनाभिर्विभाजितम्
प्रासादस्याङ्गसङ्ख्या च वारिमार्गान्तरस्थिता १०
इति विश्वकर्माकृते वासुविद्यायां वास्तुशास्त्रे वास्तुप्रारम्भाशिला स्थापना ध्याय द्वितीयोऽध्याय २