अथ पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः
पञ्चानां हंसमुख्यानां देहबन्धाति खन्नृणाम्
दण्डिनीप्रमुखानां च स्त्रीणां ता ब्रूमहे पृथक् १
हंसः शशोऽथ रुचको भद्रो मालव्य एव च
पञ्चैते पुरुषास्तेषु मानं हंसस्य कथ्यते २
अष्टाशीत्यङ्गुलो हंसस्यायामः परिकीर्तितः
विज्ञेया वृद्धिरन्येषां चतुर्णां द्व्यङ्गुलक्रमात् ३
तस्यङ्गुलद्वयं सार्धं शाटालं नासिका मुखम्
ग्रीवा च वक्तश्चयमोद् भवेदेकादशाङ्गुलम् ४
एवमेवोदरं नाभिमेढ्रयोरन्तरं दश
विंशतिश्चाङ्गुलान्यूरू जङ्खे च त्रीणि जानुनी ५
त्रीण्यङ्गुलान्यङ्गुले च केशभूरङ्गुलद्वयम्
केशान्तमानं सर्वेषामधिकं स्यात्स्वमानतः ६
विस्तारेण भवेद् वक्षस्तस्यैवाङ्गुलविंशतिः
द्वादशाङ्गुलविस्तारो बाहुसंसस्य निर्दिशेत् ७
दशाङ्गुलौ प्रकोष्ठौ च हस्ततथे –तथा पृथक् पृथक् च्छ्रोणिः पीनाङ्गुलि ततो भवेत् ८
हंसस्वभावेन पृथग् –म्भारनासिकः
शेसस्य त्र्यङ्गुलं –नासिका वक्त्रमेव च ९
ग्रीवापि तत्प्रमाणैव वक्षस्त्वेकादशाङ्गुलम्
तथोदरं तथा नाभिमेढ्रयोरन्तरं दश १०
ऊरू विंशतिमात्रौ च शशस्य परिकीर्तितौ
त्र्यङ्गुले जानुनी जङ्घे मात्राविंशतिमायते ११
गुल्फौ च त्र्यङ्गुलायामौ तावन्मात्रं शिरो भवेत्
आयामोऽयं शशस्यैवं स्यान्नवत्यङ्गुलोन्मितः १२
द्वाविंशत्यङ्गुलं वक्ष्यां विस्तारेणास्य कीर्तितम्
बाहुप्रबाहू पाणी च शशकस्यापि हंसवत् १३
समयाच्च स कर्तव्यः स्वभावाच्च कृशोदरः
तथोयवेत् केशोरुजङ्घो द्विद्वान् विचक्षणैः १४
रुचकस्य तुखायामद्याम प्रोक्तः सार्धदशाङ्गुलः
ग्रीवाङ्गुलत्रयं सार्धमायामेनास्य कीर्तिता १५
एकादशाङ्गुलो व्यापूर्वकृस्तस्य प्रमाणतः
तावन्त्येवोदरं तस्य नाभिमेढ्रान्तरं दश १६
विंशतिश्चाङ्गुलान्यूरू जानुनी चाङ्गुलत्रयम्
विंशत्यङ्गुलमायामं जङ्घयोस्तस्य निर्दिशेत् १७
अङ्गुलत्रितयं गुल्फौ कुर्यात्तस्य शिरोऽपि च
द्विनवत्यङ्गुलायामो रुचकः परिकीर्तितः १८
इत्यायामोऽस्य विस्तारो वक्षसोऽङ्गुलविंशतिः
भुजौ दशाङ्गुलायामौ प्रकोष्ठौ तद्वदेव च १९
एकाडशाङ्गुलौ हस्तौ विस्तारेणास्य कीर्तितौ
पीनांसः पीनबाहुश्च सलीलगतिचेष्टितः २०
बलवान् वृत्तबाहुः स्याद्रुचको रुचकाकृतिः
भद्र स्य प्राहुरायामं मस्तकस्याङ्गुलत्रयम् २१
एकाडशाङ्गुला –ग्रीवा सार्धाङ्गुलत्रया
वक्षो जठरमप्यस्य सपादैकादशाङ्गुलम् २२
नाभिमेढ्रान्तरं चास्य विद्यात्सार्धदशाङ्गुलम्
आयाममूर्वोर्जानीयात् सपादाङ्गुलविंशतिम् २३
जङ्घे च तावदायामे जानुगुल्फं त्रिमात्रकम्
चतुर्तवर्तिसरामो चन्द्र स्यैष प्रकीर्तितः २४
आयाम एष विस्तारो वक्षसस्त्वेकविंशतिः
एकादशाङ्गुलौ बाहू तस्य –२५
हंसादिपुंसामिदमेवमुक्तं
यद्वा यथालक्षणमानमत्र
स्त्रीणां च सम्यग्गदिता सुखानाद्
यो वेत्ति मान्यः स भवेन्नृपाणाम् २६
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे
पञ्चपुरुषस्त्रीलक्षणं नामाध्याय एकाशीतितमः