अथ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः
अथ प्रियं वितेऽस्माभिर्विन्यासश्चित्रकर्मणः
चित्रं हि सर्वशिल्पानां मुखं लोकस्य च प्रियम् १
पदे पदे वा कुड्ये वा यथा चित्रं सं वचने
वर्तयः कृतबन्धाश्च लेखामानं यथा भवेत् २
वर्णगव्यक्तिया यादृग्यादृशो वर्तनाक्रमः
नानोन्मानविधिश्चैव नवस्थाने विधिस्तथा ३
हस्तानां यश्च विन्यासो लक्षणनात्रसंशय
दिव्यानां मानुषाणां च दिव्या सा मुखजन्मना ४
गणरक्षःकिन्नराणां कुब्जवामनयस्तेषाम्
विकल्पाकृतिमानानि रूपसंस्थानमेव च ५
वृक्षगुल्मलतावल्लीवीरुधां पापकर्मणाम्
शूराणां दुर्विधानां च धनिनां पृथिवीभृताम् ६
ब्राह्मणानां विसासोडजातन क्रूरकर्मणाम्
मानिनामथ रङ्गोपजीविनां चेह्रङ्गकथ्यते ७
रूपलक्षणनैपथ्यं सतीनां राजयोषिताम्
दासीप्रव्रजितारण्डायतिवल्लीषु लक्षणा ८
कन्यानामसङ्कारणां च विध्याना गजवाजिनाम्
मकरव्यालसिंहानां तथा यज्ञोपयोगिनाम् ९
विना रात्रिविभागस्य ऋतूनां चापि लक्षणम्
अत्र योज्यं याप्यम्भ्र कथं भवति १०
प्रविभागस्य देवानां रेखाणां चापि लक्षणम्
लक्षणं पञ्चभूतानां तेषामारम्भ एव च ११
वृकादीनां विहङ्गानां सर्वेषां जलवासिनाम्
चित्रन्यासविधानस्य ब्रूमः सम्प्रति लक्षणम् १२
कर्मण कर्मा करमे यस्माच्चित्रकर्मणि वर्तते
तस्याङ्गान्यभिधीयन्ते तेन सर्वानि विस्तरात् १३
वर्तिका प्रथमं तेषां द्वितीयं भूमिबन्धनम्
लेख्यं तृतीयं स्याद् रेखाकर्माणि वर्ततेमिह लक्षणम् १४
पञ्चमं कर्षकर्मच्च षाष्ठं स्याद् वर्तनाक्रमः
सप्तमं लेखनं लेखकरणं द्विचकर्म तथाष्टमम् १५
सङ्ग्रहोऽयमिति चैव कर्मणः
सूत्रिति तदनुक्रमेणा थः
भावयेन्न खलु मोहमेत्यसौ
चित्रकर्मणि कृती च जायते १६
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे
चित्रोद्देशाध्यायो नाम एकसप्ततितमोऽध्यायः