५८

अथ प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः
प्रासादानां चतुःषष्टिरिदानीमभिधीयते
या पूर्वं ब्रह्मणा दत्ता प्रासादा विश्वकर्मणे १
मर्मवेधस्थिता वास्तुदेवाः पूज्या यथोचितम्
पूज्यता च स्मृता तेषां प्रासादे मण्डपे ध्वजे २
आसने वाहने तद्वत्सर्वोपकरणेष्वपि
प्रासादे यादृशश्छून्दस्तादृङ्मन्दपीठयोः ३
तथा वास्तुविरुद्धं स्यात्प्रासादाङ्गे हिते विदुः
अष्टावष्टौ स्मृतास्तेषु त्रिदशानां पृथक्पृथक् ४
शम्भोर्हरेर्विरिञ्चस्य ग्रहाणामधिपस्य च
चण्डिकाया गणेशस्य श्रियाः सर्वदिवौकसाम् ५
विमानः सर्वतोभद्रो गजपृष्ठोऽथ पद्मकः
पृषभो मुक्तकोणश्च नलिनो द्रा विडस्तथा ६
इत्येतेऽष्टौ समुद्दिष्टाः प्रासादास्त्रिपुरद्रुहः
गरुडो वर्धमानश्च शङ्खावर्तोऽथ पुष्पकः ७
गृहरस्वस्तिकश्चैव रुचकः पुण्ड्रवर्धनः
कार्या जनार्दनस्याष्टौ प्रासादाः पुरभूषणाः ८
मेरुमन्दरकैलासा हंसाख्यो भद्र एव च
उत्तुङ्गो मिश्रकश्चैव तथा मालाधरोऽष्टमः ९
इत्यष्टौ ब्रह्मणः प्रोक्ताः प्रासादाः पुरमध्यगाः
गवयश्चित्रकूटश्च किरणः सर्वसुन्दरः १०

श्रीवत्सः पद्मनाभश्च वैराजो वृत्त एव च
एते कार्या रवेरष्टौ प्रासादाः शुभलक्षणाः ११
नन्द्यावर्तश्चैव चलभश्चर्णदिख्यः सिंह एव च
विचित्रो योगपीठश्च घण्टानादपताकिनौ १२
अष्टावेते विधातव्याश्चण्डिकायाः सुरालयाः
गुहारसलोकश्च वेणुभद्रो ऽथ कुञ्जरः १३
तथा च हर्षविजयावुदकुम्भोऽथ मोदकः
एतान् विनायकस्याष्टौ प्रासादान् कारयेच्छुभान् १४
महापद्म हर्म्यननलमुज्जयन्तस्तथा परः
गन्धमादनसञ्ज्ञं च शतशृङ्गानवष्ककौ १५
सुविभ्रान्तो हारीत्यष्टौ लक्ष्म्याः प्रकीर्तिताः
वृत्तो वृत्तायतश्चैत्यः किङ्किणीलयनाभिधः १६
पट्टिशो विभवाख्यश्च ततश्चारागणाष्टमः
कुर्वीत सर्वदेवानां प्रासादान् वास्तुशास्त्रवित् १७
प्रासादस्तवनं नामाष्टपञ्चाशत्तमोऽध्यायः