अथ जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः
ब्रूमो जघन्यवास्तूनां द्वारमानमतः परम्
विस्तारं सतलोच्छ्रायं द्र व्यव्यासविधिं तथा १
कथिता ये निराधाराः प्रासादास्तिर्यगायताः
तेषां भागचतुष्केण गर्भवासं विभाजयेत् २
द्वारं सार्धेन भागेन कुर्वीत स्वार्धविस्तृतम्
द्वारविस्तारपादेन पेद्याया विस्तृतिर्भवेत् ३
विस्तारार्धेन पिण्डः स्यात्तत्समः स्यादुदुम्बरः
सार्धमूलादुम्बरकः शाखा व्यासवशाद्भवेत् ४
चतुर्विधश्च कर्तव्यः पेद्यापिण्डः प्रमाणतः
शाखा तु पेद्यापिण्डश्च विस्तारेण विधीयते ५
शाखाविस्तारतो रूपशाखा स्यात्सार्धविस्तृतिः
अर्धेन पेद्यापिण्डस्य खल्वशाखा विधीयते ६
रूपशाखासमाः कार्या विस्तारात्तुङ्गशाखिकाः
तुङ्गाया बाह्यतः शाखाः क्रियन्ते यास्तु काश्चन ७
अष्टांशाभ्यधिकाः सर्वाः कर्तव्या विस्तरेण ताः
द्वारस्यायामविस्तारयोगात् सङ्ख्या भवेत्तु या ८
तलोदयस्य तन्मानं गर्भमण्डपयोः समम्
यदि भिन्नतलं कर्तुं मण्डपः कश्चि हीयते ९
द्वारोच्छ्रिते तद्गुणानां मण्डपे स्यात्तलोच्छ्रितिः
प्रासादेषु कनीयस्सु तलमानमुदाहृतम् १०
षड्भागाभ्यधिकं ज्येष्ठे मध्येऽष्टांशाधिकं ततः
बलविधिः समपदः प्रासादस्य विधीयते ११
नाधस्तात् स प्रयोक्तव्यो नोर्ध्वतश्चाप्युदुम्बरात्
कुम्भिकाभरणपट्टजयन्तीशीर्षकायफलकेषु तुला
उक्तमिह यत्प्रथमं तन्नाधिकं प्रविदधीत न हीनम् १२
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि
वास्तुशास्त्रे जघन्यवास्तुद्वारं नाम
त्रिपञ्चाशोऽध्यायः