५१

अथायतननिवेशो नामैकपञ्चाशोऽध्यायः
एवं नृपस्य प्रासादे कृएकॢप्तऽथवा भुवि
तस्यानुशीविनः कुर्युः प्रासादान् परिधौ यदि १
तदा दिग्भागविन्यासस्थानमानान्यनुक्रमात्
तेषामिहाभिधीयन्ते सर्वेषां वृद्धिहेतवे २
दशाष्टौ षट्च धनुषां शतानि क्ष्माभृतां क्रमात्
मानमायतनस्योक्तं त्रेधा श्रेष्ठादिभेदतः ३
क्षेत्रमायतनस्यैवं चतुरश्रं समन्ततः
तत्र भक्ताः प्रकुर्वीरंस्त्रिधा स्वे स्वामिवत्सलाः ४
ये चास्य सम्मताः केचित्कुले जाता हितैषिणः
द्वादशांशेन हीनानि क्रमात् तान्यनुजन्मनाम् ५
तस्यैव वामतः कुर्यादुत्सेधाद्द्विगुणान्तरे
कुर्याद्दशांशहीनानि नैरृत्यां दिशि भूपतेः ६
प्रासादान्नृपपत्नीनां सर्वासामपि शास्त्रवित्
अष्टभागेन हीनानि प्रतीच्यां दिशि कारयेत् ७
देवधिष्ण्यानि तन्त्रैः स्यात् स्वसुराणां विधानतः
सौम्यायां मारुतीं यावन्नवांशापचिताः क्रमात् ८
प्रासादा मन्त्रिसेनानीप्रतीहारपुरोधसाम्
एतेषां पूर्वभागस्थं राजमातुर्निवेशनम् ९
हीनमेकादशांशेन तत्कार्यं राजकारिता
ऐशीमाश्रित्य देवानां तुल्यमैन्द्र पदावधि १०
स्वसॄणां मातुलानां च कुमाराणां तथा क्रमात्
आग्नेय्यां द्विजमुख्यानां विधातव्यं निवेशनम् ११
कार्यः पुरोधःप्रासादः तुल्यतत्पुनरेव वा
याम्यायां कुर्युरष्टांशहीनान्युर्वीशमन्दिरात् १२
सामन्तकुञ्जरारोहभटपौरजनाः क्रमात्
एतान्यायतनान्येषां यथाभागं प्रकल्पयेत् १३
मर्मवेधप्रदेशस्थान् द्वारवेधगतानपि
स्वस्थानान्तरितांश्चैतान् न कुर्याद्धितकाम्यया १४
अलिन्दैर्गर्भकोष्ठैश्च सीमास्तम्भगवाक्षकैः
द्वारद्र व्यतलोच्छ्रायैः प्राग्ग्रीवैः सिंहकर्णकैः १५
न कुर्याद्भूषणैस्तुल्यं समं वास्थन्दरूपतः
समरूपं भवेद्धर्म्यं निर्युक्तं च न नन्दति १६
राजपीडा भवेत्तस्मिन्नाधिक्ये च कुलक्षयः
प्रासादाद्भूमिपालस्य निवेशं परिधौ स्थितम् १७
द्र व्येण कतरेणापि नोत्कृष्टं कारयेद्बुधः
संस्थानान्मानतश्चापि विस्तारेणोच्छ्रयेण वा १८
पूर्वोक्तेभ्यो विभागेभ्यः किञ्चिद्धीनतमः शुभः
अन्योन्यं द्विगुणच्छाद्यैरेकैकस्यान्तरं शुभम् १९
सुभोग्यं तं च कुर्वीत बहुभिर्भवनान्तरैः
कोष्ठिकाभोजनागारैर्भाण्डोपस्करधामभिः २०
शिलालूषात शालाभिः शेषं तु परिपूरयेत्
प्रशस्तान् कारयेत्सर्वाञ्शुभरूपान् मनोरमान् २१
प्रायशः स्वालयांश्चान्यान् सर्वस्यान्यगृहाणि च
नरेन्द्रा यतनस्यैव निवेशात्परिकल्पयेत् २२
अन्यथात्वे महादोषा वैपरीत्ये कुलक्षयः
इति कथितदिगादिभेदयोगैः
सुरभवनानि भवन्ति यस्य राज्ञः ।
अविरतमुदितोदितप्रतापः
स्वभुजजितां स चिरं प्रशास्ति पृथ्वीम् २३
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे आयतननिवेशो नामैकपञ्चाशोऽध्यायः