अथ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः
प्रासादानामथ ब्रूमो लक्षणानि भवन्ति ये
प्रशस्ताश्चाप्रशस्ताश्च तस्मिन्नवनिमण्डले १
ये समाः समकर्णाश्च समस्तम्भाः समक्षणाः
नैवोच्चा नातिह्रस्वाश्च कर्णायामादविह्वलाः २
असम्मूढा विभागेन प्रमाणेन सुसंस्थिताः
ऊर्ध्वाधः कर्णपादीभिरुपेताः सलिलान्तरैः ३
असङ्कीर्णोदयैश्छाद्यैः स्वमानपरिकल्पितैः
सुविभक्ताः सुसंस्थाश्च रम्यैरविकलैः कृताः ४
समभागविभक्तैश्च युक्ताश्चालिन्दकैः समैः
स्वजातिपरिवेषाद्या नान्यजातिप्रदूषिताः ५
असङ्कीर्णाः शरीरेण संस्थानेन सुसंस्थिताः
केवला जातिशुद्धाश्च प्रासादाः शुभदा नृणाम् ६
सुदृढैर्मूलपादैश्च द्दढाश्चामूलमस्तकम्
नाधरोत्तरयुक्ताश्च सुश्लिष्टद्र व्यसन्धिभिः ७
देवजातिप्रसिद्धैश्च भूषणैः सुविभूषिताः
प्रासादाः शुभदा नित्यं पूजासंस्कारवर्धनाः ८
कर्ता कारयिता चैषां परां वृद्धिमवाप्नुयात्
अधमानपि वक्ष्यामः प्रासादानवलक्षणैः ९
विषमाः कर्णहीनाश्च क्लेशबन्धभयावहाः
स्तम्भैः क्षणैश्च विषमैः स्वामिनो मृत्युहेतवः १०
अत्युच्चैः स्याद्भयं राज्ञो ह्रस्वैः सेना च मथ्यते
कर्णायामेन विकलाः प्रासादाः स्युर्भयङ्कराः ११
विभागेन विहीनास्तु दारिद्र य्भयदाः स्मृताः
नष्टाभिः कर्णपादीभिरुद्वेगजनना नृणाम् १२
छाद्यैः सङ्कीर्णकैर्हीनैः कुलक्षयकराः स्मृताः
दुर्विभक्ताः कुसंस्थाश्च द्र व्यैर्विकलसंयुतैः १३
रोगं क्लेशं च मृत्युं च क्रमशो वितरन्ति ते
विषमैर्भागहीनैश्चाप्यलिन्दैर्व्याधितो भयम् १४
पराजयं परिवृतैरन्यजातिप्रदूषितैः
ये परावृतयो येऽन्यसङ्कीर्णा येऽन्यविग्रहाः १५
कर्तुः कारयितुर्नैते नन्दका वापि चात्मनः
दुर्बला मूलपादेन विश्लिष्टैः पीठसन्धिभिः १६
अल्पायुषस्ते प्रासादा भवन्ति च भयावहाः
अधरोत्तरगैः श्लिष्टैर्विज्ञेया व्याधिकारिणः १७
आदेशैर्भूषणैर्युक्ताः प्रासादा न सुखावहाः
ये कीर्त्तिमिच्छन्ति जयन्ति भूतान् कुर्युः शुभैर्लक्ष्मभिरन्वितांस्ते
प्रासादमुख्यानितरे तु वर्ज्यास्तेजोयशःश्रीविजयादिकामैः १८
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि
वास्तुशास्त्रे प्रासादशुभाशुभलक्षणं नाम
पञ्चाशोऽध्यायः