अथ वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः
वेद्यश्चतस्रो विज्ञेया या पुरा ब्रह्मणोदिताः
वयं ताः सम्प्रवक्ष्यामो नामसंस्थानमानतः १
प्रथमा चतुरश्रा स्यात्सभद्रा च द्वितीयका
तृतीया श्रीधरी नाम चतुर्थी पद्मिनी स्मृता २
यज्ञकाले तथोद्वाहे देवतास्थापनेषु च
नीराजनेषु सर्वेषु वह्निहोमे च नित्यशः ३
नृपाभिषेचने चैव शक्रध्वजनिवेशने
नृपयोग्या भवन्त्येता वर्णानामनुपूर्वशः ४
चतुरश्रा तु या वेदि नवहस्ता समन्ततः
अष्टहस्ता प्रमाणेन सर्वभद्रा प्रकीर्तिता ५
श्रीधरी सप्त विज्ञेया हस्तान् मानेन वेदिका
षड्ढस्ता चैव शास्त्रज्ञैर्नलिनीह विधीयते ६
चतुरश्रा तु कर्तव्या चतुरश्रा समन्ततः
भद्रै स्तु सर्वतोभद्रा भूषणीया चतुर्दिशम् ७
श्रीधरी चापि विज्ञेया कोणविंशतिसंयुता
नलिनीति च विज्ञेया पद्मसंस्थानधारिणी ८
कर्तव्याः स्वस्वविस्तारादुच्छ्रयेण त्रिभागिकाः
कुर्यान्मन्त्रवतीभिस्ता इष्टकाभिस्तु चायताः ९
चतुरश्रा यज्ञकाले विवाहे श्रीधरी स्मृता
देवतास्थापने वेदीं सर्वभद्रा ंनिवेशयेत् १०
नीराजने साग्निकार्ये तथा राजाभिषेचने
वेदी पद्मावती या च तथा शक्रध्वजोच्छ्रये ११
चतुर्मुखा तु कर्तव्या सोपानैश्च चतुर्दिशम्
प्रतीहारसमायुक्ता चार्धचन्द्रो पशोभिता १२
चतुःस्तम्भसमायुक्ता चतुष्कुम्भविराजिता
काञ्चनै राजतैस्ताम्रैर्मृन्मयैः कलशैस्तथा १३
कोणे कोणे तु विन्यस्तैर्वल्गुवानरभूषितैः
स्तम्भप्रमाणं वेदीनां कार्यं छाद्यवशेन च १४
एकेन द्वित्रिभिर्वापि च्छाद्यैः सामलसारिकैः
स्तम्भमूलानि चाभ्यज्य गुडेन मधुसर्पिषा १५
परमान्नेन वाभ्यज्य तान्विन्यस्येद्यथातथम्
देवताः पूजयित्वा तु ब्राह्मणान्स्वस्ति वाचयेत् १६
चतुर्विधमितीरितं यदिह वेदिकालक्षणं
समग्रमपि वर्तते मनसि यस्य तच्छिल्पिनः
स याति भुवि पूज्यतामवनिभोक्तुराप्नोति च
श्रियं स्थपतिसंसदि स्फुरति चास्य शुभ्रं यशः १७
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि
वास्तुशास्त्रे वेदीलक्षणं नाम
सप्तचत्वारिंशोऽध्यायः