अथ स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः
स्थापत्यमुच्यतेऽस्माभिरिदानीं प्रक्रमागतम्
ज्ञातेन येन ज्ञायन्ते स्थपतीनां गुणागुणाः १
शास्त्रं कर्म तथा प्रज्ञा शीलं च क्रिययान्वितम्
लक्ष्यलक्षणयुक्तार्थशास्त्रनिष्ठो नरो भवेत् २
सामुद्रं गणितं चैव ज्योतिषं छन्द एव च
सिराज्ञानं तथा शिल्पं यन्त्रकर्मविधिस्तथा ३
एतान्यङ्गानि जानीयाद्वास्तुशास्त्रस्य बुद्धिमान्
शास्रानुसारेणाभ्युद्य लक्षणानि च लक्षयेत् ४
प्रसिद्धशास्त्रदृष्टान्तैर्वास्तुज्ञानं प्रसाधयेत्
वास्तुनः ससिरावंशैर्मर्मवेधैः सुनिश्चितैः ५
वास्तुद्वारक्षणान् भूयः सर्वान् जानाति शास्त्रतः
यस्तु शास्त्रमविज्ञाय प्रयोक्ता स्थपतिर्भवेत् ६
हन्तव्यः स स्वयं राज्ञा मृत्युवद्रा जहिंसकः
मिथ्याज्ञानादहङ्कारी शास्त्रे चैवाकृतश्रमः ७
अकालमृत्युर्लोकस्य विचरेद्वसुधातले
यस्तु केवलशास्त्रज्ञः कर्मस्वपरिनिष्ठितः ८
स मुह्यति क्रियाकाले दृष्ट्वा भीरुरिवाहवम्
केवलं कर्म यो वेत्ति शास्त्रार्थं नाधिगच्छति ९
सोऽचक्षुरिव नीयेत विवशोऽन्येन वर्त्मसु
कर्म वास्तुविधेः स्थानं मानमुन्मानमेव च १०
क्षेत्रजाति च कर्माणि लुमालेखाचतुर्दश
चत्वारो गण्डिकाच्छेदान्वृत्तच्छेदेषु सप्तसु ११
सुश्लिष्टं सन्धिसन्धानैरधरोत्तरसंयुतम्
बाह्यरेखान्वितं शुद्धं यो जानाति स कर्मवित् १२
शास्त्रकर्मसमर्थोऽपि स्थपतिः प्रज्ञया विना
फलेयुः कर्मभिरन्याभिः स्यान्निर्मद इव द्विपः १३
प्रत्युत्पन्नमतिर्यः स्याद्वाहतः स्थपतिस्तथा
कर्मकाले न मुह्येत्स प्रज्ञानेनोपबृंहितः १४
अप्रज्ञेयं दुरालोकं गूढार्थं बहुविस्तरम्
प्रज्ञापोतं समारुह्य प्राज्ञो वास्तुनिरं तरेत् १५
ज्ञानवांश्च तथा वाग्मी कर्मस्वपि च निष्ठितः
एवं युक्तोऽपि न श्रेयान् यदि शीलविवर्जितः १६
रोषाद् द्वेषात्तथा लोभान्मोहाद्रा गात्तथैव च
अन्यचिन्त्यत्वमायाति दुःशीलानामविक्षयात् १७
शीलवान् पूजितो लोके शीलवान् साधुसम्मतः
शीलवान् सर्वकर्मार्हः शीलवान् प्रियदर्शनः १८
शीलाधाने परं यत्नमाधितिष्ठेत्स्थपतिः सदा
ततः कर्माणि सिध्यन्ति जनयन्ति शुभानि च १९
तथाचाष्टविधं कर्म ज्ञेयं स्थपतिना सदा
आलेख्यं लेख्यजातं च दारुकर्म चयस्तथा २०
पाषाणसिद्धहेम्नां च शिल्पं कर्म तथैव च
एभिर्गुणैः समायुक्तः स्थपतिर्याति पूज्यताम् २१
स्थापत्यमङ्गैरिदमष्टभिर्यश्चतुर्विधं वेत्ति विशुद्धबुद्धिः
स शिल्पिनां संसदि लब्धपूजः परां प्रतिष्ठां लभते चिरायुः २२
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि
वास्तुशास्त्रे स्थपति लक्षणं नाम
चतुश्चत्वारिंशोऽध्यायः