अथ पीठमानं नाम चत्वारिंशोऽध्यायः
देवानां मनुजानां च पीठमानमथोच्यते
पीठं कनीयो भागं च सार्धभागं तु मध्यमम् १
द्विभागमुत्तमं तत् स्याडेषा पीठसमुच्छ्रितिः
महेश्वरस्य विष्णोश्च ब्रह्मणश्चोत्तमं भवेत् २
इतरेषां च देवानां कर्तव्यं तन्न धीमता
ईश्वरस्य यथाकामं पीठं कार्यं विचक्षणैः ३
यस्मिन्स्थाने विधातव्यो ब्रह्मा विष्णुस्तथैव च
ईश्वरः सर्वतः कार्यो न दोषस्तत्र विद्यते ४
इतरेषां तु देवानां पीठं भागं समुच्छ्रितम्
यस्य येन विभागेन वास्तुमानं विधीयते ५
तस्य तेनैव भागेन पीठोच्छ्रायो विधीयते
मनुजानां च पीठानि वेश्मनां देवपीठकैः ६
तुल्यानि कुर्यादुपरि कृता वृद्धिकराः सुराः
पुरमध्ये तु कर्तव्यं ब्रह्मणो गृहमुत्तमम् ७
चतुर्मुखं च तत्कार्यं यथा पश्यति तत्पुरम्
अधिकं सर्ववेश्मभ्यस्तथा राजगृहादपि ८
राजवेश्माधिकमपि शस्यतेऽन्यसुरालयात्
पञ्चमो लोकपालनां राजा श्रेष्ठतमो यतः ९
एवमेतानि देवानां पीठान्युक्तान्यशेषतः
चातुर्वर्ण्यस्य पीठानि ब्रूमो विप्राद्यनुक्रमात् १०
षट्त्रिंशदङ्गुलोत्सेधं पीठं विप्रस्य शस्यते
इतरेषां तु वर्णानां ह्रस्वं स्याच्चतुरङ्गुलम् ११
चातुर्वर्ण्यस्य पीठानि भुङ्क्ते विप्रो गृहाणि च
त्रयाणां क्षत्रियो वैश्यो द्वयोः शूद्रः क्रमात्स्वकम् १२
एवं विभागं पीठानां स्थपतिः परिकल्पयेत्
हितं कारयितुर्वाञ्छन् नृपतेश्च समृद्धये १३
प्रमाणे स्थापिता देवाः पूजार्हाश्च भवन्ति हि
प्रमाणं पीठानामिदमभिहितं ब्रह्ममुरजित्पुरारीणामत्रापरदिविषदां यच्च नियतम् ।
ततो विप्रादीनामपि निगदितं यत्तदखिलं
यथौचित्यायोज्यं श्रियमभिलषद्भिः स्थपतिभिः १४
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि
वास्तुशास्त्रे पीठमानं नाम चत्वारिंशोऽध्यायः