३८

अथ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः
इदानीमभिधास्यामो वास्तुसंस्थानमातृकाम्
निवासहेतवे सम्यक्सर्वकर्मोपजीविनाम् १
चतुरश्रं समं साचि दीर्घं वृत्तं च शम्वुकम्
शकटाक्षभगादर्शवज्रकन्थाकृतीनि च २
छिन्नकर्णं विकर्णं च शङ्खाभं क्षुरसन्निभम्
शक्त्याननं कूर्मपृष्ठं सदंशं व्यजनाकृति ३
शरावस्वस्तिकाकारं मृदङ्गपणवोपमम्
विशर्करं कबन्धाभं यवमध्यसमाकृति ४
उत्सङ्गराजदन्ताभे तथा परशुसन्निभम्
विस्रावितं च श्वभ्रं च प्रलम्बं च विवाहिकम् ५
त्रिकुष्टं पञ्चकुष्टं च परिच्छिन्नं तथापरम्
दिक्स्वस्तिकाभं श्रीवृक्षं वर्धमानसमाननम् ६
एणीपदं नरपदं चत्वारिंशत्समासतः
क्षेत्रान्युक्तान्यथामीषां विनियोगो विधीयते ७
चतुरश्रे समे राजा शय्याकारे पुरोहिताः
दीर्घे कुमारकाः सेनापतिर्वृत्तायते वसेत् ८
वसेयुः शम्बुकाकारे सर्वे वाहाः सुखार्थिनः
अन्तःपुरं सद्म समे वाणिजाः शकटाकृतौ ९
वेश्यास्तु भगसंस्थाने दर्पणाभे सुवर्णकृत्
संस्थानतो वज्रसमे जना नगरगोष्ठिकाः १०
वसेयुः शङ्खसंस्थाने क्षेत्रे पुत्राभिलाषिणः
छिन्नकर्णे महामात्रा विकर्णे मृगलब्धकाः ११
शङ्खाभे चैकदृश्वानो गणाचार्याः क्षुरोपमे
व्रताध्यक्षः शक्तिमुखे कूर्मपृष्ठे तु मालिकाः १२
सदंशे सौचिका वाजिपोषिका व्यजनोपमे
तक्षाणश्च शरावाभे स्वस्तिके वन्दिमागधाः १३
पणवाभे मृदङ्गाभे वेणुतूर्यादिवादकाः
विशर्करे तु रथिनः कबन्धप्रतिमे पुनः १४
नीचाः श्वपाकाश्च यवप्रतिमे धान्यजीविनः
उत्सङ्गे श्रमणा हस्त्यारोहिणो राजदन्तके १५
परशुप्रतिमे क्षेत्रे बन्धनागारिणो जनाः
विस्राविणि सुराकाराः श्वभ्रामे कर्मकारिणः १६
युगले नापिताः स्वाविवाहव्ये कोशरक्षिणः
त्रिकुष्टे पञ्चकुष्टे च वसेयुर्वह्निजीविनः १७
समन्ततः परिच्छन्ने सर्वे मानोपजीविनः
दिक्स्वस्तिके तु चैत्यानि कुर्याद्वासांश्च सर्वशः १८
श्रीवृक्षप्रतिमे वृक्षान् यज्ञवाटांश्च कारयेत्
वर्धमानाकृतिमुखेऽप्येतानेव प्रकल्पयेत् १९
एणीपदे तु गणिकाश्चौरान् नरपदोपमे
इत्युक्ताः शुभदा वासाः सर्वकर्मोपजीविनाम् २०
कर्मोपजीविजनवासनिमित्तमेताः
क्षेत्राकृतीरभिहिताः प्रविमृश्य तेषाम्
वेश्मानि कारयति यः स्थपतिर्यथावन्मान्यः स कस्य न भवेदिह भूमिपृष्ठे २१
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे वास्तुसंस्थानमातृकानामाष्टात्रिंशोऽध्यायः