अथ शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः
अथ ब्रूमः शिलान्यासविधिमत्र यथागमम्
तत्रोदगयन्ते पुण्ये शुक्लपक्षे शुभेऽहनि १
स्थिरग्रहस्य दिवसे करणे च गुणान्विते
तिष्येऽश्विनीषु रोहिण्यामुत्तरेष्वपि च त्रिषु २
रेवत्यां श्रवणे हस्ते शिलाविन्यासमाचरेत्
स्थिरस्य राशेरुदये सौम्यमित्रावलोकिते ३
सम्यङ्निमित्तशकुनस्वस्तिपुण्याहवाचिते
हर्षोदये च मनसः कुर्याद्वास्तोर्निवेशनम् ४
भद्रः प्रकृत्या शास्त्रज्ञः शुचिः स्नातः समाहितः
कर्मारभेत स्थपतिः कृतदेवार्चनक्रियः ५
पूर्णां समामविकलां चतुरश्रामनिन्दिताम्
शिलामाद्यां चये साध्वीं परीक्षेत विचक्षणः ६
कुम्भाङ्कुशध्वजच्छत्रमत्स्यचामरतोरणैः
दूर्वानागफलोष्णीषपुष्पस्वस्तिकवेदिभिः ७
नन्द्यावर्तैः सचमरैः कूर्मपद्मनिशाकरैः
वज्रैः प्रशस्तैः प्राकारैर्भूषिताः कर्मणो हिताः ८
दीर्घा ह्रस्वाल्पविषमाछाभाध्मातापरीक्षिता
दिङ्मूढा चाङ्गहीना च सास्थ्यङ्गारा सशर्करा ९
खण्डा दुःपक्वनिर्भिन्ना कृष्णा दोषभयावहा
नृणां पशुतुरङ्गाणां पदाङ्काः स्वस्तिवृद्धये १०
कव्यान्मृगविहङ्गानां पादैः स्पृष्टास्तु वर्जयेत्
नन्दाभद्रा जयापूर्णाश्चतस्रः स्युरिमाः शिलाः ११
वासिष्ठी काश्यपी तद्वद्भार्गव्याङ्गिरसीति ताः
तत्र प्रागुत्तरे देशे सन्निवेशस्य वास्तुनः १२
नैरृत्यां वा सकुसुमां समां गोचर्मसम्मिताम्
वेदीं सगन्धकलशां चतुरश्रां प्रकल्पयेत् १३
आग्नेय्यामादितो नन्दां स्थापयेत्क्रमशः शिलाम्
अकालमूलैरव्यङ्गैः सपद्मोत्पलपल्लवैः १४
सर्वौषधिहिरण्याद्यैर्हेमराजतमृन्मयैः
कुम्भैस्ताम्रमयैश्चापि मन्त्रैस्तामभिषेचयेत् १५
तीर्थप्रस्रवणाम्भोभिः सरत्नाक्षतपङ्कजैः
सुगन्धिभिः सपुण्याहमभिषेकं प्रयोजयेत् १६
जाह्नवीयमुनारेवासरस्वत्यादिसम्भवैः
महानदीजलं शस्तं शुभतीर्थभवं तथा १७
तथाद्रि वनवेशन्तदेवायतनजानि च
अभिषेकाथमम्भांसि यथालाभमुपाहरेत् १८
मन्त्रेणानेन चैतासामभिषेकं समाचरेत्
हिरण्यवर्णाः पावन्यः शुचयो दुरितच्छिदः १९
पुनन्तु शान्ताःश्रीमत्य आपो युष्मान्मधुच्युतः
मन्त्रपूतेन पयसा स्नापयित्वा ततः शिलाम् २०
स्थपतिर्गन्धकल्केन मङ्गल्येनानुलेपयेत्
हिमचन्दनपूर्णेन व्यवकीर्य सुगन्धिना २१
तरसा छादयेदेनां सलाजैः पुष्पदामभिः
धूपमाल्योपहारैश्च दधिमांसाक्षतादिभिः २२
पूजयेदिष्टकां देवीं वस्त्रयुग्मैश्च पुष्कलैः
निवेशनान्ते नैरृत्यां तदा विप्रानवस्थितान् २३
समसङ्ख्याञ्शुचीन्प्राज्ञानर्चयेद्दक्षिणाफलैः
ओङ्कारस्वस्तिपुण्याहगीतवादित्रनिस्वनैः २४
कर्ता जनितरोमाश्चस्तेभ्यः कुर्यान्नमस्क्रियाम्
निवेद्य वास्तोष्पतये भूतेभ्यश्च ततो बलिम् २५
तासां चतसृणामन्याः कुर्यादुपशिलाः पृथक्
प्राकारस्वस्तिकाङ्के द्वे तथा श्रीवत्सलक्षणा २६
नन्द्यावर्तस्तु पूर्णायां भवेदेको यथाक्रमम्
कर्णे प्राग्दक्षिणे नन्दां वास्तुनः स्थापयेदधः २७
अन्याः क्रमेण भद्रा द्याः कोणेष्वन्येषु च त्रिषु
प्रतिष्ठापनमन्त्राश्च तासां चतसृणामपि २८
चत्वार ऋषिभिर्गीताः शाश्वतारम्भदर्शनाः
वीर्येणादिवराहस्य वेदार्यैस्त्वभिमन्त्रिताः २९
वसिष्ठनन्दिनीं नन्दां प्राक् प्रतिष्ठापयाम्यहम्
सुमुहूर्ते सुदिवसे सा त्वं नन्दे निवेशिता ३०
आयुः कारयितुर्दीर्घं श्रियं चाग्र्यामिहावह
भद्रा सि सर्वतोभद्रा भद्रे भद्रं विधीयतम् ३१
कश्यपस्य प्रियसुते श्रीरस्तु गृहमेधिनः
जये विजयतां स्वामी गृहस्यास्य महात्मनः ३२
आचन्द्रा र्कं यशश्चास्य भूम्यामिह विरोहतु
त्वयि सम्पूर्णचन्द्रा भे न्यस्तायां वास्तुनस्तले ३३
भवत्येष गृहस्वामी पूर्णे पूर्णमनोरथः
इति मूलचयो मन्त्रैः कुर्यात्स्वस्तिकवाचनैः ३४
ताभिर्हिरण्यवर्णाभिः शिलाभिः सममद्भुतम्
प्रागुदक्प्लवना धन्या न प्रत्यग्दक्षिणाप्लवा ३५
इष्टकाश्चैत्यभवनप्राकारपुरकर्मसु
विताने चितिविन्यासे चतुर्मुखनिकेतने ३६
पुरोधाः शान्तिवेदीषु प्रतिमास्थापनेषु च
याज्ञिकेन विधानेन क्रमशः स्थापयेच्छिलाः ३७
त्रैशोकौर्णासभासैस्ताः सामभिः स महाव्रतैः
गायत्र्युष्णिगनुष्टुब्भिर्बृहत्या च यथाक्रमम् ३८
चयान् समस्तांश्चिनुयाच्चतुरो विरमेत् ततः
ज्ञात्वा भित्तिप्रमाणं च चितेश्चयचतुष्टयम् ३९
समाप्यमादिकर्मैवं कनिष्ठं च यथोत्तरम्
प्रतिष्ठितास्ताः प्रथमं भूतले सुस्थिताः समाः ४०
न चालयेच्चालने स्याद्गृहभर्तुर्महद् भयम्
कम्पने च भयं विद्यादेतासां स्थिरतां पुनः ४१
स्थपतेर्गृहभर्तुश्च मङ्गलं परमं विदुः
प्राग्दक्षिणायां चलने गृहभर्तुर्महद्भयम् ४२
भार्याविनाशो नैरृत्यां शून्यं भीतिर्मरुद्दिशि
गुरोश्च भयमैशान्यामपचारेऽपि तद्भवेत् ४३
प्रथमं स्थापितेनैवं स्तम्भानपि न चालयेत्
नोद्धरेत प्रणुद्याच्च विधिस्तुल्यो यतोऽनयोः ४४
विन्यासं प्रथमं तस्मात्कुर्यात् सम्यक् समाहितः
शिलानां स्थपतिस्तद्वत्स्तम्भानामपि सर्वथा ४५
द्वारप्राकारशालानां नगराणां च वेश्मनाम्
तत्प्रमाणो विधिर्यस्मात्तस्मात्तत्रादृतो भवेत् ४६
एवं शिलान्यासविधानमेतद्यथावदस्माभिरिहोपदिष्टम्
अस्मिन् कृते वेश्मसुरालयादि निष्पत्तिमभ्येति विनैव विघ्नम्
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि
वास्तुशास्त्रे शिलान्यासविधिर्नाम
पञ्चत्रिंशोऽध्यायः