३२

अथ गजशाला नाम द्वात्रिंशोऽध्यायः
लक्षणं गजशालानामिदानीमभिदध्महे
चतुरश्रीकृते क्षेत्रे भागैर्भक्ते ततोऽष्टभिः १
मध्ये द्विभागविस्तारं स्थानं कुर्वीत हस्तिनः
कल्प्याः प्रासादवद्भागा ज्येष्ठमध्याधमाः क्रमात् २
तद्बहिर्भागिकोऽलिन्दो बहिस्तस्यापि चापरः
भागेनैकेन भित्तिः स्याद् द्वितीयालिन्दकाद्बहिः ३
तस्या द्वारप्रदेशे तु कर्तव्यौ कूर्परावुभौ
कर्णप्रासादिका कार्या द्वितीयालिन्दसंश्रिता ४
द्वे द्वे वातायने कुर्याद्भित्तौ दिक्षु तिसृष्वपि
प्राग्ग्रीवोऽग्रे भवेच्छाला सुभद्रे यमुदाहृता ५
अस्या एव यदा पक्षप्राग्ग्रीवौ भवतो मुखे
नन्दिनी नामतः शाला तदा स्याद्जगवृद्धये ६
अस्या एव यदा स्यातां प्राग्ग्रीवौ पार्श्वयोर्द्वयोः
तदा सुभोगदा नाम तृतीया परिकीर्तिता ७
अस्या एव यदा पृष्ठे प्राग्ग्रीवः क्रियतेऽपरः
भद्रि का नाम शाला स्यात्तदा द्विरदपुष्टिदा ८
पञ्चमी चतुरश्रा स्याद्वर्षणी नाम पूजिता
प्राग्ग्रीवालिन्दनिर्यूहहीना षष्ठी तथापरा ९
शाला प्रमारिका धान्यधनजीवितहारिणी
तदेतां वर्जयेत्कुर्यादन्याः सर्वार्थसिद्धये १०
प्रमारिकेति प्रथितेह शाला सा प्राणसस्यद्र विणच्छिदे स्यात्
कुर्यादतस्तां न यथोदितास्तु कार्याः परा जीवितवित्तवृद्ध्यै ११
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे गजशाला नाम द्वात्रिंशोऽध्यायः