३०

अथ राजगृहं नाम त्रिंशोऽध्यायः
अष्टोत्तरशतं ज्येष्ठं मध्यं स्यान्नवतिं करान्
जघन्यं सप्ततिकरान् राजवेश्म प्रशस्यते १
अतो हीनं न कर्तव्यं महतीं श्रियमिच्छता
चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते २
भागार्धं शस्यते भित्तिरादिकोणसमाश्रिता
चतुष्को भागिको मध्ये चतुःस्तम्भसमन्वितः ३
अलिन्दस्तद्बहिः कार्यः स्तम्भैर्द्वादशभिर्वृतः
विंशत्या स्याद्वरैर्युक्तो द्वितीयोऽलिन्दकस्ततः ४
स्यादष्टाविंशतिस्तम्भस्तृतीयश्चाप्यलिन्दकः
षट्त्रिंशता चतुर्थश्च स्तम्भानां परिकीर्तितः ५
एवं स्तम्भशतं मध्ये प्रोक्तं पृथ्वीजये बुधैः
द्वाराणि चास्य चत्वारि पञ्चशाखानि जायते ६
चत्वारो निर्गमास्तस्य प्रोक्ताः सर्वे विभागिकाः
दिक्षु सर्वासु कर्तव्यमेवं भद्र निवेशनम् ७
अर्धेन मध्यभित्तेस्तु भित्तिर्भद्र स्त्रये भवेत्
भद्रे भद्रे धराणां स्याद् विंशतिश्चाष्टभिर्युता ८
मुखभद्रं भवेत्युक्तं वेदिकामत्तवारणैः
क्षेत्रभागोदयाद्या भूराभूमिफलकान्तरम् ९
आदिभूम्युदयार्धेन पीठं चास्य प्रकल्पयेत्
भागान्नवोदयं कृत्वा भागेनैकेन कुम्भिका १०
कर्तव्याष्टांशयुक्तेन स्तम्भो भागचतुष्टये
पादयुक्तं विधातव्यो भागेनोत्कलकं तथा ११
हीरग्रहणकं कार्यं भागं पादविवर्जितः
सपादभागिकः पट्टः स्तम्भकेन समन्वितः १२
पट्टार्धेन जयन्त्यः स्युर्भूमौभूमावयं क्रमः
कॢप्तभागोदयादर्धं भूमिष्वन्यासु हीयते १३
पञ्चभागप्रमाणं तु सच्छाद्यं नवमं तलम्
वेदिकाया अधश्छाद्यं सार्धभागत्रयोन्मितम् १४
कण्ठेन युक्तं कर्तव्यं वेदिका पिहिता यथा
तस्याः कण्ठे विधातव्यस्तन्मध्ये सार्धभागिकः १५
वेदिकाविस्तरः कार्यो भागांस्तत्रार्धसप्तमान्
वेदिकोपरि घण्टा च सार्धभागाश्चतुर्दश १६
भागद्वयं सपादं तु कण्ठः पट्टं तु पञ्चभिः
चतुर्भिश्च द्वितीयं च तृतीयं च त्रिभिस्ततः १७
सद्मशीर्षश्च दातव्यो यथाशोभं यथारुचि
क्षेत्रभागसमः कार्यः कलशश्चूलिकावधेः १८
उदयार्धेन भूमेः स्युरन्तराणि तलानि च
यथाशोभं तु कर्तव्यं पीठं तस्य सुशोभितम् १९
सार्धभागद्वयं चास्य कार्या खुरघरण्डिका
जङ्घा भागचतुष्कं च ततश्छाद्यं प्रयोजयेत् २०
भागद्वयं च पादोनं छाद्यपिण्डः प्रकीर्तितः
निर्गमोऽस्य चतुर्भागो हंसाख्यस्तस्य चोपरि २१
पादोनभागं कर्तव्यं ततश्छाद्यं द्वितीयकम्
जङ्घा भूमिचतुष्केण प्रासादस्य प्रकल्पयेत् २२
चतुर्थभूमिकामूर्ध्नि ततो मुण्डा निवेशयेत्
क्षणक्षणप्रवेशेन कार्याः शेषास्तु भूमिकाः २३
वेदिका च यथोक्ता स्यात्सघण्टा कलशान्विता
रेखाशुद्ध्या च कर्तव्या मुण्डाः सर्वे यथायथम् २४
अर्धोदयं त्रिधा कृत्वा तृतीयं दशधा भजेत्
वामनश्चातपत्रश्च कुबेरो भ्रमरावली २५
हंसपृष्ठो महाभोगी नारदः शम्बुको जयः
अनन्तो दशमस्तेषां विधायकवशादमी २६
विधातव्याः स्थपतिभिर्मुण्डरेखाप्रसिद्धये
तमङ्गवेदिकाजालमत्तवारणशोभितम् २७
वितर्दिनिर्यूहयुतं चन्द्र शालाविभूषितम्
कर्माढ्यं बहुचित्रं च कुर्वीत पृथिवीजयम् २८
प्रासादाश्च महान्तो ये विधेयास्ते समोदयाः
अर्धोदयेन लघवो ह्यवाकोणादयं क्रमः २९
भूम्यष्टकादभ्युदयः क्षेत्रविस्तारसम्मितः
यतस्तव वधे प्रोक्तः प्रासादोऽन्यद्विभूषणम् ३०
बहवो निकरा येषु प्राङ्गणं तेषु दीयते
रेखायां प्रथमायां वा द्वितीयायामथापि वा ३१
तृतीयायां वा रेखायां तत्र संवरणाः स्मृताः
अयं भूम्युदयः कार्यः क्षेत्रे दशविभागिके ३२
न्यूनाधिकविभक्ते तु कार्यः स्यादनुसारतः
मुक्तकोणस्य लक्ष्माथ प्रक्रमागतमुच्यते ३३
चतुरश्रीकृते क्षेत्रे भागद्वादशकाङ्किते
भागश्चतुष्टो मध्येऽस्य चतुर्द्वारविभूषितः ३४
भागेन च ततोऽलिन्दो धरद्वादशकान्वितः
तद्वद् द्वितीयालिन्दोऽपि विंशत्या धारितो धरैः ३५
तृतीयश्च धरैरष्टाविंशत्यालिन्दको भवेत्
षट्त्रिंशता धरैर्युक्तः कार्योऽलिन्दश्चतुर्थकः ३६
चतुश्चत्वारिंशता स्याद् धरैर्युक्तश्च पञ्चमः
भागार्धं कारयेद् गित्तिं सार्धं भागं विमुच्य तु ३७
भागत्रयं ततः कुर्यात्प्राग्ग्रीवं दैर्घ्यविस्तृतौ
विस्तृतौ निर्गमे चैषां भद्रं भागेन कल्पयेत् ३८
भागिकं निर्गतं तस्मान्मध्येऽन्यद्भद्र मस्य हि
भागनिर्गमविस्तारं दिक्षु सर्वास्वयं विधिः ३९
चतुःपञ्चाशता स्तम्भैरेकैकं भद्र मन्वितम्
मध्ये वास्य चतुश्चत्वारिंशं स्तम्भशतं भवेत् ४०
षोडशाभ्यधिका च स्याद्भद्र स्तम्भशतद्वयी
एवं धराणां सर्वेषां भवेत् षष्ठं शतत्रयम् ४१
पृथ्वीजयवदत्रापि शेषनिर्माणमिष्यते
तृतीयभूमिकामूर्ध्नि निर्गमेष्वखिलेष्वपि ४२
प्राङ्गणानि विधेयानि विशेषोऽत्रैष कीर्तितः
सर्वतोभद्र सञ्ज्ञेऽथ शत्रुमर्दननामपि ४३
अयमेव विधिः कार्यो मुण्डरेखाप्रसिद्धये
श्रीवत्सस्यापि मध्ये स्यात् स्तम्भाद्यं मुक्तकोणवत् ४४
सार्धं भागं परित्यज्य भागत्रितयविस्तृतम्
कर्णप्राग्ग्रीवमेतस्य भगेन च विनिर्गतम् ४५
भद्रं तस्यापि कर्तव्यं भागविस्तारनिर्गमम्
मुक्तकोणवदस्यापि मध्यभद्रं विधीयते ४६
अयं विधिः समग्रासु दिक्षु शेषं तु पूर्ववत्
प्रतिभद्रं धरास्त्रिंशद्भवन्त्यस्य दृढाः शुभाः ४७
शतं विंशमिदं सर्वधराणामिह कीर्तितम्
एवं समस्तस्तम्भानां चतुःषष्ठं शतद्वयम् ४८
सर्वतोधद्र सञ्ज्ञस्य लक्ष्मेदानीं प्रचक्ष्महे
चतुरश्रीकृते क्षेत्रे चतुर्दशविभाजिते ४९
भागिकः स्याच्चतुष्कोऽस्य चतुःस्तम्भविभूषितः
स्तम्भैर्द्वाडशभिर्युक्तः प्रथमः स्यादलिन्दकः ५०
स्तम्भविंशतिसंयुक्तो द्वितीयः स्यादलिन्दकः
स्यादष्टाविंशतिस्तम्भस्तृतीयः स्याप्यलिन्दकः ५१
षट्त्रिंशता चतुर्थः स्यादलिन्दो भूषितो धरैः
पञ्चमः स्याच्चतुश्चत्वारिंशता भूषितो धरैः ५२
द्वापञ्चाशद्धरः षष्ठः सर्वेऽप्येतेऽस्य भागिकाः
भागार्धं शस्यते भित्तिः सर्वतः सुदृढा घना ५३
सार्धभागं परित्यज्य भागत्रितयविस्तृतः
कर्णप्राग्ग्रीवकश्च स्याद्भागमेकं च निर्गमः ५४
भद्र मस्यापि कर्तव्यं भागनिर्गमविस्तृतम्
मध्ये भद्रं विधातव्यं भागद्वयविनिर्गतम् ५५
अस्यापि भद्रं मध्ये स्याद्भागत्रितयविस्तृतम्
भागिको निर्गमश्चास्य तदन्तर्भागनिर्गतम् ५६
भागविस्तारसंयुक्तं भद्र मन्यत्प्रकल्पयेत्
दिक्षु सर्वास्वयं प्रोक्तो विधिर्भद्र प्रकल्पने ५७
स्तम्भानामस्य कर्तव्यं मध्ये षण्णवतं शतम्
भद्रे ष्वेषु च सर्वेषु भवेत् षष्ट्यधिकं शतम् ५८
समेन प्रविभागेन स्तम्भानामेकसङ्ख्यया
इत्थं समस्तस्तम्भानां षट्पञ्चाशं शतत्रयम् ५९
किन्तु जङ्घा भवेदस्य भूमिकात्रितयोन्मिता
शत्रुमर्दनसञ्ज्ञस्य भाम्नो लक्ष्माथ कथ्यते ६०
पृथ्वीजयसमं मध्ये भित्तिश्चापि तथाविधा
सार्धं भागं परित्यज्य भागेनायतविस्तृतम् ६१
भद्रं विदध्यात्तन्मध्ये भगत्रितयविस्तृतम्
भद्र मेव विधातव्यं भागत्रितयनिर्गतम् ६२
पार्श्वयोर्भागिकं भद्र मायत्यां विस्तरेण च
भागत्रितयविस्तारं भागेनैकेन निर्गमम् ६३
मध्यभद्रं ततोऽपि स्याद्भागेनायतविस्तृतम्
क्रमोऽयं दिक्षु सर्वासु विधातव्योऽस्य सिद्धये ६४
ऊर्ध्वम्पृथ्वीजयस्येव कार्यमस्यापरं पुनः
प्रतिभद्रं चतुश्चत्वारिंशत्स्तम्भसमन्वितम् ६५
मध्ये स्तम्भशतं चास्य विधेयं सुदृढं शुभम्
षट्सप्ततिस्तम्भशतद्वयमस्य भवेदिति ६६
पञ्चानामपि चैतेषां हस्ताष्टशतमुत्तमम्
मानमुत्सेधविस्तारात्कर्तव्यं श्रियमिच्छता ६७
मध्यमाधमयोर्मानं कीर्तितं पृथिवीजये
राज्ञः क्रीडार्थमन्यच्च कथ्यते गृहपञ्चकम् ६८
क्षोणीवि भूषणं त्वाद्यं पृथिवीतिलकं परम्
प्रतापवर्धनं चान्यच्छ्रीनिवासं ततोऽपि च ६९
लक्ष्मीविलाससञ्ज्ञं च पञ्चमं परिकीर्तितम्
चतुरश्रीकृते क्षेत्रे दशभागैर्विभाजिते ७०
चतुष्को भागविस्तीर्णो मध्ये कार्यश्चतुर्धरः
बहिश्च भागिकोऽलिन्दस्तदन्तेंऽशत्रयायताः ७१
कर्णप्रासादकाः कार्या भागत्रितयविस्तृताः
तेषां षड्दारुकं मध्ये भित्तिर्भागार्धसम्मिता ७२
तद्बहिर्भागनिष्क्रान्तो भद्रे भागं च विस्तृतः
प्राग्ग्रीवत्रयसंयुक्तो भागिकालिन्दवेष्टितः ७३
अर्ध भागिकभित्त्या च चतुष्को वेष्टितो भवेत्
प्रासादोऽयं मनोहारी भवेदवनिशेखरः ७४
चतुरश्रीकृते क्षेत्रे भागद्वादशभाजिते
चतुष्को भागिको मध्ये बाह्यालिन्दौ च भागिकौ ७५
नवकोष्ठांश्च कर्णेषु प्रासादान् विनिवेशयेत्
षड्दारुकं च कर्तव्यं तेषामन्तरसंश्रयम् ७६
ततोऽर्धभागिकी भित्तिः कर्तव्या सर्वतो बहिः
भद्रे भागायतो भागविनिष्क्रान्तश्चतुर्दिशम् ७७
चतुष्को भागिकाऽलिन्दवेष्टितश्च विधीयते
अस्य भद्र त्रयं कार्यं भागविस्तारनिर्गमम् ७८
अर्धभागिकभित्त्या च वेष्टितं तद्विधीयते
कर्णे कर्णेऽस्य विस्तीर्णे द्वे भद्रे भागनिर्गते ७९
प्रासादमेवं भुवनतिलकं परिचक्षते
चतुरश्रीकृते क्षेत्रे भागद्वादशभाजिते ८०
चतुष्को भागिको मध्ये चतुःस्तम्भो विधीयते
तद्बहिर्भागिकोऽलिन्दो द्वितीयोऽपि अ भागिकः ८१
नवकोष्ठांश्च कर्णेषु प्रासादान् विनिवेशयेत्
षड्दारुकं च कर्तव्यं तेषामन्तरसंश्रयम् ८२
ततोऽर्धभागिकी भित्तिः कर्तव्या सर्वतो बहिः
भद्रे भागायतो भद्र विनिष्क्रान्तश्चतुर्धरः ८३
चतुष्को भागिकालिन्दद्वयेन परिवेष्टितः
त्रिभागविस्तृतं भद्रं तद्बहिर्भागनिर्गतम् ८४
भागिकं प्रतिभद्रं च कुर्यादुभयतः समम्
भागार्धं बाह्यतो भित्तिर्भद्र स्य परितो भवेत् ८५
विधिरेष विधातव्यो दिक्ष्वेवं चतसृष्वपि
विलासस्तबको नाम प्रासादोऽयं प्रकीर्तितः ८६
कर्णप्राग्ग्रीवकौ द्वौ द्वौ शालाप्राग्ग्रीवकौ यदा
स्यातामस्य तदा कीर्त्तिपताकः परिकीर्तितः ८७
अस्यैव पीठे निर्मुक्तशालाभिः परितोऽष्टभिः
अन्योन्यशालासम्बद्धे यदासाबेव दीयते ८८
कर्णप्रासादकोपेतः कोणैः शालोज्झितैर्युतः
प्रासादसुन्दरो ज्ञेयस्तदा भुवनमण्डनः ८९
एते प्रोक्तास्तलच्छन्दा जङ्घासंवरणादिकम्
भूमिमानादिकं यच्च तत्पृथ्वीजयवद्भवेत् ९०
इदानीं कथ्यते लक्ष्म क्षोणीभूषणवेश्मनः
पञ्चपञ्चाशता हस्तैः कल्पिते चतुरश्रके ९१
विभक्ते चाष्टभिर्भागैश्चतुष्को भागिकः स्मृतः
चतुर्भिरन्वितः स्तम्भैरलिन्दश्चास्य भागिकः ९२
युक्तो द्वादशभिः स्तम्भैर्विंशत्या च द्वितीयकः
स्यादष्टाविंशतिधरस्तृतीयश्चाप्यलिन्दकः ९३
भित्तेरप्यर्धभागेन सार्धं भागं विमुच्यते
भागपञ्चकविस्तीर्णं भद्रं भागेन निर्गतम् ९४
तन्मध्यभद्र मन्यच्च भागत्रितयविस्तृतम्
भागेन निर्गतं कार्यं भद्र मन्यत्ततोऽपि च ९५
भागेन विस्तृतं कार्यं भागेनापि च निर्गतम्
दिक्षु सर्वासु कर्तव्यो विधिरेषोऽस्य सिद्धये ९६
मध्यस्तम्भैश्चतुःषष्ट्या संयुक्तं सारदारुजैः
प्रतिभद्रं धरैः कार्यमष्टादशभिरन्वितम् ९७
षट्त्रिंशं शतमेवं स्यात्स्तम्भानामिह सर्वतः
चतुर्द्वारमिदं कार्यं यशःश्रीकीर्तिवर्धनम् ९८
पृथिवीतिलकस्याथ लक्षणं परिकीर्त्यते
चत्वारिंशत्करे क्षेत्रे भागैर्भक्तेऽर्धषष्ठकैः ९९
भागिकः स्याच्चतुष्कोऽन्तश्चतुःस्तम्भविभूषितः
अलिन्दोऽपि च भागेन स्तम्भैर्द्वादशभिर्युतः १००
विंशत्या च द्वितीयोऽपि भित्तिः स्यादस्य पादिका
कर्णे प्रासादको भागैस्त्रिभिः स्यान्निर्गतायतः १०१
अस्य भद्र द्वयं कार्यं भागनिर्गतविस्तृतम्
कर्णप्रासादयोर्मध्ये भागपञ्चकविस्तृतम् १०२
भागेन निर्गतं कार्यं भद्रं तस्यापि मध्यतः
भागत्रितयविस्तीर्णं भागेनैकेन निर्गतम् १०३
भद्र मस्यापि मध्येऽन्यद्भागेनायतनिर्गतम्
स्तम्भाः षट्त्रिंशदन्तः स्युर्भद्रे ष्वष्टौ शतद्वयम् १०४
अथातः श्रीनिवासस्य लक्षणं सम्प्रचक्ष्महे
पृथ्वीतिलकबन्मध्यमेतस्य परिकीर्त्यते १०५
सपादं भागमुत्सृज्य भागत्रितयविस्तृतम्
भागेन निर्गतं चास्य भद्र माद्यं प्रकल्पयेत् १०६
तस्यापि मध्यवर्तन्यद्भागनिर्गतविस्तृतम्
अन्वितं दशभिः स्तम्भैः सुदृढैस्तद्विधीयते १०७
सर्वास्वपि च दिक्ष्वेवं विधेया भद्र कल्पना
अस्य षट्सप्ततिः स्तम्भाः भवन्त्येकत्र सङ्ख्यया १०८
प्रतापवर्धनस्याथ लक्ष्म साम्प्रतमुच्यते
पञ्चविंशतिहस्ताङ्के सार्धभागत्रयाङ्किते १०९
मध्ये चतुष्को भागेन चतुर्भिः सम्भृतो धरैः
अलिन्दो भागिकश्चास्य स्तम्भद्वादशकान्वितः ११०
पादिका भित्तिरेतस्य भद्रं चास्य प्रकल्पयेत्
भागनिर्गमविस्तारं चतुःस्तम्भविभूषितम् १११
विधिरेष समग्रासु दिक्षु कार्योऽस्य सिद्धये
स्तम्भैर्द्वात्रिंशता युक्तो बहिरन्तरयं भवेत् ११२
धराणां चैव सर्वेषां चतुःषष्टिः प्रकल्पना
अथ लक्ष्मीविलासस्य सम्यग्लक्ष्माधुनोच्यते ११३
प्रतापवर्धनस्येव मध्यमस्य प्रकल्पयेत्
प्रतापवर्धनसमं सर्वतोऽप्येतदीरितम् ११४
किन्त्वस्य पार्श्वभद्रा णि भद्रा णामेव कारयेत्
कोणेष्वपि च भद्रा णि पार्श्वयोरुभयोस्तथा ११५
भागस्य निर्गमोऽप्येषां विशेषोऽस्मादयं मतः
भद्र मस्य दशस्तम्भैर्मध्यं षोडशभिर्धरैः ११६
चतुर्द्वारं भवेदेतदिच्छया क्षणमध्यगम्
द्वारमन्यद्विधातव्यं स्वपदे स्यात्सुशोभितम् ११७
भूमिभिः सार्धषष्ठीभिर्विधेयः क्षोणिभूषणः
अर्धाष्टमीभिश्च भवेत्पृथ्वीतिलकसञ्ज्ञकः ११८
स्यात्सार्धपञ्चमीभिस्तु श्रीनिवासोऽत्र भूमिभिः
लक्ष्मीविलाससञ्ज्ञोऽर्धपञ्चमीभिर्विधीयते ११९
प्रतापवर्धनाख्योऽर्धचतुर्थीभिर्विधीयते
राज्ञां पृथ्वीजयादीनि निवासभवनानि च १२०
क्षोणीविभूषणादीनि विलासभवनानि च
यान्युक्तानि निवासाय विलासाय च भूभृताम् १२१
तेषां पृथ्वीजयादीनां द्वारमानमथोच्यते
चतुःपञ्चाशदंशो यो विस्तृतः सकरत्रयः १२२
स द्वारस्योदयः प्रोक्तस्तदर्धेनास्य विस्तृतिः
स्वोदयस्य त्रिभागेन पिण्डः स्तम्भेषु शस्यते १२३
स्यात्सप्तविंशतितमः सपादः सचतुष्करः
गृहभागो भवेद्भूमिः प्रथमा राजवेश्मनाम् १२४
भूच्छ्राये नवधा भक्ते तदंशकचतुष्टयम्
निर्गमश्छाद्यकस्यांशद्वयं पादोनमुच्छ्रयः १२५
तथान्तरावणी कार्या छाद्यकोच्छ्रायनिर्गता
हीरग्रहणपिण्डार्धबाहल्या सा प्रशस्यते १२६
तस्याः स्वमेव बाहल्यं पादोनं विस्तृतिः स्मृता
अन्तरावणिकातुल्यो मदलाया विनिर्गमः १२७
स्वनिर्गमात्तथा चास्याः सपादः स्यात्समुच्छ्रयः
भूम्युच्छ्रयनवांशस्य पादोऽस्याः पिण्डमिष्यते १२८
भूनवांशस्त्रिभागोनो मदलायाश्च विस्तृतिः
लुमामूलस्य स्तम्भार्धं विस्तारः परिकीर्तितः १२९
तत्त्र्यंशादग्रविस्तीर्णा मूले साष्टांशयुग्भवेत्
तुम्बिनी लम्बिनी हेला शान्ता कोला मनोरमा १३०
आध्माता चेत्यभू प्रोक्ता लुमाः सप्त मनीषिभिः
ऋजुः सा लम्बिनी तासामाध्माता कर्णगा स्मृता १३१
अन्तराले क्रमेण स्युः पञ्चान्याः परिकीर्तिताः
स्तम्भे निदध्यान्मदलां छाद्यं धर्तुं दृढां शुभाम् १३२
स्तम्भाभावे पुनर्न्यस्येत्कुड्यपट्टेऽपि तां सुधीः
सप्त पञ्चाथवा तिस्रो मल्लच्छाद्ये लुमाः स्मृताः १३३
कोणेष्वेता इमाभ्योऽन्याः कर्तव्याः प्राञ्जलाः समाः
छाद्ये कर्णात्क्वचित्कार्या मकराननभूषिताः १३४
तेऽपि विद्याधरोपेताः क्वचित्सगजतुण्डिकाः
सकुभ्भिकस्य स्तम्भस्य प्रविभज्योदयं त्रिधा १३५
तत्र भागद्वयं कुर्याद्भागानर्धचतुर्थकान्
तत्र पादोनभागेन राजितासनकं भवेत् १३६
ततः सोल्कलका वेदी साङ्घ्रिभागा विधीयते
कूटागारसमांशार्धं कार्योऽत्रासनपट्टकः १३७
स स्यादभीष्टोविस्तारो भागोच्चं मत्तवारणम्
स्वोदयस्य त्रिभागेन तिर्यक् कार्योऽस्य निर्गमः १३८
रूपकैः करणायाभिः सुपुत्रैरपि शोभितम्
वेदिकादिकमप्यस्य रूपपत्राचितं शुभम् १३९
आयसीभिः शलाकाभिः कीलकैश्च दृढीकृतम्
एतानि अप्ञ्चदशराजनिवेशनानि पृथ्वीजयप्रभृति यानि निरूपितानि
यो लक्षणेन सहितं परिमाणमेषां जानाति तस्य नृपतिः परितोषमेति १४०
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे राजगृहं नाम त्रिंशोऽध्यायः