२७

अथ सभाष्टकं नाम सप्तविंशोऽध्यायः
नन्दा भद्रा जया पूर्णा सभा स्याद्भाविता तथा
दक्षा च प्रवरा तद्वद्विदुरा चाष्टमी मता १
चतुरश्रीकृते क्षेत्रे ततः षोढा विभाजिते
मध्ये पदचतुष्कं स्यात्सीमालिन्दस्तु भागिकः २
तद्वाद्योऽलिन्दकस्तद्वद्भवेत्प्रतिसराभिधः
प्राग्ग्रीवाख्यस्तृतीयश्च बहिः क्षेत्राच्चतुर्दिशम् ३
निसृष्टसौर्धयैर्वा स्यादेकस्यां वा यदा दिशि
नन्दा भद्रा जया पूर्णा क्रमेण स्युः सभास्तदा ४
षड्भागभाजिते क्षेत्रे कर्णभित्तिं निवेशयेत्
सभा स्याद्भाविता नाम सप्राग्ग्रीवात्र पञ्चमी ५
स्तम्भान्षट्त्रिंशदेतासु पञ्चस्वपि निवेशयेत्
स्तम्भान्प्राग्ग्रीवसम्बद्धान्पृथगेभ्यो विनिर्दिशेत् ६
दक्षेति षष्ठी परितस्तृतीयालिन्दवेष्टिता
प्रवरा सप्तमी द्वारैर्युक्तैषा परिकीर्तिता ७
प्राग्ग्रीवद्वारसंयुक्ता विदुरेत्यष्टमी सभा
सभानामिदमष्टानां लक्षणं समुदाहृतम् ८
इत्यष्टानां लक्ष्म सम्यक्सभानामेतत्प्रोक्तं दिग्भवालिन्दभेदात्
तद्वद्द्वारालिन्दसंयोगश्च
ज्ञातेऽत्र स्याद्भूभृतां स्थानयोगः ९
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे सभाष्टकं नाम सप्तविंशोऽध्यायः