अथ निम्नोच्चादिफलानि नाम विंशोऽध्यायः
अग्रतःपृष्ठतःशब्दौ द्वारेण नियतौ गृहे
यतो द्वारं तदग्रं स्यात्पृष्ठं पृष्ठमुदाहृतम् १
द्र व्यायामोदयव्यासैः शाला यत्राधिका भवेत्
वामा वा दक्षिणा वपि अग्रतः पृष्ठतोऽपि वा २
हन्ति द्र व्याधिका द्र व्यमायामाभ्यधिका कुलम्
उच्छ्रायाभ्यधिका पूजां सन्ततिं विस्तराधिका ३
यस्य निम्ना भवेद्भूमिर्वामा दक्षिणकास्थला
बहुदोषं हि तद्वास्तु पुत्रपौत्रविनाशकम् ४
यस्य दक्षिणका निम्ना भूमिर्वामास्थला भवेत्
यत्नेनापि कृतं तत्स्याद्भर्तुरल्पफलोदयम् ५
पश्चिमेन भवेन्निम्ना भूमिः स्थूलतराग्रतः
यत्र तत्सर्ववर्णेषु सर्वकामप्रदं गृहम् ६
अग्रतश्च यदा हीनं पृष्ठतश्चोच्छ्रितं भवेत्
भवनं स्वामिनो ह्याशु विरागव्यसनाय तत् ७
सच्छत्रं च सकक्षं च तथैव सपरिक्रमम्
सप्रभं च समाख्यातं गृहमत्र चतुर्विधम् ८
बाह्योदकं च सच्छत्रं सकक्षमुभयोदकम्
सावश्यायं तु यद्वेश्म तद्विद्यात्सपरिक्रमम् ९
एकेनाप्यत्र मुखतः पृष्ठतः पार्श्वतोऽपि वा
सप्रभं स्यादलिन्देन लक्षणं तु पृथक्पृथक् १०
एकोऽलिन्दस्तु कर्तव्यो मुखतो दक्षिणेन वा
मुखे राजप्रसादाय दक्षिणेऽर्थविवर्धनः ११
वामतस्तु न कर्तव्य एकोऽलिन्दो न पृष्ठतः
वामतोऽर्थविनाशाय पृष्ठतो म्रियते गृही १२
यस्य स्यातामलिन्दौ द्वौ गृहस्योभयपार्श्वयोः
धनलाभं विजानीयात्तत्प्रवेशे कुडुम्बिनः १३
यस्य स्यातामलिन्दौ द्वावग्रतः पृष्ठतस्तथा
धनधान्यमवाप्नोति सौभाग्यं चापि तद्गृही १४
यस्य वा हलकालिन्दो मुखतो दक्षिणेन वा
राजप्रसादैस्तत्स्वामी धनधान्यैश्च वर्धते १५
वामतो हलकालिन्दो मुखतश्च कृतो यदि
राजदण्डभयं विद्यात्पत्नी चास्य विनश्यति १६
दक्षिणो हलकालिन्दः पश्चिमश्च कृतो यदि
ततः परापि वृद्धिः स्यात्सौभाग्यं च परं भवेत् १७
पृष्ठतो हलकालिन्दो वामतश्च कृतो यदि
कलत्रमरणं तत्र भवेद्दुर्भगतापि च १८
पृष्ठतो वामतश्चैव पुरतो दक्षिणेन वा
अलिन्दस्य कृतस्याथ वक्ष्यामोऽनुक्रमात्फलम् १९
पृष्ठतो दारनाशाय धनलाभाय दक्षिणे
अग्रे राजप्रसादाय वामतोऽर्थविनाशनः २०
समापितं तु यद्वास्तु सर्वतः परिशोधितम्
स्वामिनस्तद्भवेद्धन्यं स्थपतेश्च यशस्करम् २१
अर्जितं वर्धते तस्य वृद्धिश्च स्यान्नृपश्रिया
धर्मकामाश्च वर्धन्ते कीर्त्तिरायुर्यशो बलम् २२
नित्यं प्रक्रीडितजनं नित्यं सन्निहितश्रि तत्
नृत्यवादित्रगीतैश्च नित्यामोदं निरामयम् २३
तत्र नैकप्रकाराणि त्रिशालान्युपलक्षयेत्
प्रकारेषु च सर्वेषु निन्द्यौ याम्यापरोज्झितौ २४
एकस्मिन्स्वामिनो मृत्युरपरस्मिन् धनक्षयः
पूर्वोत्तरोज्झितौ धन्यौ सञ्ज्ञाश्चैषां प्रकारतः २५
स्युरुदक्पूर्वयाम्याप्यशलाहीनान्यनुक्रमात्
हिरण्यनाभसुक्षेत्रचुल्लीपक्षघ्ननामभिः २६
विनियोगो यथालिन्दमलिन्दव्यूढिरिच्छया
वेश्मान्यथ द्विशालानि कीर्त्यन्ते षड् यथाक्रमम् २७
दिक्कर्णेसु द्विशालानि तत्कर्णान्येषु निर्दिशेत्
सम्मुखे द्वे समेतानि षडेतान्युपलक्षयेत् २८
सिद्धर्थं दक्षिणाप्रत्यग्भवन्त्यत्रार्थसिद्धयः
यमसूर्यमुदक्प्रत्यक्तत्र मृत्युभयं सदा २९
प्रागुदीच्योस्तु दण्डः स्याद्दण्डस्तत्र सदा भवेत्
प्राग्याम्ययोस्तु वाताख्यं वास्तु तत्कलहोत्तरम् ३०
उदग्दक्षिणसाम्मुख्ये द्विशालं काचवास्त्विति
तत्र ज्ञातिविरोधः स्यान्न तत्कुर्यात्कदाचन ३१
प्राक्प्रतीच्योस्तु साम्मुख्ये चुल्लीवास्तु विनिर्दिशेत्
तत्र वित्तक्षयो घोरः कदाप्येतन्न कारयेत् ३२
चतुश्शालं त्रिशालेन प्रान्तं प्राकारवर्तिना
पूर्वेण सप्तशालेषु मणिच्छन्द इति स्मृतम् ३३
अन्यानि चैवं त्रीण्याहुः प्रान्तमेव प्रदक्षिणम्
अपरं परिधानं च सपक्षमिति तानि च ३४
एकभित्ती तु शाले द्वे गृहसङ्घट्ट उच्यते
न तं कुर्यात्स हि सदा बन्धदोषवधप्रदः ३५
इत्युच्चनीचगृहभागफलं प्रदिष्टमस्मिन्नलिन्दफलमप्यशुभं शुभं च
यद्द्वित्रिशालगृहलक्ष्म तदप्यमुष्मिन्
सामान्यतो द्वितययोगभवं च सम्यक् ३६
इति महाराजाधिराजश्रीभोजदेवविरतिएसमराङ्गणसूत्रधारापरनाम्नि
वास्तुशास्त्रे
निम्नोच्चलच्छत्रादिसञ्ज्ञालिन्दफलसद्वास्तुफलद्विशालत्रिशालगृह-सङ्घट्टलक्षणफलानि
नाम विंशोऽध्यायः