अथ वास्तुत्रयविभागो नामैकादशोऽध्यायः
चतुरश्रीकृते क्षेत्रे विभक्ते नवधा ततः
मध्ये महाद्युतिर्ब्रह्मा विधेयो नवभिः पदैः १
तस्मादनन्तरं प्राच्यां षट्पदः कीर्तितोऽर्यमा
आग्नेयकर्णे सवितृसावित्रौ पदिकावुभौ २
ब्रह्मणोऽनन्तरं याम्ये विवस्वान् षट्पदाश्रितः
नैरृते पदिकौ कर्णे जयेन्द्रौ कथितावुभौ ३
षट्पदः स्यात्ततो मित्रः काष्ठायां पत्युरम्भसः
कर्णेऽपरोत्तरे यक्ष्मा रुद्र श्च पदिकावुभौ ४
षड्भिः पदैस्ततः सौम्ये निश्चलः पृथिवीधरः
आपस्तथापवत्सश्च पदिकावीशदिग्गतौ ५
इत्यन्तःसंश्रया देवाः प्रोक्ता ब्रूमो बहिःस्थितान्
ज्ञेयं प्रदक्षिणं तेषां स्थानं पूर्वोत्तरादितः ६
अग्निस्तदनु पर्जन्यो जयन्तश्चेन्द्र एव च
रविः सत्यो भृशश्चेति न भस्तस्मात्ततोऽनिलः ७
पूषाख्यो वितथाख्यश्च गृहक्षतयमावथ
गन्धर्वो भृङ्गराजश्च मृगः पितृगणस्ततः ८
दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलेश्वरः
असुरः शोषनामा च पापयक्ष्मा ततः परम् ९
रोगो नागश्च मुख्यश्च भल्लाटः सोम एव च
चरकोऽथादितिर्दैत्यमातेति पददेवताः १०
वह्नेर्वायोः पितॄणां च व्याधेश्चैव क्रमाद्बहिः
चरकी च विदारी च पूतना पापराक्षसी ११
पदभोगोऽस्ति नैतासां स्थानमेव हि केवलम्
पदभोगमथ ब्रूमो बहिःस्थानां नभःसदाम् १२
तत्राष्टौ द्विपदाधीशा जयन्तो भृश एव च
वितथो भृङ्गसुग्रीवशोषमुख्यास्तथादितिः १३
एभ्यः शेषा बहिर्ये तु ते स्युः पदभुजः सुराः
एकाशीतिपदे प्रोक्तो देवतानां पदक्रमः १४
चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते
भवेच्छतपदो वास्तुर्ब्रूमोऽत्राप्यमरस्थितिम् १५
द्विरष्टगुणितं मध्ये पदमेकं पितामहः
भुङ्क्ते शतपदे वास्तौ चतुर्गुणितमर्यमा १६
विवस्वतोऽथ मित्रस्य तद्वच्च पृथिवीभृतः
भोगमिच्छन्ति वै तेषामर्यम्ण इव सूरयः १७
सवित्राद्यापवत्सान्ता ये च नोक्ताः सुरोत्तमाः
यथैकाशीतिके तद्वत्तेषां भोगः पदाष्टकम् १८
अग्न्यन्तरिक्षपवना मृगश्च पितरोऽपि च
रोगोऽदितिस्तथाध्यर्धपदभाजो बहिः स्थिताः १९
चतुर्विंशतिरुक्ता ये पर्जन्याद्याः सुरोत्तमाः
अदित्यन्ता द्विपदिकास्ते शेषं प्राक्प्रसाधितम् २०
चतुरश्रीकृते क्षेत्रे पूर्ववद्भाजितेऽष्टभिः
चतुःषष्टिपदो वास्तुश्चतुःषष्ट्या पदैर्भवेत् २१
अस्मिन्पदानि चत्वारि भुनक्त्यन्तः पितामहः
अर्यमाद्याः सुराश्चात्र द्वे द्वे मध्यगताः पदे २२
पध्येऽष्टौ बाह्यतोऽष्टौ ये स्थिताः कर्णेषु चाष्टसु
ये देवाः सर्व एवात्र ते पदार्धभुजः स्मृताः २३
पर्जन्योऽथ भृशः पूषा भृङ्गदौवारिकौ तथा
शोषनागादितिप्रान्ताः स्युरध्यर्धपदस्पृशः २४
जयन्तादिषु बाह्येषु चरकान्तेषु कीर्तिता
प्रत्येकं षोडशस्वत्र सुरेषु द्विपदस्थितिः २५
सिरां वह्निपदादूर्ध्वं नयेत्पितृपदान्ततः
बाह्याशानिर्गतां चैनां रोगनामानमानयेत् २६
द्विनाम्नः प्रापयेद्भृङ्गं भृङ्गात्सुग्रीवमानयेत्
ततोऽदितिं तां गमयेद्द्विनामानं प्रवेशयेत् २७
सौराद्याम्यं पदं नीत्वा वारुणं प्रापयेत्ततः
नयेत्पदं ततः सौम्यं तत आदित्यमानयेत् २८
भृशादानीय वितथं शोषाख्यं वितथादथ
शोषान्मुख्यं समानीय नयेत् तस्मात्पुनर्भृशम् २९
ये विभागाः समुद्दिष्टा यथासङ्ख्येन तैरिह
यज्ञामरनृणां वास्तु समस्तं विभजेत्सुधीः ३०
देवैः सर्वैरप्यमीभिर्विशोकः
प्रीत्युत्कर्षादित्थमालोक्यतेऽसौ
कृत्स्नानेषोऽप्यब्जपत्रायताक्षः
पश्यत्येतान् स्फारितेनेक्षणेन ३१
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि
वास्तुशास्त्रे
वाष्तुत्रयविभागो नाम एकादशोऽध्यायः