अथ षष्ठोऽध्यायः
शिखरविधयः
अल्पे धामनि बाह्यमेव महति त्वारूढमप्युत्तरं
विष्कम्भे तनुयात् स्वगेहविहितैर्योन्यादिभिः संयुतम्
वस्वृष्यर्कयुगाङ्गुलादिगतिरन्तः स्यादलिन्दं तु तत्
तावत् स्वोच्छ्रयमस्य कर्णसदृशी विष्कम्भपादायतिः १
विष्कम्भपादं तु तदङ्गभेदैर्युक्तं तथा कल्पलतादिचित्रैः
महातरङ्गान्तरुदीर्णचूचुक सूनसंशोभितमातनोतु २
कुर्यादुत्तरपट्टतोऽखिललुपालम्बं तदौचित्यतः
स्तम्भोच्चे शरभाजिते द्वितयतो यद्वाङ्कभक्तेऽब्धिभिः
अद्र यं!शिन्युरगांशिते च हुतभुग्भागैस्तथाङ्घ्र्युच्छ्रयत्र्यंशार्धांशत एव वाभिलषितं षोढोदितेष्वेषु तु ३
लम्बोऽयं विहितादधस्थचरणोच्चेऽङ्गादिरुद्रा न्तिमैर्भक्ते तेष्विलया युतो विरहितो वाङ्घ्र्युच्चविध्यध्वना
यद्वा चन्द्र दिगग्निवारिधिशरोर्म्यद्र य्ङ्गुलैरूनितो
लम्बोऽसौ क्वचिदन्वितोऽप्युभयतस्तुल्योऽप्यतुल्योऽथवा ४
विस्तारेण घनेन वापि च लुपालम्बो भवेदुत्तरस्यैकेनाधिदलद्वयत्रयचतुर्बाणोर्मिशैलोन्मितैः
योगे सत्यपरालयैरपि लुपाच्छेद्याश्च नीप्रादयो
गेहाङ्गेष्वखिलेषु चोत्तममतो नच्छेदयेदुत्तरम् ५
ऋजुमञ्चाख्यास्तुल्याः प्रकृतिलुपाः पार्श्वसंस्थिताः सर्वाः
कोटयुपकोट्याद्याः स्युर्विकृतिलुपास्तास्त्वतुल्यदीर्घतताः ६
कार्या लुपाश्चोत्तरपट्टिकोर्ध्वं कूटाहिताग्रा विकृताः समस्ताः
पार्श्वाहितास्ताः खलु निर्विकारा निवेशिताग्राः पुनरग्रधान्याम् ७
पार्श्वप्राप्तलुपाग्रयोगवशतो वंशाख्यया साग्रया
युक्त्वा चोत्तरतारपादरहितव्यासोच्छ्रयं चाथवा
अद्र र्य्म्यूङ्गुलतारतीव्रसहिता पत्रैर्लुपानींव्रवहृन्यब्ध्यंशप्रमितैर्लुपापदगतैर्युक्ता लसद्वाजना ८
कूटः कोटिलुपाग्रकल्पिताशिखासम्प्राप्तपार्श्वावटः
पार्श्वाक्रान्तलुपाग्ररन्ध्रनिहिता यः कीलसङ्कीलितः
आधारोऽस्य लुपाग्रकल्पितशिखा तस्मादधो मूल एवोक्तोऽसौ विकृता लुपाश्च सकला गेहे समाब्ध्यश्रके ९
धुर्धूरप्रसवोपमोऽष्टनृपकोणो वा तथा वर्तुलः
सम्फुल्लाब्जयुतोऽथवाथ गुलिकारूपः स्वमध्यादधः
विस्तारद्विगुणायतस्तदुरगाद्यंशो न दीर्घोऽथवा
कूटोऽब्ध्यादियवोत्थपत्रविलसन्मध्यप्रदेशो भवेत् १०
प्रायः सर्वलुपाघनोन्मितपरीणाहं करोतूत्तरव्यासप्रायततं तथाङ्गुलकृतैर्योन्यादिभिः संयुतम्
पट्टं कोटिलुपावितानसदृशायामं लुपासङ्गमस्थानं पत्रपदोर्ध्वमित्थमुदितं कूटस्वरूपादिकम् ११
आयतचतुरश्रगृहे विकृतिलुपा वंशबद्धकूटगताः
वंशस्थाग्रास्त्वन्याः प्रकृतिलुपाः कीलिता ह्ययःकीलैः १२
वंशाग्रमूलशिखया यदि कूटपार्श्वरन्ध्रप्रवेशकृतसन्धिरिहाजयुद्धः
आधारभेदकृतसन्धिवशेन कूटस्याधोगतं भवति मूलमिहापि नित्यम् १३
मुखसहितायतभवने मुखपर्यन्तायतो भवेद् वंशः
गोहवदेव मुखानामुत्तरमूलाग्रयोगविधिनियमः १४
मूलप्रदेशविलसत्कबलीसुलग्नवंशाग्रमूलपरिकीलितदारुकीलः
वंशावलम्बितवशादयमूर्ध्वमूलः
कूटो यथोर्ध्वमवलम्बितबालकूटः १५
सर्वत्रेष्टाबाध्यश्रे तिर्यगधः कल्पितात्र रेखा या
सा हि भूजाथोर्ध्वाग्रा कोटिः स्यात् कोणगामिनी कर्णः १६
सुश्लक्ष्णे फलकातले क्षितितले वा गेहतारार्धमानाब्ध्यश्रं तदधोभुजापरिमिलत्क्षुद्रो त्तरोच्चोन्मितम्
तस्याधो घनमुत्तरस्य च लुपालम्बं च तिर्यग्गतैः
सूत्रैः कल्पयतूत्तरोपरि लुपापङ्क्तिं च युक्त्या ततः १७
सङ्ख्याः कोट्युपकोटिकादिविकृतानां या लुपानां ततस्ताः सङ्ख्या द्विगुणैकसङ्ख्यरहिताः कल्प्यास्तु सर्वत्र च
द्वे द्वे कोट्युपकोटिकादिविकृतानामन्तराले पृथक्
तत्रैका गृहतारमध्यनिकटेऽप्येवं विभागो मतः १८
इति विकृतिलुपानां पङ्क्तिमाकल्प्य तत्तन्मितिनियमकृताङ्को यत्तदाक्रान्तकर्णम्
नियतकृतलुपालम्बादथाकूटपार्श्वं
भवति पृथगमीषां दीर्घमानं लुपानाम् १९
सर्वत्रोत्तरतारतुल्यमृजुमञ्चानां लुपानां ततं
तद्वस्वद्रि रसाशुगाब्ध्यनलभागैकोनितं वान्वितम्
द्विघ्नं चोत्तरतारतोऽङ्घ्रिरहिताद्विघ्नं च सार्धं पुनः
कार्यं तद्घनमङ्गुलेन यववृद्ध्या यावदृत्वङ्गुलम् २०
अब्ध्यश्रं मञ्चकस्य प्रततिमितमथाकल्प्य तत्कर्णमर्धीकृत्य न्यस्येद् भुजायामथ विकृतिलुपापङ्क्तिमत्रैव कुर्यात्
तत्तत्कर्णप्रमाणं खलु विकृतिलुपानां पृथक् विस्तृतिः स्यात्
पार्श्वे कार्यं ध्वजादित्रयमपि च वितानं च लम्बं च सूत्रम् २१
व्यासेऽङ्कांशिन्यधोऽब्धिप्रमितमुपरि बाणोन्मितं कल्पयित्वा
मध्ये सूत्रध्वजाख्यं विरचयतु लुपापार्श्वयुग्मे समन्तात्
अद्र यं!शिन्यप्यधस्तादनलमितमुदध्युन्मितं चोर्ध्वभागं
यद्वा बाणांशितेऽग्निप्रमितमुपरि दस्रोन्मितं चाप्यधस्तात् २२
ध्वजसूत्रस्योभयतो द्व्ययङ्गुलमानेन कल्पयेत् सूत्रम्
तदधस्तादप्यूर्ध्वं तत्तद्विस्तारमाननियमः स्यात् २३
कृत्वा वेदाङ्गुलाब्ध्यश्रकमखिललुपापार्श्वयोर्मध्यसूत्रे
तद्वेदाश्रोत्थकर्णद्वितयमिह वितानं च लम्बं च विद्यात्
सर्वत्रैतद्विधेयं द्वयमपि वलयस्थानकूटावासानस्थानेष्वप्युत्तराद्यर्पणनियमपदे नीव्रलम्बान्ततोऽपि २४
चूली वा क्वचिदल्पमन्दिरविधौ तत्रापि युग्माः स्मृता
विष्कम्भाश्च तदर्धसम्मिततदङ्घ्र्यग्रेषु वंशोऽपि च
तस्मादङ्घ्रिसमुच्छ्रयात् त्यजतु वा क्वाप्यद्रि नागाङ्कदिग्रूद्रा शं! त्विह चूलिकोपरि लुपाश्च स्वाग्रधान्याचिताः २५
विस्तारे पुनरुत्तरस्य दशधा भक्ते रसाद्यष्टदिग्भागैर्वोत्तरतारतोऽङ्घ्रिरहितं वाद्र यं!शितेऽग्न्यंशकैः
विस्तारं प्रकरोतु नीप्रफलकस्यैतत्त्रिभागं घनं
विस्तारे शरभाजितेऽपि च घनं द्वाभ्यां प्रकुर्यात् क्वचित् २६
नीप्रव्यासे शरांशिन्यथ तदुभयतस्तूर्ध्वपट्टं तलं च
द्वाभ्यामेकेन पट्टं चरममपि विधेयं तथा षड्विभक्ते
द्वाभ्यां तस्योर्ध्वपट्टं त्रिभिरपि च तलं स्यादधः पट्टमेकेनैवं वा नागभक्ते ज्वलननिगमभूम्यंशतः कल्पनीयाः २७
नीप्रव्यासे विभक्ते शरगिरिनवभिः सर्वतो वह्निभागं
नीप्रस्थानाद् वितानादुपरि तदुचितं कोटिकर्णाध्वनात्र
नीत्वा नीप्रं लुपासु स्वयमिह विधिना धूलिकारोधयोग्यं
कृत्वा वायव्यहोमाद्यवहितहृदयः कारुभिः कल्पयेत् तत् २८
मनुयवचतुरश्रं द्व्यङ्गुलं तत्र तु द्विद्वययवपरिवृद्ध्या त्र्! यङ्गुलान्तं क्रमेण
वलयमिति मुनीन्द्रैः षड्विधं दर्शितं तेष्विह विहितलुपौचित्येन तत् कल्पनीयम् २९
तत्र सप्तदशभिर्यवैः स्मृता पट्टिकाविततिरङ्कसम्मितैः
तद्घनं घनपदोनमन्तरं सन्दधीत च लुपासु कीलकैः ३०
लोष्टैराच्छाद्यते चेदखिलनिलयने पट्टिकाप्रस्तरः स्यात्
तत्स्थाने क्वापि कार्योऽपि च घनफलकाप्रस्तरो बद्धकीलः
लोष्टाधाराय किञ्चित् तलमपि चखनेच्चाञ्चु सन्धारणार्थं
ताम्रैराच्छाद्यते चेन्न तु तलरचना देवगेहादिकेषु ३१
शिरःप्रदेशस्त्वभिधानमुक्तं वेश्माख्यपुंसस्तदधोमुखं स्यात्
मासूरतुङ्गार्धपदोनितं तद्विस्तारमाद्यङ्गघनाद् घनं च ३२