अथ पञ्चमोऽध्यायः
गृहावयवविधयः
कुर्याद् गृहाय कृतवास्तुपदं समस्तं
मातङ्गभास्करनृपाङ्गुलमात्रतुङ्गम्
बाह्यान्तराङ्गणगतान् गमनाय मध्यनिम्नत्वदोषविरहाय च मृच्छिलाद्यैः १
रक्षाशोभोच्छ्रयार्थं सकलनिलयमासूरतोऽधः समन्तात्
कुर्यादेकद्विहस्तप्रविततमुपपीठं गजाद्यङ्गुलाढ्यम्
अन्तर्भागे तु गर्ताङ्गणमथ वृषजं केतुजं वायताढ्यं
दिश्यैशान्यामथोदङ्मुखमपि रचयेत् प्राङ्मुखं वाम्बुमार्गम् २
गेहाधिष्ठानोच्चतुल्यो रसाद्यष्टाङ्काशांशैरूनितो वा यथेष्टम्
मर्त्यागारस्योपपीठोच्छ्रयः स्यात्
तत्तद्भागैः पादुकाद्यं विधेयम् ३
गर्तप्राङ्गणतारतोऽधिककृतायामार्धमप्युत्तरे
निक्षिप्यार्धमवाक् च मध्यचतुरश्रेष्टाष्टकोष्ठात्मके
मल्लीकुट्टिममापसञ्ज्ञपदयोः कुर्यात् पदे दक्षिणे
यद्वा तत्पुनरापवत्सपदयोश्चोदक्पदेऽन्तेर्वृतौ ४
केतूत्थं तुल्यताराततिजलनिधिकोणं च वस्वष्टिकोणं
वृत्तं वा सोपपीठाद्यवयवसहितं कैरवाद्यन्वितं वा
गेहाधिष्ठानतुङ्गं कुहचिदपि तदूर्म्यादिरुद्रा न्तभागैर्हीनं वा रज्जुवेधाद्यपगतमुदितं मल्लिकाकुट्टिमं तत् ५
उपपीठोच्चसमोच्चा मासुरोपानहं करोतु दृढम्
तदुपरि परितः पादुकमथ कुर्यादुक्तपत्रमानान्ता ६
सर्वत्रोत्तरबाह्यपार्श्वविहिताल्लम्बाद् बहिः कुट्टिमस्याष्टाष्टाङ्गुलनिष्क्रमो य उदितस्तत् पत्रमानं विदुः
यद्वा तद्द्विगुणं च तत्त्रिगुणितं वा तद्विधेयं तथैवावाच्युत्तरयोः षडङ्गुलमतो द्वन्द्वं प्रतीच्यां क्वचित् ७
तत्पत्रमानमसमं च समं च बाह्येऽप्यन्तश्च तद्विहितयोनिकनाहयुक्तम्
मर्त्यालयेषु विहितं सुरमन्दिरान्तहाराप्रदीपनिलयेषु च गोपुरेषु ८
प्राहुर्गेहचतुष्कपादुकबहिर्भागं बुधाः प्राङ्गणं
याम्योदग्विहितायतं च चतुरश्रं केतुयोन्यन्वितम्
भूम्यश्वाम्बुधिनागरन्ध्रदिननाथाष्टद्विसङ्ख्याङ्गुलैरेकद्वित्रिकरैस्तथैव गुणविस्तारादिभिर्वा यतिः ९
सूत्रैः प्राङ्गणगेहमध्यविहितैरन्योन्यविद्धैर्भवेत्
तद्गेहस्थितपुत्रपौत्रविलयस्तस्माद् गृहाणां क्रमात्
कर्तव्यं गमनं प्रदक्षिणतया प्रागादितो वह्निरन्ध्राद्री ष्वङ्गुलकैः स्वयोनिजनकैरावश्यके वा यवैः १०
गत्यङ्गुलानि निजदिग्विहितानि यानि
तान्यष्टतद्द्विगुणितत्रिगुणाङ्गुलैश्च
युक्तानि तद्द्विगुचितानि भवन्ति यत् तदल्पान्तरालनिलयादिषु तानि युञ्ज्यात् ११
दिक्कोणालयभेदकृन्ति च भवन्त्यष्टान्तरालानि तद्बाहुल्यं तु धनक्षयाय हि भवेदत्यल्पता व्याधये
मृत्युर्भित्तिविरोधनेऽन्तरविहीनत्वादतः प्रायशो
नेष्टं गेहरसांशतोऽधिकतरं द्वित्र्! यङ्गुलाच्चोनितम् १२
नृणां धामनि पादमानमुदितं स्वस्वोत्तरोपानहोर्मध्यं साङ्घ्रिकरत्रिकोन्मितमिदं त्वल्पालये दृश्यते
गेहव्याससमं तदर्धसहितं व्यासाब्धिषट्सप्तवस्वङ्काशांशयुतं च तैर्विरहितं चैवं मुनीन्द्रा जगूः १३
भक्तेऽस्मिन् पादमाने गुणचतुरिषु षट्सप्तनागाङ्कदिग्भिस्तेष्वेकांशो भवेत् कुट्टिममपि च तथेध्मांशिते वा रसांशः
नन्दद्वन्द्वैः शरांशो दिनकरयुगभक्तेऽद्रि भागो मुनीन्द्रै र्द्व्यंशं तिथ्यंशिते स्याज्जलधिपरिमितो विश्वभक्तेऽपि चैवम् १४
मासूरमानानि चतुर्दशैवं भवन्ति तेभ्यः पृथगूनिताश्चेत्
रसाद्रि नागाङ्कदशेशभागाश्चतुर्युताशीतिमितानि सन्ति १५
इष्टाधिष्ठानमाने नवभिरथ विभक्ते त्रिभिःपादुकोच्चं
षड्भिः कुर्याज्जगत्युच्छ्रयमथ नयनाद्र य्शङ्कैर्वा क्रमेण
द्वेधैवं मञ्चकं स्यात् प्रतिगलरहितं सर्वतः पादुकस्य
स्वोच्चाङ्घ्र्यूनार्धवह्न्यंशत इह शरभक्ते त्रिभिर्निष्क्रमो वा १६
रसांशिते वाञ्छितकुट्टिमोच्चे प्रकल्पयेत् पादुकमेकतोऽथ
त्रिभिर्जगत्युच्छ्रयमेकतस्तद्गलं प्रतिं तद्वदिहैकतोऽपि १७
सायकांशिनि तु कुट्टिमोच्छ्रये पादुकोच्छ्रयमिहैकभागतः
द्व्यंशतोऽथ जगातीं गलं प्रतिं चैकतो विरचयेदथेति वा १८
देवेन्द्रा ं!शिनि कुट्टिमे द्वितयतः सम्पादयेत् पादुकं
षड्भागैर्जगतीगलङ्गमिलया कुर्यादधो वाजनम्
अश्विभ्यां गलमूर्ध्ववाजनमवन्यंशेन नेत्रांशतः
प्रत्युच्चं गलमञ्चकाभिधमिदं सद्वाजनं भूतिकृत् १९
एवं त्रिधोक्तं गलमञ्चकाख्यं प्रतिर्जगत्या समनिष्क्रमैव
तेषां गलान्तर्गमनं गलोत्सेधाङ्घ्र्यंशतः स्याद् गलमञ्चकानाम् २०
कृत्वाधिष्ठानमेवं दृढतरमथ तच्छेषितं पादमानं
विद्यादङ्घ्र्युच्चमस्मिन्नृतुतुरगभुजङ्गाङ्कपङ्क्तीशभक्ते
एकांशेनान्वितं वा विरहितमथवेतीप्सितात्ताङ्घ्रिदीर्घादोमासञ्ज्ञाङ्घ्रिपीठोच्चयमपनयता पोतिकाया घनं च २१
विन्यस्येत् पादपीठं सुदृढतरशिलासारदारुप्रकॢप्तं
मासूरोपर्यथाब्ध्यश्रकवसुनृपकोणं क्वचिद्वर्तुलं वा
स्तम्भाधोभागकर्णोन्मितवितततदर्धोच्छ्रयं वा तदङ्घ्र्यग्न्यर्धांशोनं च पद्मोपममपि कुहचिद् वाजनाद्यन्वितं च २२
स्तम्भाः स्वविस्तारहुताशभागप्रकॢप्तमूलाग्रशिखासमेताः
स्थाप्या यथार्हं निजपीठिकोर्ध्वं तद्गर्तसंलग्नशिखाः समस्ताः २३
स्तम्भोच्चाब्धीषुषड्भूधरवसुनवदिग्रुद्र भागैकतः स्यात्
स्तम्भाधोविस्तृतिस्तद्वसुनवदशरुद्रा शं!हीनोग्रतारः
दण्डाप्यश्चायमेतेन च कुहचिदथो मीयते दारकॢप्तौ
कुड्यस्तम्भाग्रतारोऽप्यथ तदवयवाकल्पने दण्डसञ्ज्ञः २४
स्तम्भास्तन्मूलतारश्रुतिमितचतुरश्रोर्ध्वभागाः समस्ता
मूलेऽध्यर्धाग्निवेदाशुगरसततिकर्णोन्मिताब्ध्यश्ररूपाः
मध्ये व्यासश्रुतिप्रोन्मितकृतचतुरश्रास्तदूर्ध्वाधरोद्यद्वस्वश्राः सर्वतो वर्तुलनृपवसुकोणाश्च यद्वा विधेयाः २५
वृत्तादयस्ते चरणास्त्रयोऽमी मध्यादधस्ताच्चतुरश्रका वा
यद्वा वितानश्रवणोपकॢप्ततुर्यश्रमूलाश्च तथा विधेयाः २६
अत्युच्चेऽङ्घ्रौ तु तत्तत्यधिचरणदलद्विघ्नविस्तारमासूरोच्चोच्चाध्यधतुङ्गं रचयतु चरणं कुत्रचिन्मध्यतोऽधः
कुर्यादेवं शिलाभिः प्रणिगदितसुधाभेदसम्मेलिताभिर्यद्वा सारेष्टकाभिः क्वचिदखिलसमुत्सेधमर्धोच्छ्रयं वा २७
एकं वाजनमुत्तरस्य यदि तत् स्तम्भान्तराब्ध्यश्रकं
नेष्टं सम्मतमल्पवाजनयुते पत्रान्विते चोत्तरे
स्तम्भा मौक्तिकदामशुण्डवलयाद्याढ्यास्तथेष्टास्तयोर्गेहाङ्गं च समस्तमुत्तरवशादूर्ध्वाधरस्थं भवेत् २८
स्तम्भाग्रोत्तरतारयोगदलविस्तारं तथा स्तम्भमध्योद्यद्व्यासततां च तद्दलघनां रुपोत्तरे पोतिकाम्
स्तम्भाग्रोदितदण्डवह्न्युदधिबाणायामिनीं वोत्तरव्यासत्रिघ्नसमायतां कलयतु स्तम्भे लसद्वाजनाम् २९
पत्रोत्तरे चेद् वितताङ्घ्रिहिनतीव्रा विधेया खलु पोतिकेयम्
खण्डोत्तरे तुल्यवितानतीव्रा सर्वाश्च सर्वेषु यथोपशोभम् ३०
स्तम्भाधस्तारभेदप्रकथनविधिनैवोत्तराणां च तारं
खाभीष्टं कल्पयेद् वा वसुवसुयुगलार्कोर्मिसङ्ख्याङ्गुलैर्वा
श्रेष्ठं खण्डोत्तरं तद्विततिसमघनं मध्यमं पत्रसञ्ज्ञं
पादोनोच्चं कनिष्ठं विततिदलघनं तत्तु रूपोत्तराख्यम् ३१
उत्तरविस्तारघने व्यत्यस्यापि प्रकल्पयेत् क्वापि
तत्र तु चुलीति मता तस्यामेवार्पयेत लुपाः ३२
एक एव यदि वाजनं भवत्युत्तरस्य शरभाजिते घने
उच्चमंशयुगलेन निष्क्रमोऽप्यस्य पट्टमवशिष्टभागतः ३३
अल्पवाजनयुतोत्तरे घने नागभागिनि महत् त्रिभागतः
एकतोऽल्पमुभयाश्च निष्कमः स्वोच्चतो भवति पट्टमब्धिभिः ३४
बाणांशिन्यखिलोत्तरस्य तु घने द्वाभ्यां महद्वाजनं
चैकेनाल्पमथातनोतु महितं पट्टं च शिष्टांशतः
अब्ध्यादीश्वरपश्चिमांशिनि घने सर्वोत्तरस्यैकतो
युक्त्या वाजनयोश्च निष्क्रममथान्यत्रापि चैवं विधिः ३५
स्तम्भमूर्धनि निधाय पोतिकामुत्तरं तदुपरि प्रकल्पयेत्
पोतिकाविवरतः समूद्गतस्तम्भमस्तकशिखाहितावटम् ३६
अथोत्तरोच्चोच्चतदर्धतारां क्षुद्रो त्तराख्योत्तरपट्टिकां च
सङ्कीलयेदुत्तरबाह्यपार्श्वादूर्ध्वं दृढैः स्वोचितदारुकीलैः ३७
कीलास्ते कूटसूत्रेष्वखिलनिलयमध्येऽपि च द्वारमध्ये
कर्तव्यास्ते समस्ता यवमितगतिभिः सुत्रतोऽतीतमध्याः
युक्त्या पङ्क्तिं लुपानां सममपि परिकल्प्याथ मध्ये च तासां
कार्याः कीलास्त्वयुग्माः खलु सकललुपायुग्मसङ्ख्या विधेयाः ३८
एकाङ्घ्र्यूनादिदण्डोच्छ्रयमुपरि निधायोत्तरे वाजनं प्राक्
तिर्यग्दण्डोच्छ्रयाङ्घ्र्यूनितबहलतुलास्तासु वंशानुवृत्त्या
स्वार्धाक्रान्ता जयन्ती तदुपरि सुसमीकृत्य कृत्वानुवंशं
निश्छिद्रं छादयेत् खोचितघनफलकाप्रस्तरेणोर्ध्वभागम् ३९
यद्वा कपोतवलभीविलसत्तुलोलुः
पोद्यत्पिधानफलकादितुलाविशेषैः
युक्तं च खण्डफलकादिविचित्रचित्रमूर्तिप्रभेदसहितं महितं विदध्यात् ४०