अथ चतुर्थोऽध्यायः
शालाविधानम्
स्वाभीष्टालयदीर्घमडगणविधिं तेषां पृथङ्नाहतो
योन्यायर्क्षवयोव्ययादि शुभदं सर्वप्रकारादपि
सम्पाद्याथ गृहेऽष्टदीर्घगुणविस्तारादिभेदान् पृथग्दीर्घव्यासमितिं करोतु च यथात्राल्पान्तरालं सुधीः १
इष्टाद्दीर्घात् सर्वधाम्नां च नाहो
विस्तारोऽस्माद् विस्तृतेः पादमानम्
तस्मान्मासूरं च तच्छेषतः स्यात्
स्तम्भः स्तम्भाद्विस्तृतिश्चोत्तराणाम् २
तत्तदुत्तरविस्ताराल्लुपानीप्रादिविस्तृतिः
उत्तरादेर्घनं तत्तद्विस्तारादेव कल्प्यते ३
षड्हस्तादि निजेष्टदीर्घकरसङ्ख्यानेऽष्टनिघ्नें स्वदिग्योन्याढ्ये सति तत्त्रिभाग इह तद्गेहस्य नाहो भवेत्
व्यत्यासक्रियया भवेदपि च तद्दीर्घोऽथ नाहेऽर्धिते
दीर्घोने परिशिष्यतेऽत्र विततिः सर्वत्र मर्त्यालये ४
स्वाभीष्टदीर्घहस्ते द्विघ्ने सति तत्त्रिभागसंयुक्ते
स्वाभीष्टयोनिसङ्ख्यात्र्! यंशयुते नाह इति च सम्भवति ५
नहाङ्घ्र्यंशेन दीर्घो विततिरपि भवेत् तुल्यवेदाश्रगेहे
नाहार्धे नन्दभक्ते विततिरुदधिभार्गैश्च दीर्घो विशिष्टैः
सः स्यात् पादाधिकोऽर्धाधिक इह परिणाहेऽर्धिते दिग्विभक्ते
षड्भिर्दीर्घश्चतुर्भिर्विततिरिति सुरागारयोग्यास्त्रयोऽमी ६
पादाधिको मनुजसद्मनि गृह्यते तत्रावश्यके समततायतिकोऽपि कैश्चित्
अर्धाधिकोऽत्र न हितो मुनिभिः समस्तपादोनतापि कथिताखिलनाशिनीति ७
नाहार्धे द्वादशाद्यैस्त्रिभिरपि च विभक्तेऽथवा षोडशाद्यैर्विंशत्याद्यैश्च तत्त्वादिभिरपि मनुयुग्मादिभिर्दन्तसङ्ख्यैः
तत्तत्तुर्यप्रहीणैरथ विततिरुदध्यंशतः शेषभागैर्दीर्घो वस्वङ्कपङ्क्त्यादिभिरपि गुणविस्तारमाहुर्मुनीन्द्राः ८
नाहार्धे शिवभक्ते विततिस्त्रिभिरष्टभिश्च दीर्घो वा
दीर्घार्धादधिकतरं व्यासं नेच्छन्ति गर्गदक्षाद्याः ९
चत्वारोऽत्र तु दिग्गृहाः पृथगथो कोणालयाश्चैवमित्यष्टावेव नृणां गृहा मुनिमताः संस्थानभिन्नास्ततः
भिद्यन्ते नवधोत्तरस्य गतिभिर्मानेन नामादिभिश्चैतेषां द्वितलादिलक्षणविधौ मानानि तान्येव च १०
भिन्नाभिन्नवशाद् द्विधैव विदिता शालात्र भिन्ना पृथक्
दिक्स्था स्वाङ्गविशेषपूर्णविभवा कोणालयासम्भवात्
अन्तर्बाह्यभवोत्तराभिमिलनादेकीभवेत् कोणगेहापर्यन्तलसद्ध्वजो भवति यत्राभिन्नशालैव सा ११
शालास्त्वन्योन्यभिन्ना निजविहितगतिव्यासयोन्यादियुक्ताः
पर्युद्यत्पत्रमानावधिनिहितलसत्पादुकाभिन्नशालाः
सर्वार्हास्ता विशेषादवनिसुरहिताः कोणवेश्मप्रहीणास्तत्रापि प्राङ्गुणं केतुजमिति विदिता भिन्नशाला विशुद्धाः १२
मित्रे दक्षिणपश्चिमे पुनरुदक्प्राच्ये च गेहे मिथस्तस्मात् तद्युगलोत्थकोणनिलयः शेषो विधेयोऽपि च
अन्यत् कोणयुगं तथैकमथवा न श्लेषयेत् सूतिकाशूद्रा द्यागमनिष्क्रमार्थमुदितो मार्गोऽयमेवात्र तु १३
एकद्वित्रिककोणश्लेषवशाच्छिष्टभिन्नशाला स्यात्
धरणीदेवहिता साप्यखिलार्हा भिन्नमिश्रभावेन १४
दिग्गेहोत्तरपृष्ठसंहितविदिग्गेहोत्तराणि क्रमान्नन्द्यावर्तपदप्रदक्षिणगतीन्यातत्य संयोजयेत्
अन्तःस्थोत्तरयोगनाहमिह सर्वत्रापि केतूद्भवं
बाह्यस्थं च तथैव चेदतिशुभं संश्लिष्टभिन्ना त्वियम् १५
सर्वत्रापि च कोणगेहपरिणाहाप्त्यै स्वदिग्योनिरेवोक्तस्तत्र विदिग्गृहास्तु सकला जन्या भवन्त्येव हि
दिक्शाला जनका भवन्ति च ततः केतुर्भवेदीश्वरे
सिंहोऽग्नौ निरृतौ वृषः करिवरो वायौ नृणां धामानि १६
एवं संश्लिष्टभिन्नालयविधिवदथाकल्प्य सर्वोत्तराणि
स्वोक्तैर्दिग्योनिभिश्चैव च परिधिमुपादाय कोणालयानाम्
दिग्गेहान्तान्तराले पृथगपि च महाद्वारमध्यं विनान्यत्रादध्यात् कोणगेहोत्तरमपरिमिति श्लिष्टभिन्नाष्टशाला १७
कोणगृहोत्तरयोगः सन्धिमृते दिग्गृहोत्तरान्तेषु
यत्र स्यात् तत्र भवेद् भिन्नत्वं तद्गृहाश्चतुर्धेति १८
दीर्घव्यासाद्यभावे पृथगथ विधिवत्सन्ति कर्मोक्तनीत्या
सन्धायाकोणगेहावधि बहिरुदितान्युत्तराण्यत्र धीमान्
आधारीकृत्य पूर्वापरनिलयबहिष्ठोत्तरस्याग्रमूलावाधेयत्वेन चान्यद् द्वितयमिति चतुष्कोणसन्धिं विधाय १९
नाहं केतुजमेवमत्र बहिरप्यन्तश्च कृत्वा विदिग्गेहान्तर्विहितोत्तरैर्विरहितं त्वन्तःस्थकोणेष्वपि
सन्दध्याद् बहिरुत्तरोक्तवदिदं स्यान्मिश्रभन्नं चतुःशालं दिङ्निलयाः स्वयोनिगतिभिर्युक्ताः समस्ता अपि २०
कोणेषु सर्वनिलयोत्तरयोगभेदान्मिश्रत्वमत्र तु विदिग्गृहहीनभावान्
दिङ्मन्दिराणि निजयोनिगतिप्रभेदैर्युक्तान्यमूनि यदतोऽपि च भिन्नतात्र २१
प्रर्यन्तध्वजमादधीत बहिरप्यन्तश्च तत्पत्रमानान्तश्चाङ्गणनाहमप्यथ बहिर्नाहं च दिग्धामसु
कोणागारगतोत्तरान्तरुदितं नाहं च केतूद्भवं
युक्त्यातूत्तरविस्तृतिं च जनयेत् सम्मिश्रभिन्नालये २२
मानाद् बाह्यान्निजेष्टाद्र हयतु मितिमाभ्यन्तरीं शेषमानात्
कोणाब्ध्यश्रोदरोद्यद्भुजमपि शितधीरष्टनिघ्नं विजह्यात्
तच्छेषादुत्तराणामपि जनयतु विष्कम्भमष्ट्यंशतोऽमून्यापर्यन्तायतान्याकलयतु च चतुर्दिक्षु बाह्यान्तराणि २३
प्राग्वत् प्राङ्णपत्रमानबहिरन्तर्नाहकोणालयाः
केतूत्था हि दिगालयास्तु निजयोन्याढ्याः स्वगत्यान्विताः
राजार्हं तदपीह मिश्रकचतुःशालं नृगेहं विदुर्दिक्शाला निजयोनिजा यदखिलार्हं तद्द्विजेष्टं न वा २४
तुल्यातानवितानताङ्णविधौ गत्या विनान्तर्बहिर्योगे तूत्तरपत्रमानपरिणाहोऽप्यस्तु केतूद्भवः
केतूत्था अपि दिग्विदिङ्निलयनान्तर्बाह्यनाहाः स्वमध्योद्यद्वारपदा भवन्ति च चतुःशालं गृहं भूभुजाम् २५
क्वचिच्चतुःशालगृहे समस्ते सर्वोत्तराणामपि मध्यसूत्रे
नाहो विधेयो यदि तत्तु मध्यप्ररूढमानं भवनं वदन्ति २६
एकं स्याद् यदि दक्षिणं गृहमुभे चेत्तच्च पाश्चात्त्यकं
ते सौम्यं च गृहत्रिके गृहचतुष्के प्राच्यमेतानि च
वाञ्छन्ति क्वचिदेकमेव भवनं यद्यत्र पाश्चात्यकं
चेष्टं गेहयुगादिनिर्मितिविधौ प्रागुक्तवत् कल्प्यताम् २७
प्राक्शालारहितं गृहत्रिकमथो सुक्षेत्रमृद्धिप्रदं
चुल्लीदक्षिणमन्दिरेण रहितं तद् वित्तहानिप्रदम्
ध्वंसः पश्चिमशालया विरहितं पुत्रक्षयारिप्रदं
सौम्योनं तु हिरण्यनाभमिति तद् वित्तप्रदं सर्वदा २८
प्राक्पाश्चात्यविहीनके कलहमुद्वेगं च काचाभिधे
याम्योदग्रहितेऽर्थसिद्धिरुदिता सिद्धार्थकाख्ये द्विके
प्रागादिद्वितयोनिते क्रमवशान्मृत्युं भयं विक्रमं
चार्थाप्तिं प्रवदन्त्यतः क्रमवशाद् याम्यादिकं कल्पयेत् २९