अथ तृतीयोऽध्यायः
मानभेदयोन्यादिनिर्णयः
शिम्बिस्थाष्टतिलैर्यवोदरमिति प्राहुस्तदष्टोन्मितं
मात्राख्याङ्गुलमङ्गुलैरिनमितैः प्रोक्ता वितस्तिस्ततः
तद्द्वन्द्वं करकिष्क्वरत्निभुजदोर्मुष्ट्यादिसञ्ज्ञं ततस्त्वेकैकाङ्गुलवृद्धितोऽङ्गुलविशेषादप्यथो भिद्यते १
मात्राख्याङ्गुलिपञ्चविंशतिमितं मानं विमाने स्मृतं
प्राजापत्यकसञ्ज्ञितं सुरगृहे तेनापि मेयं क्वचित्
एतैरेव वराङ्गुलैः परिमितं षड्विंशतिप्रोन्मितैर्मानं क्वापि समस्तधाम्नि विहितं नाम्ना धनुर्मुष्टिकम् २
सम्प्रोक्ताङ्गुलिसप्तविंशतिमितं मानं यदुक्तं बुधैर्नाम्ना तत्तु धनुर्ग्रहं यदमुना ग्रामादिकं मीयते
रथ्याद्योपवनादिसम्मितिविधौ वापीतटाकादिके
चेष्टं तत्र धनुर्ग्रहं त्वथ धनुर्मुष्टिश्च तत्रेष्यते ३
अष्टाविंशतिसम्मिताङ्गुलिमितं प्राच्याख्यमानं भवेत्
वैदेहं नवविंशतिप्रतिमितैर्मात्राङ्गुलैः सम्मितम्
स्यात् त्रिंशत्प्रवराङ्गुलीपरिमितं वैपुल्यमेकाङ्गुलीयुक्तं तत्तु भवेत् प्रकीर्णमिति दोर्मानप्रभेदोऽष्टधा ४
भूसुरकार्ये निलये धनुर्ग्रहं च प्रकीर्णं च
वैपुल्यधनुर्मुष्टी भूपानां मानसाधने योज्ये ५
प्राजापत्यं च वैदेहं वैश्यानां सम्मतं भवेत्
किष्कुः प्राच्यं च शूद्रा णां किष्कुः सर्वत्र सम्मतः ६
स्वस्वोक्तमानादुपरि प्रदिष्टं सर्वं न चेष्टं क्षितिपादिकानाम्
अधःस्थमानं सकलं क्रमेण वैश्यक्षितीशद्विजवर्णयोग्यम् ७
सुरालये समस्तान्यप्यभीष्टानि यथेप्सितम्
मानानि श्रेष्ठमध्याधमाङ्गुलोत्थानि च क्वचित् ८
यवोदरैरष्टभिरुन्मितं यन्मात्राङ्गुलं तत्कथितं वरिष्ठम्
क्रमेण सप्तांशयवोदरैर्यत् तन्मध्यमं चाधमसञ्ज्ञितं च ९
षाष्टिकशाल्युदरैरप्यष्टाद्यङ्गैर्वराङ्गुलाद्यं वा
तच्छाल्यायतजलधिः सार्धत्रितयं त्रिसम्मितैर्वापि १०
नवधेत्युदिताङ्गुलिप्रभेदान्
नवधा तत्र कराः स्युरुत्तमाद्याः
अथ तेऽङ्गुलिवृद्धितोऽष्टधोक्तैः
करभेदैः सहिता द्विसप्ततिः स्युः ११
आदौ चतुर्विंशतिसम्मितैर्यो मात्राङ्गुलैरुक्तकरः स एव
सर्वत्र पूज्यो मतभेदतोऽन्ये सर्वेऽपि च क्वापि यथार्हमिष्टाः १२
हस्तेनैव गृहाद्यमुक्तमुदितं कुत्रापि मात्राङ्गुलैरत्यावश्यकतो यवैरपि परीणाहं च गत्यादि च
मानुष्येषु तु बाह्यगेहगतिनिष्ठादौ चतुर्हस्तको
दण्डो यष्टिरिति स्मृतोऽष्टगुणितो दण्डोऽत्र रज्जुर्भवेत् १३
तालाद्यैः प्रतिमादिकं खलु यवैर्मेयं च भूषादिकं
वस्त्रप्रावरणांशुकादि परिमेयं स्याद् वितस्त्या तथा
शस्त्राद्यं तदनामिकाङ्गुलियुगेनैवं च तद्व्यासतो
मुष्ट्या याज्ञिकभाजनादि यजमानस्यान्यदङ्घ्र्यादिना १४
द्विजभवनादिबहुत्वाद् ग्रामाद्याः सम्भवन्ति बहुभेदाः
उत्तममध्याधमतो मानविशेषैश्च सम्भवेदेषाम् १५
योजनमितचतुरश्रं भूभागं ग्राममुत्तमं प्राहुः
मध्यममर्धप्रमितं पादमितं प्रायशोऽधमं ग्रामम् १६
नगरस्य सहस्रादि द्विसहस्रान्तं च दण्डमानं स्यात्
पत्तनसञ्ज्ञं तद्वत् पोतान्वितवारिधितटोपेतम् १७
पुरमिति नरवरभवनप्रधानमाहुर्वणिग्जनादियुतम्
नगरं राजवरालयसकलजनागारमण्डितं विदितम् १८
एकविप्रवरागारतत्कुटुम्बसमन्वितम्
एकभोगं भवेद् ग्रामं तद्भृत्यायतनावृतम् १९
ग्रामाद्यखिलं द्विजभवनादिबहुत्वादनेकधा ज्ञेयम्
मानविशेषैरुत्तममध्याधमसञ्ज्ञितं च सम्भवाति २०
उत्तरयुगबाह्यान्तो मन्दिरविस्तार एव देवगृहे
श्रेष्ठो दण्डस्तद्वज्जगति प्रान्तावसानिको मध्यः २१
पादुकयुगलावधिको दण्डः प्रोक्तोऽधमः सुरागारे
प्रासादाद् बहिरेतैर्मर्यदाः पञ्च तत्र कल्प्याः स्युः २२
यानाङ्गादिषु केतुरेव विहितः सर्वत्र शस्तो ह्ययं
पर्यङ्कादिषु कुञ्जरो मृगपतिः पीठासनादौ हितः
भाण्डे कूपतटाकपञ्जरविधौ योनिर्वृषो वा ध्वजोऽथाश्वत्थादिसमस्तकुट्टिमविधौ केतुर्विधेयः सदा २३
अन्तर्योनिर्मानपात्रादिवापीकूपादीनामङ्कणे गर्भगेहे
तुर्यश्रागारोत्तरब्यासमध्ये कुत्राप्युक्तोऽन्यत्र सर्वत्र बाह्ये २४
इष्टातानवितानमाननिचये त्रिघ्नेऽष्टभिर्भाजिते
शेषो योनिरिह व्ययो मुनियुजाथायोऽष्टनिघ्नेऽरुणैः
ऋक्षैरृक्षमवाप्तिरत्र तु वयो ज्ञेयं तिथिस्त्रिंशता
वारो भुमिधरैर्निधिप्रगुणिते धर्माहृते वा व्ययः २५
ध्वजधूमसिंहकुक्कुरवृषखरगजवायसाः क्रमेण स्युः
प्रागादियोनयोऽष्टौ तेष्वयुजः सम्पदे युजो विपदे २६
केतुयोनिरभिवाञ्छितार्थदः
सात्त्विकोऽमरगुरुर्द्विजो भवेत्
पुर्वदिक्ष्वभिहितोऽपि सर्वदा
सर्वदिक्ष्वभिहितो विशेषतः २७
सिंहो दक्षिणदिक्स्थितः क्षितिसुतो लक्ष्मीप्रदस्तामसो
भूपोऽथो वणिगुत्तरे शुभकरो दन्ती बुधो राजसः
शूद्रः पश्चिमदिक्स्थितोऽर्कतनयो धान्यप्रदस्तामसः
सम्प्रोक्तोऽथ विदिक्षु ये निगदितास्तत्रापि ते निन्दिताः २८
उद्वेगः स्याद् धूमे शुनि कलहश्चपलता खरे भवति
ध्वाङ्क्षे कुलहानिः स्यात् सर्वविदिग्योनयस्ततो निन्द्याः २९
प्राच्यां केतुर्विधेयः स तु भवति विधानेषु सर्वत्र नित्यं
शालायां दक्षिणास्यां मृगपतिरुदितः केतुयोनिश्च योज्यः
मातङ्गः केतुसिंहावपि च वनपतौ पश्चिमे स्याद् वृषोऽन्ये
केतुः सिंहो गजश्चापि च निजनिजकोणालयेऽप्येवमेव ३०
योनिः प्राणा एव धान्मां यदस्माद्
ग्राह्यस्तत्तद्योग्य योनिप्रभेदः
मृत्युर्वर्ज्यः सर्वगेहेप्यवश्यं
सर्वव्यापत् प्राप्यतेऽस्मिन् गृहीते ३१
आयाधिक्यं व्ययतः सम्पाद्य सर्वथान्यथापत्तिः
नक्षत्रादिशुभत्वं ज्योतिःशास्त्रादिभिः सुविज्ञेयम् ३२
बालत्वं कौमारं यौवनमथ वार्द्धकं च निधनं च
पञ्च वयांस्येष्वन्त्यं नेष्टं शिष्टानि वास्तुनीष्टनि ३३
द्वेधा योनिश्चतुर्धा व्ययविधिरूदितश्च द्विधायो वयश्चाप्यृक्षं विप्रादिवर्णास्तिथिरपि च तथा राशयो द्विप्रकाराः
त्रेधा वारो ध्रुवादिस्त्रिविध इति विकल्पेन योन्यादयः स्युः
प्रोक्तेष्वेतेषु पूर्वोदितमखिलमतं कार्यमावश्यकेऽन्यत् ३४
सामान्यं परिणाहतः सुविहिता योन्यादयो दीर्घतो
विस्तारेण च पादमानचरणाधिष्ठानतुङ्गैरपि
विस्ताराहतदैर्घ्यतोऽपि च पृथक् स्वोक्तयोन्यादयो
जाताश्चेदतिशोभना गृहविधौ पक्षान्तरोक्तैरपि ३५
सर्वागारे प्रधानोत्तरपरिधिवशाद् दीर्घविस्तारतुङ्गस्तम्भाधिष्ठानगर्भालयमितिविधयो द्वारबिम्बादयोऽपि
आरुढाद्युत्तरं च द्वितलविधिसमस्ताङ्गभेदा विकल्पेनोक्तैरंशैश्च कार्या यदि निकटगता योनिभेदाश्च योज्याः ३६
गेहे क्षेत्रफलं विताननिहतायामं विदुश्चेष्टदिग्योनिर्यन्मितदीर्घविस्तृतिविधानादत्र पूर्णो भवेत्
तावद्विस्तृतिदीर्घमानमभिकल्प्य प्रागथो नाहवत्
सर्वं कल्पयतु व्ययादिकमिदं त्वभ्यन्तरव्यापि हि ३७
दीर्घे तु विस्तारहतेषभक्ते यथेष्टयोनिः परिशिष्यतेऽत्र
तथाप्रकल्प्यै शितधीदीरुच्चैर्विचार्य पूर्व्वं गृहतारदीर्घौ ३७-२
पूर्वं त्रिघ्नचतुर्दशाप्तपरिधेः सामान्यमुक्तो व्ययो
नन्दघ्नेऽष्टहते च पङ्क्तिविहृते शिष्टो व्ययो वा भवेत्
सिद्धर्क्षे वसुभाजितेऽपि च चतुर्धेति व्ययः सर्वथास्याल्पत्वं परिकल्प्यमात्मजधनादीनां विनाशोऽन्यथा ३८
स्वत्र्! यंशेन युते तथेक्षणहते नाहेऽष्टभक्ते भवेदायो वा पुनरृक्षनिघ्नपरिधौ दिग्द्वन्द्वभक्ते वयः
बालत्वादिविशेषमात्रमवगन्तव्यं फलैः शेषतस्तेषामेव गताब्दमानमिह तारुण्यं वयः शोभनम् ३९
नन्दघ्ने परिधौ च केवलपरीणाहेऽथ वा त्रिंशता
भक्ते तत्र विकल्पपक्षयुगले प्राग्वत् तिथिः शिष्यते
त्रिघ्नेऽङ्कादिहतेऽथवार्णवहृते नाहे द्विजाद्याः कमाद्
वर्णाः स्युर्निगमाहते वसुहते वार्काहृते राशयः ४०
केवलनाहेऽद्रि हृते त्रिघ्ने नाहे च शिष्यते वारः
द्विघ्ने वा त्रिघ्ने वा नाहे नृपभाजिते ध्रुवाद्याः स्युः ४१
क्षेत्रफले व्यययुक्ते नृपभक्ते वा ध्रुवादयः शिष्टाः
ध्रुवधान्यजयविनाशाः खरकान्तमनःप्रसादसुमुखत्वम् ४२
सौमुख्यासौम्यत्वे विरोधवित्तोद्भवक्षयाक्रन्दाः
वृद्धिजयौ च कमशः सञ्ज्ञातुल्यं फलं भवेदेषाम् ४३