हंसलक्षणम्
अथ वक्ष्ये त्रिमूर्तीनां वाहनानां तु लक्षणम्
हंसस्य लक्षणं चैव गरुडस्य तु लक्षणम् १
वृषस्य लक्षणं चैव सिंहरूपस्य लक्षणम्
पितामहोदयं वापि द्वित्रयांशैकमेव वा २
उत्तमादि त्रिधा प्रोक्तं हंसोदयमिति स्मृतम्
द्वितालोत्तममानेन भागं हंसोदयं भवेत् ३
वेदांशं शिरसो तुङ्गमष्टांशेन गलोदयम्
रुद्रा शॐ! हृदयतुङ्गं स्यात्तस्याधोऽधोरुदीर्घकम् ४
सत्रिपादांशकं जानुतुङ्गमेकांशमीरितम्
ऊरुतुङ्गसमं जङ्घायामं पादोदयांशकम् ५
मुखायामं त्रियंशं स्याच्छिरःपृष्ठे द्वयांशकम्
मुखतारं युगांशं स्यान्मूलग्रावं शिवांशकम् ६
अग्रमूलाग्रक्षयं तारं ग्रीवस्य द्विवक्त्रयुक्
कुक्षिताराष्टमात्रं स्यादुरस्थानं तु तत्समम् ७
तदुत्तरात्पुच्छमूलादायामं षोडशांशकम्
अक्षतारं शराङ्गुल्यं पक्षायामाष्टमात्रकम् ८
विस्तारं च द्विमात्रं स्यादग्रमेकाङ्गुलं भवेत्
घनमेकाङ्गुलं चैव बाहुदीर्घाष्टमात्रकम् ९
अंशेन कूर्परं स्यात्कराग्रायामं षडङ्गुलम्
लाङ्गुलाकारहस्तौ च पक्षस्यान्तं प्रविष्टके १०
ऊरुमूलविशालं स्यात्सार्धद्व्यंशं सुवृत्तकम्
अध्यर्धांशाग्रविस्तारं पादांशं जानुविस्तृतम् ११
जङ्घायामं शिवांशं स्यात्तलतारं द्विमात्रकम्
वरदो मध्यमाङ्गुल्ययामं तु युगांशकम् १२
तत्पार्श्वे द्विद्विमात्रं स्याद् द्विमात्रायां प्रशस्यते
पृष्ठे मूलाङ्गुलायामं द्विमात्रं तत्प्रशस्यते १३
पुरतो मात्रविस्तारं पृष्ठे च तत्सबन्धनम्
अध्यर्धमङ्गुलतारं तदर्धमन्याङ्गुलानि च १४
आस्यायामं त्रिमात्रं स्याद् विस्तारं चैकमात्रकम्
अक्षायाममर्धमात्रं स्याद् विस्तारं युक्तितो न्यसेत् १५
मुखायामे तु तन्मध्ये चाक्षं कुर्याद् विचक्षणः
द्वियवं कर्णसूत्रं स्यादक्षायाममन्तरं भवेत् १६
शिरोर्ध्वे स्तूपितुङ्गं स्याद् द्व्यङ्गुलैकाङ्गुलं घनम्
तदायामं षडङ्गुल्यं शिरःपृष्ठावसानकम् १७
विस्तारं तु युगाङ्गुल्यं शे युक्त्या प्रयोजयेत्
सर्वाङ्गं धवलाकारं पादौ च रक्तवर्णयुक् १८
तदास्यं हेमवर्णाभं कुर्यात्तु ब्रह्मवाहनम्
सर्वेषामपि मूर्तीनां दोलयानं च कल्पयेत् १९
एवं हंसे पुच्छके पत्रयुक्तम्
पृष्ठे ग्रीवे स्तूपिकापत्रवल्या
लम्बं कुक्षिरावृत्त पत्रैः
सर्वैर्वर्णैरभिरामं सम्भूषम् २०
देवानां भूतैतिलानां नृपाणाम्
हर्म्ये देशे प्रस्तरे चोत्तरोर्ध्वे
कूटैर्नीडैः सर्वतो ग्रीवदेशे
युक्त्या कुर्यात् श्रेणिकाहंसं भूष्यम् २१
इति मानसारे वास्तुशास्त्रे वाहनविधाने हंसलक्षणं नाम षष्टितमोऽध्यायः