५८

यक्षविद्याधरादिलक्षणम्
यक्षविद्याधरादीनां लक्षणं वक्ष्यतेऽधुना
द्विभुजम् च द्विनेत्रं च करण्डमकुटान्वितम् १
चरणाम्बरसंयुक्तं राक्षसाकारवद् भवेत्
श्यामवर्णं च पीतं च यक्षाणां वर्णमेव च २
श्यामरक्तं च पीतं च वर्णं विद्याधरं तथा
यक्षविद्याधरादीनां नवतालेन कारयेत् ३
देवस्यानुचरैः यक्षा विद्याधराश्च पारगाः
गानयोग्या गन्धर्वा देवाङ्गुल्यामनार्थकम् ४
निग्रहा राक्षसा प्रोक्ताः चैव यक्षे तु भेदकम्
यक्षैश्च चामराद्यैश्च सुराणां चिह्नधारिणः ५
स्थानकं चासनं चैव यक्षविद्याधरादिभिः
दक्षिणा स्वस्तिकं पादं वामपादं तु कुञ्चितम् ६
चामराद्यैर्वृतं हस्तं तं चोर्वी श्रितमेव वा
एवं तु यक्षरूपं स्याद् विद्याधरासनान्वितम् ७
पुरतः पृष्ठपादौ च लाङ्गलाकारमेव च
जान्वाश्रितौ हस्तौ गोपुरोद्धृतहस्तकौ ८
एवं विद्याधराः प्रोक्ताः सर्वाभरणभूषिताः
नृत्तं वा वैष्णवं वापि वैशाख स्थानकं तु वा ९
गीतवीणाविधानैश्च गन्धर्वमिति कथ्यते
चरण पशुसमानं चोर्ध्वकायं नराभम् १०
वदनं गरूडभावं बाहुकौ पक्षयुक्तौ
मकुट कमलयुक्तं पुष्पसच्छाय वर्णम् ११
परित करुणावीणं किन्नरस्य स्वरूपम् १२
इति मानसारे वास्तुशास्त्रे यक्षविद्याधरविधानं नाम अष्टपञ्चाशदध्यायः