५६

बौद्धलक्षणम्
बौद्धस्य लक्षणं वक्ष्ये सम्यक् च विधिनाधुना
जनदेवास्थिरं युक्तं बौद्धस्य च विशेषतः १
स्थानकं चासनं वापि सिंहासनादिसंयुतम्
अश्वत्थवृक्षसंयुक्तं कल्पवृक्षं तथा न्यसेत् २
शुद्धश्वेतवर्णं स्याद् विशालाननसंयुतम्
लम्बकर्णायताक्षं स्यात्तुङ्गकोणं स्मिताननम् ३
दीर्घबाहु विशाला च वक्षःस्थलं च सुन्दरम्
मांसलाङ्गं सुसम्पूर्णं लम्बोदरपूर्णकृत् ४
समपादस्थानकं कुर्याल्लम्बहस्तं सुखासनम्
द्विभुजं च द्विनेत्रं च चोष्णीषोज्ज्वलमौलिकम् ५
एवं तु स्थानकं कुर्यादासनादि यथाक्रमम्
पीताम्बरधरं कुर्यात्स्थानके चासनेऽपि च ६
पीतं वामभुजोर्ध्वे तु चार्धकं तु सदना
स्थावरं जङ्गमं वापि दारु शैलं च लोहजम् ७
चित्रं वा चार्धचित्रं च चित्राभासमथापि वा
पट्टे वा भित्तिके वापि कुर्यान्मृत्तिकाशर्करा ८
उत्तमं दशतालेन कारयेत्त्वङ्गमानकम्
शेषं प्रागुक्तवत् कुर्यातत्तदागमवद् बुधः ९
इति मानसारे वास्तुशास्त्रे बौद्धलक्षणविधानं नाम षट्पञ्चाशदध्यायः