मध्यरङ्गविधानम्
देवानां च नृपाणां च स्थानकासनयोग्यकम्
मुक्ताप्रपाङ्गमानं च लक्षणं वक्ष्यतेऽधुना १
यद्युक्तमध्यरङ्गे तु चतुस्त्रिंशद्विभाजिते
एकैकं भागहीनं स्यात्प्रपाविस्तारमिष्यते २
तच्चतुर्भागिकैकेन तन्मसूरकतुङ्गकम्
तद्द्वयं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ३
अथवाष्टांशकं तुङ्गे विभजेत्तद्विशेषतः
अर्धार्धांशेन वेदिः स्यात्पञ्चांशं चाङ्घ्रितुङ्गकम् ४
प्रपातुङ्गं शिवांशं स्यादथवा षड्विभाजिते
एकांशं वेदिकोत्तुङ्गं चतुर्भागाङ्घ्रितुङ्गकम् ५
एकांशं मञ्चतुङ्गं स्यात्सर्वालङ्कारसंयुतम्
एकत्रिभक्तिकं वापि चतुरर्धाङ्घ्रिसंयुतम् ६
सर्वेषां पादविस्तारं त्रिचतुष्पञ्चाङ्गुलं भवेत्
धान्यस्तम्भमिति प्रोक्तं शिलास्तम्भं विशेषतः ७
षट्सप्ताष्टाङ्गुलं वापि शिलास्तम्भं विशालकम्
वृत्तं वा चतुरश्रम् वा अष्टाश्रं षोडशाश्रकम् ८
पादतुङ्गेऽष्टभागे तु त्रयांशेनोर्ध्वमलङ्कृतम्
बोधिकं मुष्टिबन्धं च फलका नाटिका घटम् ९
सर्वालङ्कारसंयुक्तम् मूले पद्मसमन्वितम्
चतुर्दिक्षु चतुर्भद्रं केचिद् भद्रं तु कारयेत् १०
कुट्टिमं चोपपीठं वा सोपपीठमसूरकम्
अथवा चिन्हवेदिः स्यात्प्रपालङ्कारमुच्यते ११
उत्तरं वाजनं चैव मुष्टिबन्धलुपादिभिः
परितः क्षुद्र नासिभ्योऽष्टषोडशमेव च १२
तदूर्ध्वे व्यालरूपादिमकरादि विभूषितम्
तत्र मध्ये सभामध्ये न्यसेत्सिंहासनादिभिः १३
नित्यनैमित्तिकाख्यादिकाम्यैरपि च सर्वभिः
चक्रवर्त्यादिभूतैश्च देवसिंहासनोपरि १४
स्वशक्तिभिरधिष्ठित्य संस्थिता जनसेविता १५
सिंहासनं मकरतोरणकल्पवृक्षम्
मुक्ताप्रपाङ्गमपि दारुशिलेष्टकाद्यैः
रत्नैरनेकबहुलोहविशेषकैश्च
कुर्यान्मनोहरतरं चाथ सालभक्त्या १६
मुक्ताप्रपाङ्गार्थमुदीरितानि
पादाद्यधिष्ठानानि तथोत्तराभिः
मानानि हीनान्यधिकानि चेत्
राजराष्ट्रस्य निकृन्तनानि १७
इति मानसारे वास्तुशास्त्रे मध्यरङ्गविधानं नाम सप्तचत्वारिंशोऽध्यायः