४२

राजलक्षणम्
अथ वक्ष्ये विशेषेण भूपानां लक्षणं परम्
चक्रवर्ती महाराजो नरेन्द्रः! पार्ष्णिकस्तथा १
अथ पट्टधरश्चापि मण्डलेशस्तथैव च
अथैव पट्टभाक् चैव ततः प्राहारकस्तथा २
अस्त्रग्राहस्ततश्चैते नव भूपा यथाक्रमात्
चतुःसागरपर्यन्तां महीं स्वीकृत्य बलवान् ३
जित्वा द्वारस्य पुरतो बन्धमाबध्य संस्थितः
न्यायान्यायविचारार्थं किञ्चिन्मध्यप्रतापवान् ४
कीर्तिमान् श्रीमतां श्रेष्ठः कृपया लोकरक्षकः
सर्वावनीन्द्र वन्द्योऽसौ चक्रवर्तीति कीर्तितः ५
शक्तित्रयेदक्षिणीं स्वीकृत्य सप्तंराज्यस्य चेश्वरः
षड्गुणैः षड्बलैर्युक्तो नीतिज्ञः सूर्यवंशवान् ६
चन्द्र वंशोदितो वाथ चाधिराज इति स्मृतः
शक्तित्रयेण त्रितयराज्यं स्वीकृत्य दुर्वलान् ७
पार्ष्णिकः पट्टधरो मण्डलेशोऽपि पट्टभाक्
एतैर्वन्द्यपदद्वन्द्वो नीतिनेत्रः अरिन्दमः ८
सुकृती चोत्सवरतो नरेन्द्रः! परिकीर्तितः
एकराज्यस्याधिपतिश्चैकदुर्गमधिष्ठितः ९
षड्बलाधिपतिर्ज्ञानी कालज्ञोऽथ प्रयोगवान्
एवं परेभ्यश्चाभिहितो पार्ष्णिक इति स्मृतः १०
चतुष्टयगुणाधीशश्चार्धराज्यस्य चेश्वरः
एकदुर्गस्याधिपतिः स्वाम्यमात्यैरपीश्वरः ११
मण्डलाधिपतिः पट्टभाक्भौमेऽपि वर्जितम्
एवं गुणविशिष्टोऽसौ प्रोक्तः पट्टधराख्यया १२
अर्धमण्डलस्याधिपतिरेकमण्डलसंश्रितः
पट्टभागादिवन्द्योऽसौ मण्डलेश इति स्मृतः १३
मण्डलाधिपतिः श्रीमानेकदुर्गमधिष्ठितः
सज्जनानां धनाढ्यानामधिपः पट्टभाक् स्मृतः १४
ब्राह्मणक्षत्रियवैश्यशूद्रैः! एककुलोद्भवः
एकदुर्गस्याधिपतिर्नानाजनपदाधिपः १५
सज्जनाधिपतिः सर्वरक्षादिनकरेश्वरः
एतल्लक्षणयुक्तोऽसौ राजा प्राहारकः स्मृतः १६
नानाजनपदाधीशो नगरीनायकः प्रभुः
एकदुर्गमधिष्ठाप्य नानाजनपदैकराट् १७
आदाय दुर्बलानां तु सोऽस्त्रग्राही प्रकीर्तितः
चक्रवर्ती अधिराजश्च नरेन्द्र श्चाविचारकः १८
पार्ष्णिकश्च शिरस्त्रं स्यात्पट्टधृक् पट्टबन्धनम्
मण्डलेशस्य पट्टं स्यात्पट्टभाक् पट्टबन्धनम् १९
प्राहारकश्चास्त्रग्राही चोभौ मालाधरौ स्मृतौ
चक्रवर्ती महाराजो नरेन्द्र श्चैव मौलिनः २०
सिंहासन सनिर्यूहं कल्पवृक्षसतोरणम्
पार्ष्णिकश्च पट्टधरः पट्टभाक् तृतीयस्य तु २१
विना कल्पतरोः सर्वमुक्तं सिंहासनादिकम्
प्राहारकस्य नृपतेः सिंहासनमिति स्मृतम् २२
अस्त्रग्राहस्य भूपस्य केवलं चासनं भवेत्
चक्रवर्त्यादि निर्बाधं भूपालाद्योर्विशेषतः २३
चामरे धवलच्छत्रं बहुमालाधर स्मृतम्
आसनानां तु सर्वेषां षट्पादं परिकीर्तितम् २४
चक्रवर्ती विशेषेण नवमालाधरः सुखी
चामरैकं विनाच्छत्रं चतुष्पादसमन्वितम् २५
क्षुद्र स्य परिपालेभ्यो मध्यश्रेष्ठस्य योग्यकम्
बहुमाला च सम्प्रोक्तमन्यैः क्षुद्रै स्तु वर्धिते २६
वृत्ता सज्जननिर्यूहं मुक्ता च स्रग्विभूषणम्
क्षुद्र श्रेष्ठस्य नृपतेश्चोभे जनपदे स्मृतौ २७
अन्येभ्यो क्षुद्र राजेभ्यस्त्वेकजानपदं परम्
एते तु क्षुद्र भूपालो भूपालानां तु सेवकाः २८
चक्रवर्त्याख्यराजोऽसौ दुर्जनानां तु नाशकः
कृपालुः कृपया लोकं संरक्षति मुहुर्मुहुः २९
अथ दशकैकांशं करं स्वीकृत्य तिष्ठति
महाराजः षडंशे तु करं चैकं परिग्रहेत् ३०
दुर्जनानां जनं ज्ञात्वा दिशि धर्मस्य पालकाः
नरेन्द्र स्य तु पञ्चांशं करं स्वीकृत्य राज्यति ३१
अर्थिभ्योऽतिदरिद्रे भ्यो दाता धनवतां गृह्णीयात्
अथ पार्ष्णिकाख्यनृपतिः करमद्य प्रतिगृहीयात् ३२
पट्टधरस्य समये चोक्तवत् त्रिः प्रतिगृहीत्
ददाति विदुषां भूयः अन्येभ्यः किञ्चिदेव हि ३३
पट्टभाक् राज्यं तत्सर्वं करं स्वीकृत्य तिष्ठति
देवेभ्यो ब्राह्मणेभ्योऽपि नित्य मान्यं करोत्यसौ ३४
प्रहारकस्य देशस्य करं स्वीकृत्य तिष्ठति
नीतिशास्त्रोक्तवन्न्यायमन्यायं करोत्यपि ३५
धर्मज्ञश्चोपकारज्ञो वामभिः कर्मभिः दृढः
अस्त्रग्राहः स्वराज्यस्य न्यायाज्जग्राह तत्करम् ३६
यथापराधदण्डं च हिंसां नाभिकरोति च
तापसान् ब्राह्मणान्देवान् सदा पूजां करोत्यपि ३७
एवं क्षुद्रा श्च भूपालाः स्वे स्वे जनपदे करान्
स्वीकृत्य चक्रवर्त्यादिराजानां च करोत्यपि ३८
इत्युक्तन्यायमार्गस्य भागं कुर्वन्ति ते नृपाः
अक्षत्रियास्तु ते सर्वे प्रोक्तं विद्वान् पुरातनैः ३९
इतिविरचितमेवं भूपतीनां चरित्रम्
श्रुतिसकलपुराणैः सर्वशास्त्राय मानम्
परिपतति यदे तल्लक्षणं चार्थयुक्तम्
स तु निखिलविबुधेभ्यो वन्द्यपादारविन्दः ४०
इति मानसारे वास्तुशास्त्रे राजलक्षणविधानं नाम द्विचत्वारिंशोऽध्यायः