गृहमानस्थानविधानम्
द्विजातीनां च सर्वेषां वर्णानां वासयोग्यकम्
गृहाणां मानविन्यासं स्थानं च वक्ष्यतेऽधुना १
ग्रामे च नगरे वापि पत्तने खटकेऽपिवा
वने वा चाश्रमे वापि नद्यद्रे श्च पार्श्वके २
तेषां तु वेश्मनः स्थानं कल्पयेच्छिल्पिवित्तमः
द्वित्रिदण्डं समारभ्य द्विद्विदण्डविवर्धनात् ३
पङ्क्त्यैकपङ्क्तिदण्डान्तं पञ्चधा विपुलं भवेत्
पादाधिकमथाध्यर्धं पादोनं द्विगुणं तु वा ४
द्विगुणान्तं गृहायामं गृहचान्तरमधिकम्
दीर्घ पादाधिकं दीर्घमन्तपादत्रयान्तकम् ५
गृहायामसमं वापि तस्मात्पादाधिकं तु वा
अर्धाधिक त्रिपादं चाधिक्यं वा त्रिगुणान्तकम् ६
गृहतारायतं ह्येवं विस्तारं गृहतारतत्
गृहायामविशाले तु परमशायिकपदं न्यसेत् ७
ब्रह्मस्थानं विनान्येषां सर्वेषां वासयोग्यकम्
आर्यो विवस्वान् मित्रं भूधरश्च चतुष्टये ८
द्विजानां मुख्यहर्म्यं स्यात्कल्पयेत्तच्छ्रियावहम्
विवश्चिति पदे चैव मित्रके भूधरे तथा ९
भूपानां मुख्यवासं स्यादन्यजातेरयोग्यकम्
आपाद्यष्टामरदेशे वर्णानां वासयोग्यकम् १०
इन्द्रा दिषु चतुर्दिक्षु द्विजानां वासयोग्यकम्
यमे च वारुणे चैव भूपाना मुख्यवासकम् ११
वरुणे च शशस्थाने वैश्यानां वासयोग्यकम्
नैरृत्ये सोमे ईशे च शूद्रा णां वासयोग्यकम् १२
अनिलानलदेशे च सर्वेषां वासयोग्यकम्
उत्तरेशानपर्जन्ये सर्वेषां पचनालयम् १३
अन्तरिक्षाग्निपूषा च वर्णानां कूपयोग्यकम्
याम्ये च नैरृते वापि सर्वेषां भोजनालयम् १४
वायव्ये विप्रजातीनां देवताभोजनालयम्
अदिते चेशकोणे वा पितॄणां देवतार्चनम् १५
भल्लाटे च मृगे चैव द्विजानां गृहणीगृहम्
गन्धर्वे भृङ्गराजे वा मृगे चैवान्तरिक्षके १६
सर्वेषां भूपतीनां च महिष्यावासयोग्यकम्
पुष्पदन्ते स्वकर्णे वा चायुधानां च मण्डपम् १७
वरुणे चासुरे नागे मुख्ये पर्जन्यसोमके
वैश्यानां तु परेषां तु गृहिण्यावासयोग्यकम् १८
सत्यके चान्तरिक्षे वा सर्वेषां शयनालयम्
शेषे चैवासुरे चैव वरुणे वासनालयम् १९
सोमे मृगपदे चैव हेमरत्नस्य वासकम्
नागे चैव द्विजानां च हुत कर्मालयं भवेत् २०
अदिते सर्वजातीनां स्नपनार्थालयं भवेत्
तत्रैव सन्धिकार्यार्थं तद्बाह्ये चरणालयम् २१
यमे च नैरृते वापि सूतकारालयं भवेत्
इन्द्रे चैव महेन्द्रे वा दासानामालयं तथा २२
ततश्चेशानबाह्ये तु चतुर्धारालयं भवेत्
पूषे च वितते चैव धेनोरालयमेव च २३
द्वारस्य वामपार्श्वे तु वाहनानां तदालयम्
आपश्चैवापवत्सा च बालालोकनमण्डपम् २४
ब्रह्मस्थानसमीपे तु विवाहाद्यर्थमण्डपम्
इन्द्रे च इन्द्र राजे च वस्त्राच्छादनमण्डपम् २५
रुद्र रुद्र जये वापि कन्यकारालयं भवेत्
सावित्रे च सवित्रे वा पुत्राणां चैव वासकम् २६
मृगे च सर्वजातीनां विद्याभ्यासार्थमण्डपम्
तस्य बाह्यप्रदेशे तु तैलाभ्यङ्गार्थमण्डपम् २७
अन्त्ये चावरणे चैशे वास्थानमण्डपं भवेत्
सोमे चैव विशालार्थं मण्डपं कल्पयेत्ततः २८
मृगे वा मुख्यके वापि विलासीनां तदालयम्
पावके पूषके वाथ सत्यके वा महेन्द्र के २९
सखीनां च गृहं कुर्यात्तत्रैवानुचरालयम्
द्वारस्य दक्षिणे पार्श्वे रक्षकारालयं भवेत् ३०
तत्रैव परिवारार्थं योधकानां तथालयम्
गृहक्षते यमे चैव महिषाद्यालयं भवेत् ३१
गन्धर्वे भृङ्गराजे चन्द्र दृष्टानास्यत् तदालयम्
वृषे वा नैरृते वापि दिनादीनां गृहं भवेत् ३२
वरुणे पुष्पदन्ते वा युवराजगृहं भवेत्
महेन्द्रे पुष्पदन्ते वा मुख्ये वाथ गृहक्षते ३३
सर्वेषामपि वर्णानां द्वारं कुर्याद् विशेषतः
भूपानां मुख्यके द्वार विना चोक्तं पुरातनैः ३४
पावके वानिले वापि धान्यकर्णनमण्डपम्
नागे वा मुख्यके वापि धान्यागारं तु कल्पयेत् ३५
शोषे वा चासुरे वापि पुष्पमण्डपं संस्थितम्
चतुर्दिक्षु चतुष्कोणे सोपायास्थानमीरितम् ३६
वायवे चाथ भल्लाटे नागे वा सर्वहर्म्यके
कुर्यान्नृत्ताङ्गनानां च नृत्तयोग्यं तु मण्डपम् ३७
रोगस्य च पदे चैव कुक्कुटावासयोग्यकम्
दौवारिके च सुग्रीवे मेषवासं च कारयेत् ३८
एकं वाथ द्विसालं वा त्रिसालं वार्धभित्तिकम्
भूपानां पञ्चसालान्तं द्वित्रिसालमथापि वा ३९
अन्तःसालपदे रोगे नित्यान्त मण्डपं न्यसेत्
मुख्ये वासं तु सर्वेषां चोक्तवत्कारयेत्सुधीः ४०
सर्वेषामपि वर्णानां स्थानयोग्यं द्विजन्मनाम्
क्षत्रियादित्रयाणां च उक्तरीत्या प्रयोजयेत् ४१
सर्वेषां देवतास्थानं मुख्यं वा कल्पयेत्सुधीः
प्रधाने सोपवासं च धनार्थाय भवेदिह ४२
कतुश्चित्तवशाद्वापि सर्वेषां तु प्रधानकम्
अन्यत्सालं तु सर्वेषां चैकपक्षालयक्रमात् ४३
अन्यत्सालं तु सर्वेषामालयार्थं द्विपक्षकम्
भित्तिमानं तु सर्वेषां प्राकारस्योक्तवत्कुरु ४४
द्वारे च द्वारशालादिगोपुरान्तः क्रमान्न्यसेत्
वैश्यशूद्र गृहे द्वारं चैकादित्रितलान्तकम् ४५
कुर्यात्तु शूद्र जातीनां द्वारं शालावसानकम्
मुख्यादि चोपवासैश्च सर्वं प्रागुक्तवन्नयेत् ४६
यत्रैव कर्तुर्धिष्णावशतो विमानम्
सद्मादिकं सकलसीमविहारकुड्यम्
कोशादिनीतिहयमन्दिरदन्तिशाला
कुर्यात्ततोऽन्यदखिलं नगरं च शास्त्रात् ४७
इति मानसारे वास्तुशास्त्रे गृहमानस्थानविधानं नाम षट्त्रिंशोऽध्यायः