एकादशतलविधानम्
एकादशतलं सम्यग् लक्षणं वक्ष्यतेऽधुना
शम्भुकमीशकान्तं च चक्राख्यं यमकान्तकम् १
वज्रकान्तार्ककान्तं चक्र माद्धर्म्यनामकम्
रुद्र हर्म्ये तले तारे चैकोनविंशदंशकम् २
कूटानां च द्विभागं स्यान्महाशाला नवांशकम्
अनुशाला युगांशं स्याद्धारा च द्विद्विभागिकम् ३
महाशाला च मध्ये तु भद्र शालैः शरांशकम्
शम्भुकान्तमिति प्रोक्तं सर्वालङ्कारसंयुतम् ४
तदेव नासिकामध्ये तु द्विभागं भद्र संयुतम्
ईशकान्तमिति प्रोक्तं क्षुद्र हर्म्यादिमीरितम् ५
मध्यमेकादशतले त्रिंशद्भागविशालकम्
महाशाला दशांशं स्यान्मध्यभद्रं शरांशकम् ६
तत्पार्श्वे एकैकभागेन कूटं हारा सपञ्जरम्
तदेव वेदभागेन भद्र शाला च मध्यमे ७
शेषं प्रागुक्तवत्कुर्याच्चन्द्र कान्तमिति स्मृतम्
तदेव कूटैकभागं स्यादनुशाला पञ्चभागिकम् ८
त्रिपादं भद्र संयुक्तं तत्त्रिभागैकभागिकम्
यमकान्तमिति प्रोक्तं सर्वालङ्कारसंयुतम् ९
श्रेष्ठहर्म्यविशालेतु चैकविशति भाजिते
द्विद्विभागेन कूटं स्याद्धारं च द्विद्विभागतः १०
हारा च तद्द्वयोर्मध्ये चानुशाला शरांशकम्
तन्मध्ये कूर्मभागेन भद्रं कुर्याद्विचक्षणः ११
महाशालानवांशेन मध्ये भद्रं शरांशकम्
तन्मध्ये भद्र शाला च बन्धभागेन योजयेत् १२
एवं तु वज्रकान्तं स्यादर्ककान्तमिहोच्यते
तदेव शालाप्रान्ते तु पार्श्वे चैकेन सौष्टिकम् १३
तद्द्वयोरन्तरे देशे तत्समं क्षुद्र हारयोः
पूर्ववत्कूटविस्तारं शेषं हारं सपञ्जरम् १४
तन्मध्ये तु त्रिभागेन क्षुद्र शालाविशालतः
तत्पार्श्वे त्रित्रिभागेन हारमध्ये सभद्र कम् १५
क्षुद्र शालात्रिभागेन मध्यभद्रं समन्वितम्
क्षुद्र हारा च सर्वेषां नासिकापञ्जरान्वितम् १६
मध्ये मध्ये महानासि नेत्रशाला च पार्श्वयोः
सर्वालङ्कारसंयुक्तं षड्विधं परिकीर्तितम् १७
शेषभागं तु सर्वेषां युक्त्या तत्रैव योजयेत्
एवं विस्तारगण्यं स्यात्तुङ्गगण्यमिहोच्यते १८
जन्मादिस्तूपिपर्यन्तं क्तवत्सङ्ग्रहं विदुः
एकादशांशभागेन दशतलोदयाधिकम् १९
तदेव सार्धबन्धांशं मसूरकोत्तुङ्गमिष्यते
सप्तांशं पाददीर्घं स्यात्तदर्धं प्रस्तरोदयम् २०
शेषं प्रागुक्तवद्गण्यमेकादशतलोदये
तलोर्ध्वोर्ध्वतले सर्वे कर्णहर्म्यादिमण्डितम् २१
एकभाग द्विभागं वा परितोऽलिन्दमिष्यते
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् २२
शालाकूटैश्च हारैश्च उक्तवत्समलङ्कृतम्
हारान्तरे तु कूटशाला च ग्रीवदेशोक्तदेवतान् २३
अनुशालाष्टदिक्पालांस्तत्तद्वाहनसंयुतम्
यक्षविद्याधरादीनां गरुडादीनि विन्यसेत् २४
गणाधिपगणैश्चैव सर्वहर्म्येषु निक्षिपेत् २५
इति मानसारे वास्तुशास्त्रे एकादशतलविधानं नाम नवविंशोऽध्यायः