सप्ततलविधानम्
सप्तभूमिविधानस्य लक्षणं वक्ष्यतेऽधुना
विस्तारोत्सेधमानं च पूर्ववत्परिकल्पयेत् १
जन्मादिस्तूपिपर्यन्तं समानानि विभाजिते
भागोनषट्षडंशं स्याद्विंशाधिष्ठानोच्छ्रयम् २
तद्द्वयं पादतुङ्गं स्यात्प्रस्तरोच्चं कलांशकम्
तदूर्ध्वे सार्धबन्धांशं तदर्धं प्रस्तरोदयम् ३
गुणांशं पादतुङ्गं स्यात्सार्धभागोर्ध्वमञ्चकम्
सार्धयुग्मांशपादोच्चं सपादांशं प्रस्तरोदयम् ४
वेदिकोच्चार्धभागं स्यात्सपादांशं गलोदयम्
वरणोर्ध्वं त्रिभागं स्यान्मञ्चोर्ध्वमम्बरांशकम् ५
पादोनद्विशपादोच्चं शिवांशं प्रस्तरोदयम्
अत्यर्धं पादतुङ्गं स्यान्मञ्चोर्ध्वं तु तदर्धकम् ६
वेदिकोच्चार्धभागं स्यात्सपादांश गलोदयम्
तद्द्वयं शिरतुङ्गं स्याच्छेषं तु तच्छिखोदयम् ७
पूर्ववद्भक्तिमानेन विस्तारे तत्प्रकल्पयेत्
क्षुद्रे च मध्य मुख्ये च कूटशालादिभागता ८
एकं वाथ द्विभागं कर्णकूटविशालकम्
षट्सप्ताष्टनवांशं वा शालायामं तु मध्यमे ९
शालाकूटद्वयोर्मध्ये शेषांशं चान्तरालकम्
तन्मध्ये द्वित्रिभागैकं क्षुद्र शालाविशालता १०
तत्तत्पार्श्वद्वयोर्हारे शेषभागं विधीयते
तदूर्ध्वे चैकभागेन कुर्यादावृतालिन्दकम् ११
तले तले च पादौ च कर्णहर्म्यादिमण्डितम्
पुण्डरीकमिदं प्रोक्तं सर्वालङ्कारसंयुतम् १२
मध्ये तु भद्र शालं च श्रीकान्तमिति स्मृतम्
ऊर्ध्वशाला च संयुक्तं श्रीभोगमिति कथ्यते १३
शालापार्श्वे तु कूटं स्याद्धारणं तत्प्रकथ्यते
गलकूटसमायुक्तं पञ्जराख्यमुदीरितम् १४
तले तले भद्र कोष्ठाश्रमागारं परिकीर्तितम्
मञ्चयुग्मं तु संयुक्तं हर्म्यकान्तमिति स्मृतम् १५
ऊर्ध्वकूटसमायुक्तं हिमकान्तमिति स्मृतम्
एतदष्टविधं प्रोक्तं सप्तभूमिविधानके १६
तले तले तु कोष्ठं स्यात्कर्णकूटाद्यलिन्दकम्
क्षुद्र शालादिसर्वेषां वेदिकाभिरलङ्कृतम् १७
तोरणैर्नासिकैर्युक्तं क्षुद्र नास्यैश्च भूषितम्
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् १८
नानाप्रस्तरसंयुक्तं जालकाभिरलङ्कृतम्
एकाङ्गं च त्रयाङ्गं वा पञ्चसप्ताङ्गमेव वा १९
एवं सप्ततलं प्रोक्तं शेषं प्रागुक्तवन्नयेत्
देवानां पूर्ववत्कुर्यात्तए तले विमानके २०
इति मानसारे वास्तुशास्त्रे सप्ततलविधानं नाम पञ्चविंशोऽध्यायः