२४

षट्तलविधानम्
अधुना षट्तलं सम्यग्लक्षणं वक्ष्यतेऽधुना
विस्तारं च विभागं च पूर्ववत्परिकल्पयेत् १
सप्ताधिकं तु पञ्चाशद्भागं कुर्यात्तदुच्छ्रये
सार्धबन्धमधिष्ठानं सप्तांशं पाददीर्घकम् २
तदर्धं प्रस्तरोत्सेधमूर्ध्वपादं षडंशकम्
तदूर्ध्व मञ्च त्रियंशं स्यादूर्ध्वपादं शरांशकम् ३
तदर्धं प्रस्तरोत्सेधं सार्धवेदांशकाङ्घ्रिकम्
प्रस्तरं च द्विभागं स्यात्सार्धबन्धां शमङ्घ्रिकम् ४
प्रस्तरं सार्धभागं स्याद्वेदिकांशेन योजयेत्
ग्रीवतुङ्ग युगांशं स्याच्छिखरो युगांशकम् ५
शेषं तु स्तूपिकोत्तुङ्गं युक्त्या तत्रैव योजयेत्
एतत्तु पद्मकान्तं स्यात्सर्वोलङ्कारसंयुतम् ६
तदेवाधिष्ठानमंशेन तले तले विशेषतः
एतत्कान्तारमित्युक्तं कर्णहर्म्यादिमण्डितम् ७
अथ वापि च दिक्कुर्यात् सुन्दरं चेति कीर्तितम्
अथवा चोपपीठं स्यादुपकान्तमिति स्मृतम् ८
अथवा चोर्ध्वतले सर्वे वेदि कुर्यात्समञ्चकम्
कमलाख्यमिति प्रोक्तमन्तरप्रस्तरान्वितम् ९
तृतीये मञ्चसंयुक्तं रत्नकान्तमिहोच्यते
चतुर्थं प्रस्तरैर्युक्तं विपुलाङ्कमिति स्मृतम् १०
पञ्चमं मञ्चयुक्तं स्याज्ज्योतिकान्तमिति स्मृतम्
तदेव भद्र संयुक्तमेतत्प्रोक्तं सरोरुहम् ११
तद्ग्रीवादि शिखान्तं च विपुलाकृतिकं भवेत्
तदेव शिखरोस्वश्रं स्वस्तिकान्तमिति स्मृतम् १२
तदेव चतुरश्रं स्यान्नन्द्यावर्तमिहोच्यते
तदेव गल वस्वश्रमिक्षुकान्तमिति स्मृतम् १३
एवं त्रयोदशं नाम्ना प्रोक्तं षट्तलहर्म्यके
त्रिचतुष्पञ्चषट्सप्त मध्यकोष्ठं विशालकम् १४
एकद्वित्रिचतुष्पञ्चभागं हारं सपञ्जरम्
एकं वाथ द्विभागं वा कर्णकूटविशालकम् १५
तले तले कर्णकूटं कोष्ठहारादिभूषितम्
एकद्वित्रिविभागं च हारमध्ये तु भद्र कम् १६
एकद्वित्रिचतुष्पञ्च कोष्ठमध्ये तु भद्र कम्
कर्णकूटविशाले तु त्रिभागैकं मध्यभद्र कम् १७
भद्र शाला महानासी चार्धशालाद्यलङ्कृतम्
आदिभूमिक्रियायुक्त्या चोर्ध्वोर्ध्वतला न्यसेत् १८
वितलात्षट्तलान्तं स्यादेवं युक्त्या समलङ्कृतम्
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् १९
नानापञ्जरशालानां नासिकापञ्जरान्वितम्
प्रस्तरादिकपोतान्तं क्षुद्र नास्या विभूषितम् २०
शिखरे च मध्यनास्यैः क्षुद्र कपोतनासिकाः
विंशनासिकायुक्तं सर्वालङ्कारसंयुतम् २१
ग्रीवे च क्षुद्र पादानां युक्त्या च समलङ्कृतम्
कर्णहर्म्यादिसंयुक्तं यत्तलोपरिदेशके २२
एकभाग द्विभागं वा मूलव्यावृतालिन्दकम्
ऊर्ध्वोर्ध्वतलानां तु चैकभागेन लिन्दकम् २३
एतत्षट्तलं प्रोक्तं शेषं युक्त्या च पूर्ववत्
पूर्वोक्तसकलानामपि देवानां तत्राखिलसौधकोष्ठकेषु २४
ब्रह्म विष्णुशिवानारदैः सह सङ्कुलैः कुरुते शिल्पिवित्तमः २५
इति मानसारे वास्तुशास्त्रे षट्तलविधानं नाम चतुर्विंशोऽध्यायः