२३

पञ्चतलविधानम्
पञ्चभूमिविधानस्य लक्षणं वक्ष्यतेऽधुना
क्षुद्र मध्यं च मुख्यं च विशालं भागमुच्छ्रयम् १
प्रागुक्तवत्प्रगृह्यं तु कुर्यात्पञ्चतलं बुधः
चतुर्विंशांशकं तुङ्गे सात्यर्धांशमसूरके २
बन्धांशं पादतुङ्गं स्यादत्यर्धं प्रस्तरोदयम्
सपादद्विंशकं पादं मञ्चोर्ध्वं सशिवांशकम् ३
तदूर्ध्वेऽङ्घ्रि द्विभागं स्यात्प्रस्तरोच्चं शिवांशकम्
सत्रिपादांशकं पादं प्रस्तरोच्चं शिवांशकम् ४
तदर्धं वेदिकोत्तुङ्गं चन्द्रा शं! च गलोदयम्
मस्तकं चार्धभागं स्याच्छेषं तु तच्छिरोदयम् ५
कर्णहर्म्यादिसंयुक्तं सर्वालङ्कारसंयुतम्
ऐरावतमिति प्रोक्तं गन्ध स्कन्धोच्चसंवृतम् ६
तदेव विस्तृतार्धेन चतुर्दिक्षु समन्वितम्
निर्गमं तु यथायुक्तं चतुर्दिक्षु तलं भवेत् ७
एतत्तु भूतकान्तं स्यात्पञ्चभौमविदो विदुः
विशालेन त्रिपादेन पूर्ववद्भद्र संयुतम् ८
चतुर्दिक्षु तलं कुर्यात्कर्णहर्म्यादिमण्डितम्
विश्वकान्तमिति प्रोक्तमेवं पञ्चतलं विदुः ९
अथवा विस्तृतं तुल्यं चतुर्दिक्ष्वालयं स्मृतम्
तस्मात्त्रिभूलहर्म्यान्तं तद्द्वयोर्मूलदेशके १०
अन्तरालं प्रकुर्वीत पार्श्वे सोपानसंयुतम्
सर्वं प्रदक्षिणं कुर्याद्युक्त्या द्वारं प्रकल्पयेत् ११
मध्ये पञ्चचतुस्तद्द्वितलं पञ्चतलं भवेत्
मूर्तिकान्तमिति प्रोक्तं पूर्ववत्परिकल्पयेत् १२
तदेव हर्म्ये विदिक्ष्वेच तत्तन्मौलालयं भवेत्
गृहकान्तमिति प्रोक्तं पूर्ववत्परिकल्पयेत् १३
तद्बहिः परितो देशे कुर्यात्षोडशालयम्
गृहकान्तादिहर्म्येषु चतुर्दिक्षु समालयम् १४
पञ्चविशत्युपपीठं प्रोक्तं यमकान्तमेव प्रकथ्यते
तदेवं परितो बाह्ये चतुर्विंशतिरालयम् १५
गृहकान्तादिहर्म्येषु चतुर्दिक्षु समालयम्
महाकान्तमिति प्रोक्तमेतत्पञ्चतलं भवेत् १६
गृहकान्तादिहर्म्येषु चतुर्दिक्षु समालयम्
कुर्यात्तत्कल्याणमेतदिदं पञ्चतलान्वितम् १७
प्रासादार्धं समं वापि त्रिपादं वा समं तु वा
अन्तरालं विशालं स्यादथवा हस्तमानतः १८
त्रिचतुर्हस्तमारभ्य द्विद्विहस्तविवर्धनात्
नवपङ्क्तिकरान्तं स्यादन्तरालविशालकम् १९
अन्तराले यथायुक्त्या मण्डपाकारं विन्यसेत्
अथवा त्रिकूटयुक्तं वा मूलस्य मुखपार्श्वयोः २०
यज्ञकान्तमिति प्रोक्तमेकानेकतलान्वितम्
पञ्चषट्स्वेकभूमि स्याद्द्वितलं त्रितलं तु वा २१
पञ्चब्रह्ममिति प्रोक्तं सर्वालङ्कारसंयुतम्
एतदष्टविधं प्रोक्तं शेषं प्रागुक्तवन्नयेत् २२
शिखरादि यथाकारं चैकाकारं तु योजयेत्
सर्वेषां देवतानां च हर्म्यमेवं प्रकल्पयेत् २३
एतत्सर्वं हर्म्यके दिक्षु कूटम्
शालानासिकापञ्जराढ्यम्
नानारङ्गान्वितालिन्दयुक्तम्
पूर्वोक्तानां युक्तितः कारयेत्तत् २४
इति मानसारे वास्तुशास्त्रे पञ्चतलविधानं नाम त्रयोविंशोऽध्यायः