भूमिसङ्ग्रहविधानम्
भूपरीक्षाविधिं वक्ष्ये शास्त्रे सङ्क्षिप्यतेऽधुना
दक्षिणे पश्चिमे चैव चोन्नतं चतुरश्रकम् १
तद्वस्तु जायते वाऽपि देवानां मनुजः क्रमात्
तुरङ्गद्विरदं वेणुं वीणासाकरदुन्दुभिः २
धेनुभिश्च समायुक्तं किं च पुन्नागजातिभिः
सरसीरुहधान्यैश्च पाटलीपुष्पगन्धकैः ३
संयुक्तं सर्वबीजानां वर्धनं चैकवर्णयुक्
निविडा स्निग्धसंयुक्ता सुखसंस्पर्शना भवेत् ४
श्रीवृक्षनिम्बसे शोकैः संयुक्तं सप्तपर्णकैः
सूतैश्चापि वृषवृक्षैः संयुक्ता च समस्थले ५
धवलं रक्तवर्णं च स्वर्णं कृष्णं कपोतकम्
षडश्रैश्च समायुक्ता सर्वसम्पत्प्रदा धरा ६
दक्षिणावर्तसलिला दक्षिणाकारा वर्णनैः
मानवाञ्जलिमानेन दृष्टिनीला मनोहरा ७
कृमिवल्मीकरहिता निर्मूषी निष्कपालिनी
निरस्थि सूक्तिसिकतारन्ध्रवर्जा शुभावहा ८
पृथग्विधैश्च शूलैश्च स्थाणुभिश्च मही धृता
सकर्दमितवाराही विलेकं सरसंयुतम् ९
निस्तुषा निर्विभूतिश्च शर्करारहिता अपि
सा भूमिः ब्राह्मणादीनां वर्णानां सम्पदावहा १०
मधुतैलाज्यगन्धाश्च दग्धदुर्गन्धिनी च या
अण्डजमीनगन्धैश्च शवगन्धैश्च वर्जिता ११
नृपप्रासादसंयुक्ता सभाचैत्यसमीपगा
सकण्टकतरोर्युक्ता द्रुमशालसङ्कुला १२
कूर्मोन्नता वर्तुला च त्रिकोणं वज्रसन्निभा
अञ्जनानां गृहैश्छाया कर्मकारगृहैर्वृता १३
चतुष्पथा चैक पथा द्विपथा पत्तनौपथा
मृदङ्गसदृशं गर्तखगवन्मुखोपमम् १४
झषतोपमं चतुष्कोणा प्रभावृक्षकम्
सालैर्युक्तं चतुष्कोणैः चैत्यपादपसङ्कुलम् १५
महासर्पाश्रिता वाऽपि शालस्योद्यानमेव च
वराहमर्कटप्रायं रुद्र भूश्चाश्रमं तथा १६
उलूखलं काननानि पञ्चाकृतिशूर्पणम्
पाञ्चजन्यं खगप्रायविडाला खचरोपमा १७
वेश्म गौलिनिभिः चापि क्षुद्र जन्तूषरापि
वास्तुशास्त्रविदां विधानं तदेवं स्यादूर्जितम् १८
बहुद्वारप्रवेशं च वर्मविद्धं च वर्जयेत्
इत्थम्भूतेऽपि वास्त्वादौ मोहात्कर्म करोति यः १९
तदुष्कृतस्य निधात्तस्याद्विजशकाहरा
स हि सोदरवस्तु स्याद्वर्णिनी बहुरसा बहु २०
बीजाभिवर्धिनी मधुव्रतैर्मृगनाभिसुगन्धिनी
सकलशिल्पिवरैरपि वशोशृत्वा २१
इति मानसारे वास्तुशास्त्रे भूपरीक्षाविधानं नाम चतुर्थोऽध्यायः