वास्तुप्रकरणम्
तैतलाश्च नराश्चैव यस्मिन्यस्मिन् परिस्थिताः
तद्वस्तु सुरिभिः प्रोक्तां तथा वै वक्ष्यतेऽधुना १
धरा हर्म्यादि यानं च पर्यङ्कादि चतुर्विधम्
धरा प्रधानवस्तु स्यात्तत्तज्जातिषु सर्वशः २
विमानादीनि वास्तूनि वस्तुतं वस्तुसंश्रयात्
तान्येव वस्तुरे वेति कथितं वस्तुविद्बुधैः ३
प्रासादमण्डपं चैव सभाशालाप्रपां तथा
रङ्गमिति चैतानि हर्म्यमुक्तं पुरातनैः ४
आदिकं स्यन्दनं शिल्पि शिबिका च रथं तथा
सर्वैर्यानमिति ख्यातं शयनं वक्ष्यते तथा ५
पञ्चरं मञ्चली मञ्चं काकाष्टं फलकासनम्
तथैव बालपर्यङ्कं पर्यङ्कमिति कथ्यते ६
प्रोक्तं चतुर्विधं चैवमधिकारं धरादिभिः
आधारमपि भूतानामादित्याश्च जायते मही ७
आकारवर्णगन्धैः च रूपशब्दरसास्पृशः
एतान् परीक्ष्य क्रमशः सा भूमि माननिश्चया ८
यासौ भूमिरसौ ग्राह्या द्विजातीनां पृथक् पृथक्
तद्वस्तु चतुरश्रं च शुक्लवर्णेन संयुतम् ९
उदुम्बरतरोर्युक्तमुत्तरप्रवणं तथा
माधुर्यं च कषायं च ब्राह्मणानां शुभप्रदम् १०
विस्तारोष्टसमाधिक्यं रक्तवर्णेन संयुतम्
पूर्वप्रवणमातिक्तमश्वत्थद्रुमसंयुतम् ११
विस्तीर्णं भूभृतां योग्यं महि सम्पत्प्रदा भवेत्
विस्तारे तु षडंशेन माधिकायाम पीतयुत् १२
प्लक्षद्रुमयुतं पूर्वं प्रवणमम्लरसान्वितम्
वर्णजानां मही प्रोक्ता सर्वसिधिकरं शुभम् १३
चतुरंश विशाले तु चांशमाशाधिकमायतम्
वटवृक्षयुतं कृष्णवर्णं च कटुकारसम् १४
वस्तु तत्पूर्वके निम्नं शूद्रा णां तु शुभप्रदम्
तदुक्तं चोभयं मुख्यं मध्यमं चेति कथ्यते १५
मुख्यं भूमिरिति ख्यातं वस्त्वादीनि चतुःसमम्
वस्तुभेदमिति प्रोक्तं द्विजात्यादिषु वर्णयेत् १६
सर्वं योग्यं द्विजातीनां सुराणां च विशेषतः
भूपानां तद्विशां शूद्रैः! प्रागुक्तक्रमतो भवेत् १७
इति मानसारे वास्तुशास्त्रे वास्तुप्रकरणं नाम तृतीयोऽध्यायः