अथ द्विनवतितमः पटलः
चण्डिकेशलक्षणम्
अथ वक्ष्ये विशेषेण चण्डेशलक्षणं परम्
शूद्र स्यैव तु रूक्षांशः चण्डिकेश इति स्मृतः १
प्रथमावरणे चैव स्थानं कौबेरके भवेत्
अधमं दशतालं तु मानं चण्डेशमुच्यते २
तदादि चण्डमूर्तिस्तु युगं प्रतिविशेषतः
चिह्नान्वनामधा उह्य नामभेदं च भेदतः ३
कृते युगे प्रचण्डाख्यः श्वेतवर्णसमायुतः
दोर्भिः षोदशभिर्युक्तः वाहनं तु गजो भवेत् ४
शूलः च परशुः वज्रः खड्गः कोशः तथैव च
क्षुरिका चाभयं दण्डः दक्षिणाष्टायुधं भवेत् ५
खेटकं भिण्डिपालं च पाशं खण्डं तथैव च
वरदं व्याघ्रहस्तं च सूचिं नाहं च वामके ६
जटामकुटसंयुक्तं रुद्रा क्षाभरणान्वितम्
त्रेतायामष्टहस्तस्तु अतिरक्तसमप्रभम् ७
-——-नाम्ना तु सुविकीर्णजटान्वितम्
वाहनं तु हयं विद्यात्किञ्चित्प्रहसिताननम् ८
शूलं पाशं च खड्गं च परशुं दक्षिणे करे
वरदं खेटकं पाशं घण्टां वा गुडकं धृतम् ९
द्वापरे तु चतुर्थाभिः पादसिंहासनम्
जटामण्डलसंयुक्तं सदायज्ञे ——१०
दंष्ट्रारौद्र वदनं टङ्कं शूलं च लक्षणे
पाशं चाप्यङ्कुशं वामे भद्र पीठोपरिस्थितः ११
कलौ तु द्विभुजांशांशं जटामकुटमण्डितम्
जटामकुटसंयुक्तं केशबन्धमथापि वा १२
कृष्णाभं पादरक्ताभं सौम्यनेत्राननान्वितम्
आभङ्गमनुभङ्गं वा सम्पादस्थानकं तु वा १३
भङ्गं चेद्दक्षिणं पादं कुञ्चितं चतुरङ्गुलम्
अथवा दक्षिणं पादं सुस्थितं वाथ कुञ्चितम् १४
ख्यातं चण्डेशनाम्ना तु स्थानकं वासनं तु वा
आसनं चेत्तु वामाङ्घ्रिं शाययेदस्य लम्बयेत् १५
टङ्कहीनन्तु वापुष्पमालयाञ्जलिवाधृतः
ईशदक्षिणपार्श्वे तु प्रभीताननमेव हि १६
पादावासं वा वृषभं स्यात् श्वेतपत्रवर्णयुक्
एवं चतुर्विधं चापि चण्डेशमभिधीयते १७
कन्यसं दशतालेन सर्वाङ्गं परिकल्पयेत्
चण्डेशलक्षणं प्रोक्तं भूमिमानमथ शृणु १८
इति काश्यपशिल्पे चण्डिकेशलक्षणं नाम
द्विनवतितमः पटलः समाप्तः
इति काश्यपशिल्पे लिङ्गबेरलक्षणं नाम द्वितीयो भागस्समाप्तः