अथैकनवतितमः पटलः
भक्तलक्षणम्
अथ वक्ष्ये विशेषेण भक्तानां लक्षणं परम्
सर्वेषामपि भक्तानां पदं चतुर्विधं भवेत् १
सालोक्यं चैव सामीप्यं सायुज्यं च तथैव च
सारूप्यं च पदं विप्र चतुर्भेदमुदाहृतम् २
पुमांसो वा स्त्रियो वाथ तेषु यत्पादमाश्रितम्
तत्तत्पादानुकूल्यं वा सालोक्यपदमाश्रितम् ३
सजाति चिह्नसंयुक्ताः सालोक्यपदमाश्रिताः
तदंशसंयुतास्त्वन्ये शेषास्तत्पदमाश्रिताः ४
बालायुवानो वृद्धाश्च त्रिविधास्ते प्रकीर्तिताः
त्रिवर्षादिकलाब्दान्तं वयसा बालसञ्ज्ञिताः ५
ततस्सप्ततिवर्षान्तं वयसा यौवनामताः
तदूर्ध्ववयसोपेताः वृद्धास्तु परिकीर्तिताः ६
बालानां पञ्चतालः स्याशेषाणां वसुतालकम्
स्थानकं चासनं चैव यानं नृत्तं तथैव च ७
एवं चतुःप्रकारेण कर्तव्यं मानुषात्मकम्
आभङ्गं समभङ्गं वा स्थानकं तु समाचरेत् ८
सव्यं वामस्य पादं तु कुञ्चितं त्वितरत्स्थितं
हस्तौ जान्वञ्चितौ कृत्वा हृदयेञ्जलिकं त्वथ ९
लम्ब्यं दक्षिणपादं तु हस्तं पूर्ववदेव हि
स्वजातिचिह्नसंयुक्तं पञ्चमुद्रा समन्वितम् १०
हृदयाञ्जलिसंयुक्तं कटकं वरदं त्वथ
स्थानकं ह्येवमाख्यातमासनं शृणु सुव्रत ११
पद्मे वा भद्र पीठे वा वामपादं तु सुस्थितं
दक्षपादं कुञ्चितं च हस्तं पूर्ववदेव हि १२
आसनं ह्येवमाख्यातं ततो यानं वदाम्यहम्
टङ्कं दक्षिणहस्ते तु पाशं वामकरे धृतम् १३
अथवा दक्षिणे चापं धनुश्च वामहस्तके
गमनोत्सुकवत्कल्प्यं यानमूर्तिः द्विजोत्तम १४
नृत्तं त्रिविधमुद्दिष्टं सात्विकं राजसं तथा
तामसं चेतिविख्यातं क्रमात् बालान्तरान्तकम् १५
वयसोपेतभक्तानां योग्यमित्युदितं मतम्
तेष्वादौ सात्विकं नृत्तं वक्ष्येहं शृणु सुव्रत १६
भक्तानामुदयं चापि कल्प्यं मानोक्तवत् भवेत्
कल्प्यमष्टाङ्गुलं पादनतमानं विधीयते १७
स्थानकं वामपादं तु पदपीते तु सुस्थितम्
उद्धृतं दक्षिणं पादं पीठाद्वे वेदमात्रकम् १८
पञ्चषट्सप्तमात्रं वा उद्धृताङ्घ्रेस्तु मानकम्
तत्समं ब्रह्मसूत्रात्तु तदर्धाङ्गुष्ठानकम् १९
ललाटमध्यान्नासाग्रे हिक्कामध्ये तथैव च
स्थिताङ्घ्रिनळकामध्ये ब्रह्मसूत्रं प्रलम्बयेत् २०
तत्सूत्रात् वामतो नाभिमध्यं सार्धाङ्गुलं भवेत्
सूत्रात्स्थिताङ्घ्रिजान्वन्तं ——२१
ललाटात् गुल्फान्तसूत्रान्तरमक्षसूत्रां लम्बयेत्
नासाग्रमुदरं मध्यं तत्सूत्रं संस्पृशेदपि २२
अथवा दक्षिणं पादं पीठस्थितां नवक्रमम्
उन्नतं वामपादं तु शेषं तदनुकारितम् २३
सर्वाभरणसंयुक्तं जालं चेन्नग्नमेव वा
नानामालासमायुक्तं नानावस्त्रविभूषितम् २४
सात्विकं नृत्तमाख्यातं राजसं शृणु सुव्रत
शुचिर्विना तदस्तात्ते वक्रपिण्डं तु वाञ्जलिः २५
दशनन्दाष्टमात्रं वा पीठाद्वातो क्रमात् भवेत्
शेषं प्रागिव कर्तव्यमेवं राजसमेव हि २६
दण्डहस्तं विना वापि हस्तं वा –स्पृशेत्
दण्डदक्षिणहस्ते तु दृक् पतीन्नताननम् २७
एकं द्वित्रिपादं वा मात्रं वामे दृत्य सम्भवम्
भस्मोद्धूळितसर्वाङ्गमक्षमाल्यैरलङ्कृतम् २८
तामसं ह्येवमाख्यातमेवं स्यात् भक्तलक्षणम्
प्रणवाद्यं नमोन्तं च स्वनाम पदमध्यमम् २९
भक्तानां मन्त्रमाख्यातं तेनैवार्चनमारभेत् ३०
इति काश्यपशिल्पे भक्तलक्षणं नाम एकनवतितमः पटलः समाप्तः