९०

अथ नवतितमः पटलः
वर्णलेपनविधिः
अथ वक्ष्ये विशेषेण वर्णलेपनमुत्तमम्
शैलेष्टकदारुगर्भं त्रिविधं वर्णलेपनम् १
शैलजे वर्णलेपार्थे महाङ्गादिशिलामयम्
उपरिष्टात्पटमाच्छाद्य तस्योर्ध्वं शर्करां लिपेत् २
तदूर्ध्वं चिक्कणं लिप्य श्वेतवर्णादयस्ततः
बिम्बोचितं प्रलिप्याथ प्रतिष्ठां सम्यगाचरेत् ३
अथवाशैलजे बिम्बे पटाच्छादं विनोर्ध्वतः
शर्करां यवमानं तु लिप्यचिक्कणलेपनम् ४
श्वेतं च बिम्बवर्णं च क्रमेणैवोपलेपयेत्
शिलागर्भमिदं ख्यातं वर्णभिन्नाश्मभेदतः ५
शूलस्थापनकर्मादि दारुगर्भं तु पूर्ववत्
चित्रं वाप्यर्धचित्रं वा पार्श्वेष्टकसुधान्वितम् ६
अङ्गसम्पूरणं कृत्वा पटमाच्छादयेत्ततः
शर्करादीनि सर्वाणि शैलजे तु यथा तथा ७
कर्तव्यमिष्टकागर्भं तद्दारुमिश्रकं तु वा
एवं त्रिविधनित्यं तु वर्णगर्भमुदाहृतम् ८
आदौ श्वेतनिभं लिप्य सर्वस्य स्वसमैः जलैः
क्रमेण श्वेतवर्णं तु त्रिभक्त्या वा तु लेपयेत् ९
तदूर्ध्वं पाण्डुरं वर्णं लेपयेत् द्विजसत्तम
सितबिम्बनिभं चैव समं मिश्रं तु पाण्डुरम् १०
सितवर्णं तु बिम्बानां मधुवर्णनिभं भवेत्
रक्तफेननिभं यत्तत्पाण्डुवर्णं प्रकल्पितम् ११
बन्धं स्वच्छं च मध्यं च मेदुरं च त्रिधा भवेत्
कपित्थनिर्यासेनैव त्रिसन्ध्यं तु प्रकल्पयेत् १२
स्वच्छं तैलोपमं ख्यातं मध्यमं मधुसादृशम्
तरुणं दधिसादृश्यं स्निग्धं द्रो णदरं भवेत् १३
मेदुरेण भवेच्छिष्टं त्वेवं सन्धानमाचरेत्
कल्कमर्दनकार्यं तु कारयेन्मध्यवारिणा १४
कल्कं स्वच्छजलेनैव पेषणं तु समाचरेत्
सुधाकर्मजलोपेते महापेमेषचर्मयोः १५
पर्यासारं तु बद्धं स्यात् जलपाद्यर्हका भवेत्
जलपत्तिविना यत्र कापित्थजं द्विज १६
निर्यासजलसम्बन्धमुक्तमन्यन्न कारयेत्
कल्कं षोडशधाभज्य षट्पञ्चचतुरं तु वा १७
कपित्थनिर्यासेनैव स्वच्छं नैव जलं भवेत्
सकृत् चिक्कणलेपं तु कारयेत् द्विजसत्तम १८
चिक्कणं कल्कसारं च द्विविधं चिक्कणं भवेत्
जलपात्रं सुधाकुम्भे चिक्कणं शर्करद्र वम् १९
चिक्कणं द्विविधं चैव कल्पयेत्तु यथोचितम्
चिक्कणं कल्पबन्धं तु दशभागविभाजिते २०
एकांशरहितं बन्धं शिलालेपनयोग्यकम्
चिक्कणे बन्धतुल्यं वा सितलेपनकर्मणि २१
सितबन्धसमं वाथ तद्विंशांशविहीनकम्
एवं वर्णस्य बन्धस्य त्रिः कृत्वः पाण्डुलेपनम् २२
षड्वर्णं तु ततो लेप्यं यथा क्रमेण देशिक
बिम्बसर्वतवर्णं तु षट्कृत्वः संलिपेत्तथा २३
पाण्डुवर्णं तु विंशांशे त्वंशहीनं तु वर्जयेत्
षट्पदादिकवर्णस्य बन्धमित्युच्यते मया २४
तदाणीं वर्णबन्धं तु विंशांशेंशविहीनकम्
द्वितीयं वर्णबन्धं स्यात्तन्वतत् बन्धनं ततः २५
षण्णामपिसवर्णाद्या बन्धमेवं क्रमोन्नतम्
प्रथमेत्युच्यते बन्धे षड्विधं च लिपेत्क्रमात् २६
पत्रं च रहितं बिन्दुं धूपमुद्वर्तनं तथा
प्रवर्तनं षडेतानि वर्णलेपक्रमं विदुः २७
दीर्घपत्रमिति ख्यातं ततोन्यच्च द्विभाजितम्
सर्षपास्तरणं यद्वत्तदिदं बिन्दुरुच्यते २८
सूक्ष्मबिन्दुस्तु धूपं स्यात्तस्माद्वै सूक्ष्मबिन्दुवत्
उद्वर्तनं समाख्यातं ततस्सूक्ष्मं प्रवर्तनम् २९
स्वर्णचूर्णसमायुक्तं वर्णलेपप्रवर्तकं
षड्वर्णक्रममेवं हि लेपयेत्तु परस्परं ३०
इति काश्यपशिल्पे वर्णलेपनविधिर्नाम नवतितमः पटलः समाप्तः