अथैकोननवतितमः पटलः
वर्णसंस्कारलक्षणम्
सुधाकर्मार्हकं वर्णं वक्ष्येहं द्विजसत्तम
पीताभमश्मपीतं स्यात्तादृशं चूर्णवत्कृतम् १
नारिकेळोदकैर्मिश्रं दाहे रक्तनिभं भवेत्
तत्सुधाकर्मरक्तं स्यात् शङ्खं दग्धं सितं भवेत् २
राजावर्तं च श्यामं च पाषाणौ द्वौ च पूजितौ
इतराभा न शस्ताः स्युः सुधाकर्मसु सुव्रत ३
अथ संस्कारवर्णांस्तु वक्ष्येहं द्विजसत्तम
सितं रक्तं समं मिश्रं गौरवर्णमुदाहृतम् ४
सितं पीतं समं मिश्रं यत्तत्कर्बुरकं भवेत्
सितं कृष्णं समं मिश्रं धूम्रवर्णमुदाहृतम् ५
श्वेतं कृष्णं च पीतं च समभागं तु मिश्रितम्
सारश्छविरिदं ख्यातं वर्णकर्मसुचोदितम् ६
श्वेतं रक्तं च पीतं च मिश्रकं समुदाहृतम्
रक्तं पीतं च कृष्णं च समभागं तु मिश्रितम् ७
-—–रक्तं पीतं समं मिश्रं वकुळस्य फलाकृतिः ८
ज्वलनच्छविराख्यातमग्निवर्णमिदं परम्
पीतस्य द्विगुणं रक्तं मिश्रं तत्त्वतिरक्तकम् ९
उभयोः समयोगेन वर्णमेवमुदीरितम्
रक्तस्य द्विगुणं विषमिश्रितं गुलवर्णकम् १०
पीतस्य च तदर्धं तु मिश्रितं कपिलं भवेत्
सितवेदांशरक्ताढ्यं खर्परस्य समं भवेत् ११
तदेवा निलमाधिक्य धान्याङ्कुरमुदाहृतम्
श्यामार्धं हरितालं च कुङ्कुमं हरितार्धकम् १२
मिश्रितं स्यात्सस्यमस्याः कृष्णं लाक्षं च सम्मितम्
जम्बूफलसमं त्वेतत् वर्णमित्युच्यतेऽथवा १३
जातीफलसमं लाक्षासारं लोहितमुच्यते
कृष्णं नीलं समं मिश्रं केशवर्णमुदाहृतम् १४
सस्य श्यामं च रक्तं च मिश्रं माञ्जिष्ठवर्णकम्
कृष्णं पीतं समं मिश्रं मधुवर्णमुदाहृतम् १५
कृष्णस्य द्विगुणं पीतं मानुषं वर्णमुच्यते
मानुषं रक्तमधिकं हरितं समुदाहृतं १६
निहोपेतदात्रवण–मुदाहृतम्
तेषु यन्नस्यमल्पेन बहुमानं समन्वितम् १७
बाहुसामेति तत्ख्यातं द्र व्याल्पेन समन्वितम्
अल्पसारमिदं ख्यातं सलेपा कल्पितं विदुः १८
वर्णानामानुकूलस्य सममेव समाश्रितम्
कृष्णस्य द्विगुणं रक्तं मिश्रितं तु कषायकम् १९
श्वेतस्य द्विगुणं श्वेतं मिश्रितं पिङ्गळं भवेत्
श्वेतस्य त्रिगुणं पीतं मिश्रं कह्लारसन्निभम् २०
कृष्णस्य द्विगुणं पीतं मिश्रितं चाम्बुसन्निभम्
तदेव नृणां वर्णं स्यात्कृष्णं पीतसमं तु वा २१
हरिताळं समं कृष्णं शुकपक्षसमं भवेत्
तदेव पीतमधिकं धान्याङ्कुरसमं भवेत् २२
श्यामार्धं हरितालं च कुङ्कुमं च तदर्धकम्
मिश्रितं सस्य श्यामं स्यात्कृष्णं लाक्षासमन्वितम् २३
जम्बूफलसमानं तु वर्णमित्युच्यते मुहुः
शाली लिङ्गसमं लाक्षासारं लोहितमुच्यते २४
लोहितं रक्तमधिकं वर्णं रूक्षं हरीतकम्
कृष्णं नीलं समं मिश्रं केशवर्णमुदाहृतम् २५
सस्य श्यामं मन्दरक्तं मिश्रं माञ्जिष्ठवर्णकम्
कृष्णं रक्तं समं वर्णं मधुवर्णमुदाहृतम् २६
तदेव रक्तमाधिक्य मानुषं वर्णमुच्यते
स्याद्र क्तमधिकं वर्णं रूक्षं वर्णं हरीतकम् २७
तस्माच्छामनिभोपेतं सूत्रवर्णमुदाहृतम्
वर्णानामानुकूल्यं तु सारमेवं समश्रितम् २८
श्वेतं रक्तं च पीतं च समं सारमुदीरितम्
श्वेतं कृष्णं च पीतं च समं मिश्रं तु मिश्रकम् २९
कृष्णात्तु द्विगुणं रक्तं मिश्रितं तु कषायकम्
कृष्णस्य द्विगुणं पीतं मिश्रितं नीरसन्निभम् ३०
कृष्णं पीतं समं मिश्रं तृणवर्णमुदीरितम्
हरितालं च श्यामं च समांशं शुकपक्षवत् ३१
ताळाधिकं तदेव स्यात् धान्यां कुरसमप्रभम्
कृष्णं रक्तं समं मिश्रं मधुवर्णमुदीरितम् ३२
सस्य श्यामं च रक्तं च समं माञ्जिष्ठवर्णकम्
तदेव रक्तमधिकं मानुषं वर्णमीरितम् ३३
मानुषं रक्तमधिकं रूक्षवर्णमुदाहृतम्
तस्मात् श्यामनिभोपेतं नात्रवर्णमुदीरितम् ३४
बहुद्र व्यसमायुक्तं बहुसारमुदीरितम्
अल्पद्र व्यसमायुक्तमल्पसारमुदाहृतम्
सारं वर्णानुकूलं तु मिश्रयेत् वर्णवित्तमः ३५
इति काश्यपशिल्पे वर्णसंस्कारलक्षणं नाम
एकोननवतितमः पटलः समाप्तः