अथाष्टाशीतितमः पटलः
वर्णसंस्कारलक्षणम्
अथ वक्ष्ये विशेषेण वर्णसंस्कारलक्षणम्
शिवात्परमसद्भावात् अव्यक्तं शान्तिसम्भवम् १
शिवात् शक्तिः समुत्पन्ना तस्यानादस्समुत्थितः
तस्माद्योमसमुत्पन्नं तस्मादनिलसम्भवः २
अनिलादग्निसम्भूतिः तस्माद्वै जलसम्भवः
तस्मात्तु पृथिवी जाता भूतेभ्यो वर्णसम्भवः ३
श्वेतं रक्तं तथा पीतं कृष्णं चेति चतुर्विधम्
जले श्वेतं समुत्पन्नमग्नौ रक्तं समुद्भवम् ४
भुवि पीतं समुत्पन्नं वायौ कृष्णं समुत्थितम्
विष्णुर्महेश्वरो गौरी रुद्रो वर्णाधिपाः क्रमात् ५
विप्र क्षत्रियविट् शूद्राः सितवर्णादयः क्रमात्
श्वेतं रक्तं च पीतं च कृष्णं चैव चतुर्विधम् ६
श्वेतं शुक्लं च धवळमवदातं चतुर्विधम्
मुक्ताभं चन्दुवर्णाभं श्वेतवर्णं द्विधामतम् ७
शङ्खवर्णसमं शुक्लं वर्णमित्युदितं बुधैः
रजताभं च गोक्षीरसदृशं धवळं भवेत् ८
तारकासदृशं वर्णमवदातमुदाहृतम्
अरुणं रक्तं शोणं च पाटलं च चतुर्विधम् ९
करुणं शशरक्ताभं जपापुष्पाभं रक्तकम्
शोणं किंशुकपुष्पाभं लाक्षासारं तु पाटलम् १०
स्वर्णं पिशङ्गं पीतं च हरितं च चतुर्विधम्
स्वर्णवर्णवपुं पुण्ड्रं पिसङ्गजनिसारवित् ११
हरितालं च पीतस्य हरितं रज्जुमन्त्रवत्
नीलं श्यामं च कालं च कृष्णं चैव चतुर्विधम् १२
मेघवर्णसमं नीलं श्यामं वै वनवायसम्
शिखिवर्णनिभं कालं कृष्णं भ्रमरपत्रवत् १३
एवं षोडशभेदेन वर्णानि स्युः स्वतन्त्रतः
धरणी जसमुच्छिष्टं रक्तं त्रासाग्रसम्भवम् १४
अथवा जातिलिङ्गाभं रक्ताभासं द्विधा मतम्
गोदावर्यां तु सम्भूतं हरितालमुदाहृतम् १५
अतसी पुष्पसङ्काशं राजावर्ताश्वमुच्यते
श्यामपाषाणसारं तु श्याममित्यभिधीयते १६
दीपोद्भूतरजो वर्णं कृष्णवर्णमुदाहृतम्
एवमादिकलावर्णाः तस्मिन् तस्मिन्ननेकधा १७
श्वेतं च लाक्षासारं च द्वीपोद्भवरजस्तथा
पद्माभं चैव नीलाभं धातुरित्यभिधीयते
एवं स्वतः प्रधानं तु वर्णं बिम्बार्हकं मतम् १८
इति काश्यपशिल्पे वर्णलक्षणं नाम अष्टाशीतितमः पटलः समाप्तः