८७

अथ सप्ताशीतितमः पटलः
कल्कसंस्कारविधिः
अथ कल्कविधानं तु वक्ष्ये सङ्क्षेपतः क्रमात्
नद्यां वापि तटाके वा दीर्घकायामथापि वा १
सस्यक्षेत्रेथवा विप्र प्राणिरूपे जले भवेत्
सुदृढा शुद्धजलजा स्थूलवालुकमुद्रि ता २
सङ्ग्राह्या शर्करा ह्येषा तस्याः प्रक्षाळनं कुरु
शर्कराशोषणं कृत्वा सूक्ष्मचूर्णं तु तत्कुरु ३
त्रिफलोदेन सम्मिश्र्य पिण्डं कृत्वा तु शोषयेत्
कपित्थनिर्यासजलं त्रिविधं प्रोच्यते द्विज ४
निर्यासस्य पञ्चगुणं सार्धपञ्चाथ षड्गुणम्
स्रुवं स्वच्छं च सेकं च त्रिविधं च क्रमोदितम् ५
स्वच्छसेकजलैः पिण्डं पेषयेन्नवनीतवत्
कार्पासतूलकैश्चापि मृदं सम्मिश्र्य पेषयेत् ६
कल्कं भिन्नं तु यत्तत्तु कदळी भिन्नदण्डवत्
एतत्कल्कं समालिप्य प्रथमं कल्कमीरितम् ७
निर्यासत्रिगुणं सार्धत्रिगुणं च चतुर्गुणम्
मध्यबन्धजलं ह्येवं त्रिविधं परिपठ्यते ८
तेष्वन्तिमजलाभ्यां तु मर्दयेत्तु पुनः पुनः
क्रमेण लेपयेत्कल्कं द्वियवं त्रियवं घनम् ९
शनैस्तु लेपयेत्कल्कं भिन्नच्छिद्र विवर्जितम्
द्विमासं सार्धमासं वा मासं वा शोषयेत्ततः १०
कूर्चं न्यस्त्वा ततो विप्र पेषयेदण्डजैः क्रमात्
ततः स्वच्छजलैः कल्कं प्रमाणान्तं तु लेपयेत् ११
बहुकृत्वा प्रमाणं तु शोध्यमानं समं नयेत्
अङ्गोपाङ्गं च प्रत्यङ्गं कल्पयेत् लक्षणान्वितम् १२
महाङ्गमङ्गं चोपाङ्गं प्रत्यङ्गं च चतुर्विधम्
महाङ्गं तु शिरः प्रोक्तं गळं च हृदयोदरम् १३
मेढ्रं चाङ्गमिति प्रोक्तं पादं करमुपाङ्गकम्
प्रत्यङ्गं भूषणं प्रोक्तं षडङ्गं कल्पयेत्क्रमात् १४
कपित्थस्य तु निर्यासात्सार्धद्वित्रिगुणाम्भसा
पटाच्छादं तु कर्तव्यं कल्कमालेपयेत्ततः १५
कल्कालेपं यवाष्टांशं दशाहानन्तरं ततः
निर्यासतोयं कूर्चेन सम्यगालक्ष्य लेपयेत् १६
मण्डनानि तदूर्ध्वं तु मण्डयेत् लक्षणान्वितम्
पश्चात्कल्कं समालिप्य श्वेतं वर्णं प्रलेपयेत् १७
इत्येवं कल्कसंस्कारः सम्प्रोक्तः सकलस्य तु १८
इति काश्यपशिल्पे कल्कसंस्कारविधिर्नाम
सप्ताशीतितमः पटलः समाप्तः