अथ षडशीतितमः पटलः
मृत्संस्कारविधिः
मृत्संस्कारमहं वक्ष्ये सङ्क्षेपात् शृणु सुव्रत
जाङ्गलं जानुरूपं च सम्मिश्रं मृत्त्रिधा भवेत् १
अशक्यं खननेऽत्यन्तं सुदृढं जाङ्गलं भवेत्
तनुवालुकसंयुक्तमक्लेशात्खननक्षमम् २
त्रिहस्तं मनोरमं यत्तु दृष्टं तदनुरूपकम्
तयोर्मिश्रमिवाकारं मिश्रकं तदुदाहृतम् ३
तेष्वशोष्यजलोपेतशुद्धभूमौ मनोरमे
नदी कीरे कटाके वा श्वेतासृक्पीतकृष्णलम् ४
पङ्कं सङ्गृह्य पात्रेषु जलमास्रावयेत्तु वा
पात्रस्थं शोषयेत्पङ्कं यावदल्पदृढं भवेत् ५
तावद्र क्ष्य चतुर्क्षीरवृक्षत्वगुद्भवैर्जलैः
खदिरार्जुनतोयैश्च पात्रे पङ्कं तु मर्दयेत् ६
ततः पिण्डक्षमं यावत्तावत्संशोषयेत्पुनः
त्रिफलोषिताम्भसा विप्र मर्दयित्वा तु शोषयेत् ७
ईषत्द्र वसमायुक्तं पिण्डं कृत्वा तु तन्मृदा
पिण्डे हस्ततलरेखा यथादृश्या तथा कुरु ८
यवताराष्टकोणाढ्यं कल्प्यमानं तलेन तु
रुद्रा गुं!लपरीणाहं प्रस्थमुक्तं मुदाहृतम् ९
सिकतं च शिलाचूर्णं सदृशं कल्पयेत् बुधः
मृत् चतुर्थांशमात्रं तु योजयेत्तु मृदा सह १०
मर्दयेत्त्रिफलातोयैः दशाष्टसप्तवासरम्
यवं गोधूमकं माषमतसीपुष्पसन्निभम् ११
मृदष्टांशं समायोज्य नारिकेळफलोदकैः
पात्रे तु मर्दयेत्सम्यक् दशाहं तु तलेन वै १२
श्रीवेष्टं गुग्गुलं चैव कुन्दुरुष्कं तथैव च
तथा सर्जरसं चूर्णं मृत्कलांशं शिवांशकम् १३
पात्रे मृदा समायोज्य दधिनामर्दयेत्सुधीः
शुण्ठी च पिप्पली चैव मरीचं रजनी तथा १४
समं चूर्णं तु संयोज्य मृद्दशांशं तु योजयेत्
मधुक्षीरघृतैरेव मृदा पात्रे तु मर्दयेत् १५
कपित्थबिल्वनिर्यास चूर्णौ द्वौ समतां कुरु
मृदे पञ्चदशांशे वा तैलचूर्णसमायुतम् १६
मर्दयेत्क्रमसाम्यार्थं कुष्ठगैरिकतालकम्
चन्दनागरुकर्पूरगोरोचनाश्च तत्समम् १७
चूर्णं कृत्वा तु सङ्ग्राह्यं मृत्त्रिंशांश समन्वितम्
अतसीस्नेहसंयुक्तं मर्दयेत् देशिकोत्तमः १८
सुवर्णरजतं चूर्णं यथालाभं तु योजयेत्
दिग्दिगन्नादिसस्यादिसागरे च हलस्तले १९
गजदन्ते वृषशृङ्गे गोमृगैश्च विशेषतः
संयोजयेत् यथालाभं नानागन्धसमन्वितम् २०
कपित्थनिर्यासजलैः मधुना वाथ मर्दयेत्
पञ्चरात्रोषितं कुर्यात् नारिकेरफले तथा २१
त्वक्सारं परिगृह्याथ एकसार्धद्वयाङ्गुलम्
सार्धद्व्याङ्गुलं वाथ सारेण सेचयेत् बुधः २२
मृच्चतुर्थांशसंयुक्तं मृल्लेपं तु समाचरेत्
रज्जूपरिमृदं लिप्य ततोपि रज्जुवेष्टयेत् २३
तत्र रज्वन्तरं विप्र एकद्वित्र्! यङ्गुलं भवेत्
ततो वै मृत्समालिप्य यावत् शोषणकं द्विज २४
तावत् निरीक्ष्य कर्तव्यं मृल्लेपं तु शनैश्शनैः
शूलबाह्यगतव्यासं चतुर्भङ्गविभाजिते २५
एकांशावधिकं लिप्य अनुरूपमुदाहृतम्
द्व्यंशावशतमिश्रं स्यात् भागेन त्वनलावधि २६
तत्तद्देशमृदे नैव तत्तद्योग्यं समालिपेत्
शेषं कालेन सम्पूर्यं वेदं शेषं सवल्कलम् २७
शेषं कार्पासतन्त्वादियुक्तं कल्के तु कल्पयेत्
मृत्संस्कारमिदं ख्यातं कल्पसंस्कारमुच्यते २८
इति काश्यपशिल्पे मृत्संस्कारलक्षणं नाम
षडशीतितमः पटलः समाप्तः