अथ पञ्चाशीतितमः पटलः
रज्जुबन्धनविधिः
अथ वक्ष्ये विशेषेण रज्जुबन्धं सविस्तरम्
सर्वासु शूलसन्धासु ताम्रपत्रैः सुवेष्टयेत् १
शूलेऽष्टबन्धमालिप्य रज्जुबन्धं ततः कुरु
श्रीवेष्टकं दुरुष्कं च गुग्गुलं च गुडं तथा २
सर्जकं गैरिकं तैलं घृतं चाप्यष्टबन्धनम्
श्रीवेष्टकं चतुर्भागं कुन्दुरुष्कं गुणांशकम् ३
गुग्गुलं पञ्चभागं च एकांशगुळमुच्यते
सर्जकं चैव वस्वंशं गैरिकं तु गुणांशकम् ४
षडेतत्सूक्ष्मचूर्णं तु कृत्वाज्यतैलमिश्रितम्
मृत्पात्रे तु विनिक्षिप्य पचेत्क्षौद्रा दिकं वरम् ५
तथैव शूलमालिप्य रज्जुबन्धं ततः कुरु
रज्जुबन्धेनाभिमध्यात् नाड्यस्तूर्ध्वगताः त्रिधा ६
सुषुम्ना मध्यमाख्याता पिङ्गळा तस्य दक्षिणा
इडावै वामभागस्था प्रधानेनोर्ध्वगास्त्विमाः ७
द्व्यङ्गुलं तु परीणाहयुक्तास्तावै त्रिवर्तिकाः
तेषां नाडी त्रयाणां तु मूलं मेढ्रावसानकम् ८
मेढ्रमूलविभिन्नास्तु नाडयोष्टादश स्मृताः
विमला घोषिणी पृथ्वी वाहिनी चैव तेजनी ९
वायसी गमनी चैव मर्दिनी घोषिणी तथा
रसवर्तमृदङ्गी च स्रंसिनी च तथैव च १०
शब्दस्पृशाङ्गी पूर्णा च सुसिंही वारिधारिणी
वाहिनी तामसीख्याता त्रिषट्सङ्ख्या विधानतः ११
प्रत्येकं त्रियवव्यासाः त्रित्रिवर्त्यः त्रिवर्त्मगाः
तास्वाद्या रसनाड्यस्तु सव्यपादोरुमूलगाः १२
ऊरुमूलं समावृत्य परीता नळकान्तकम्
लम्बितास्ते समाख्याताः सावैपिङ्गळमूलकं १३
शब्दादीनि तु षट्सङ्ख्याळडा मूले समुद्भवाः
एषां वै रसनाडीनां वामपादे तु सव्यवत् १४
नळकाग्रैवमावृत्य षण्णामग्रैकवर्तिता
सुषुम्नामूलगाः शेषाः वंशपार्श्वाङ्गरोहिताः १५
पक्षदण्डोपरिष्टात्तु तिर्यक् बाहुगतास्त्विमे
गमनी मर्दनी चैव रोहिणी दक्षिणे करे १६
रसवर्ती मृदङ्गी च स्रंसिनी वामबाहुका
बाहुमूलं समावृत्य त्रिष्वग्रं चैकवत् भवेत् १७
तस्याग्रे दष्टशाखासु दक्षिणेऽदक्षिणे तथा
बाहुमूलं तथान्तं तु नाडयोष्टौ प्रसारिताः १८
तदग्राण्येकतां प्राप्य बन्धैकप्रवणानि च
एवं वामे तु दृष्टं स्याद्धस्तं प्रणवमाचरेत् १९
एवं हि प्रतिमानां तु नाडीनामष्टविंशतिः
प्रधाना नाडयस्त्वेवं कल्पयेत्तन्त्रवित्तमः २०
ततो भिन्नास्तथा विप्र अष्टाष्टौ नाडयस्तथा
ताभ्यस्त्वनेकधा नाड्यः सर्वाङ्गं तु समावृताः २१
चतुस्सप्तसहस्रं तु नाडयः परिकीर्तिताः
नाडिहस्तावृताः शूलाः जीर्णकः शूलपात्रवत् २२
नारिकेळफले पक्वे अत्यल्पसलिलान्विते
चर्मसारं गृहीत्वा तु सारादन्यत् व्यपोह्य च २३
नाडयश्चापि सङ्कल्प्य पश्चादावृतनाडिकाः
षड्यवं तु परीणाहं रज्जुमापादयेत् दृढम् २४
पश्चान्नीरन्ध्रकं रज्जुं बन्धयेत् दक्षिणावृतम्
हृत्पद्मं साष्टपत्रं तु रज्जुना बन्धयेत् बुधः २५
तस्य नाळं तु नाभ्यन्तं योज्यं सुषुम्नया सह
जीवस्थानं तु तत्पद्ममित्युक्तं हि मयाऽधुना २६
मूलमन्त्रमनुस्मृत्य रज्जुबन्धं ततः कुरु
रज्जुबन्धमिति ख्यातं मृत्संस्कारमतः परम् २७
इति काश्यपशिल्पे रज्जुबन्धनलक्षणं नाम
पञ्चाशीतितमः पटलः समाप्तः