अथ चतुरशीतितमः पटलः
शूलस्थापनविधिः
अथ वक्ष्ये विशेषेण शूलस्थापनमुत्तमम्
कर्षणोदितमासे च ऋक्षे वारे सुलग्नके १
निश्चित्य स्थापनं तस्य पुरः कृत्वाङ्कुरार्पणम्
प्रासादस्याग्रतो देशे मण्डपं चतुरश्रकम् २
पञ्चसप्तकरं वाथ नव हस्तमथापि वा
पङ्क्तिहस्तसमायुक्तं षोडशस्तम्भभूषितम् ३
तलमष्टाङ्गुलोत्सेधं पङ्क्तिव्यासाङ्घ्रितुङ्गकम्
यथालाभपरीणाहं वक्रकं निर्व्रणं दृढम् ४
वलयं वंशनासाढ्यं नाळिकेरफलादिभिः
स्थापयेत्तु विधानेन मुक्ताग्रं दर्भमालिकम् ५
तरङ्गवेष्टनोपेतं वरतोरणसंयुतम्
चतुर्द्वारसमायुक्तं स्तम्भवेष्टनसंयुतम् ६
चतुर्द्वारं विनान्यत्र निश्छिद्रं जालकं तु वा
मण्डपस्य त्रिभागैकं वेदिकोदयमुच्यते ७
गुणाङ्गुलं विशालोच्चं मध्यायोद्धतपेटिका
दर्पणोदरसङ्काशं कृत्वा रूपं दृढं लिखेत् ८
परितश्चाग्निकुण्डानि अनेन विधिना कुरु
चतुरश्रं धनुर्वृत्तं पद्मं पूर्वादिदिक्षु च ९
शक्रशङ्करयोर्मध्ये वृत्तकुण्डं प्रकल्पयेत्
कुण्डमेवं समाख्यातं केवलानां विशेषतः १०
गौरी सहितबिम्बं चेत्तत्कोणेष्वर्धपत्रवत्
कुण्डानि कल्पयेच्छेषं प्रागिवैव प्रकल्पयेत् ११
कुण्डलक्षणवत्कुर्यात्सर्वकुण्डानि देशिकः
गोमयालेपनं कृत्वा पिष्टचूर्णैरलङ्कृतम् १२
ब्राह्मणान् भोजयेत्तस्मिन् पुण्याहं वाचयेत्ततः
महेन्द्र स्तु पदं यावत् होमं कृत्वा विधानतः १३
वेदिकां चाग्निकुण्डं च पर्यग्निकरणं कुरु
निर्दिष्टदिवसात्पूर्वरात्रौ स्यादधिवासनम् १४
स्थण्डिलं वेदिकायां तु अष्टद्रो णैश्च शालिभिः
कर्तव्यं नळिनं तस्मिन् साष्टपत्रं सकर्णिकम् १५
तण्डुलैस्तिलदर्भैश्च लाजैः पुष्पैरलङ्कृतम्
शयनं चाहतेनैव वस्त्रेणैव प्रकल्पयेत् १६
धूपदीपस्समायुक्तं पुष्पगन्धैस्समर्चयेत्
मण्डपस्योत्तरे पार्श्वे स्थानशुभ्रं प्रकल्पयेत् १७
तन्मध्ये दारुपीठन्तु न्यस्य तस्योपरि द्विजः
प्राङ्मुखं स्थापयेत् शूलं पञ्चगव्याभिषेचितम् १८
शुचिहव्येतिमन्त्रेण कृत्वा गन्धोदकैः हृदः
स्थापयेत् देवं देवीं च गन्धपुष्पैः समर्चयेत् १९
कौतुकं बन्धयेदेव तयोर्दक्षिणहस्तयोः
स्वर्णकार्पाससूत्रैर्वा कवचेनैव बन्धयेत् २०
लम्बकूर्चसमायुक्तं वाद्यध्वनिसमायुतम्
शयने शाययेत् शूलं प्राक्शीर्षं चोर्ध्ववक्त्रकम् २१
तस्य वामे ह्युमादेवी शूलं वै शाययेत् सुधीः
तयोः शिरोग्निके देशे स्थापयेत्तु पटद्वयम् २२
सूत्रं सर्वाभिधानं च सकूर्चं वस्त्रवेष्टनं
द्रो णकुम्भाम्बुसम्पूर्णं शिवकुम्भं तदुच्यते २३
तस्यार्धं तोयसम्पूर्णं प्राग्वत्सूत्रादिभिर्युतम्
गौरी बीजसमायुक्तं गौरीकुम्भमिदं परम् २४
तन्मूलमध्यमे कुम्भं न्यस्यगन्धादिभिर्यजेत्
गौरी कुम्भे तु तस्यास्तु मन्त्रं न्यस्य विशेषतः २५
परितोष्टघटान् न्यस्य सूत्राद्यैश्च समन्वितान्
विद्येशान्मूलमन्त्रैश्च स्थाप्य गन्धादिभिः यजेत् २६
वास्तुहोमादिकं कुण्डे अग्निं संस्थाप्य देशिकः
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् २७
अग्न्यर्थं पूर्वकुण्डे तु वह्निमाग्नेय गोचरे
याम्ये चौदुम्बरं ख्यातं खदिरं नैरृते द्विज २८
बिम्बं पश्चिमभागे तु मयूरं वायुगोचरे
पटं वै सौम्यकुण्डे तु खदिरं वास्तु देशिकः २९
प्रधाने ब्रह्मवृक्षः स्यात्समिद्गौरी समन्वितम्
विद्याकुण्डेषु कुण्डानि गौरी हीनानि कारयेत् ३०
समिधो हृदये नैव पुरुषेण घृताहुतीः
अघोरेण चरुं हुत्वा दाद्यां वामेन होमयेत् ३१
चरुमीशानमन्त्रेण तिलं वै शिरसा हुनेत्
सर्षपङ्कवचेनैव शिखामङ्गळमुच्यते ३२
गलमन्त्रेण मन्त्रेण प्रत्येकं जुहुयात् शतम्
उच्यते व्याहृतिं हुत्वा देवी देवेशयोः समम् ३३
जयाद्यैरभ्यातानैश्च राष्टभृद्भिश्च होमयेत्
दिशास्वध्यायतं वेदां स्तोत्रैः स्तुतिशिखामुखैः ३४
अध्यानं कृततोदग्रमुपांशुहोममाचरेत्
देवीदेवेशयोर्मूलमन्त्रैरष्टादशाहुतीः ३५
घृताहुतीस्तु कर्तव्यं भस्मस्नानमतः परम्
शुक्लवस्त्रोत्तरीयश्च शुक्लयज्ञोपवीतधृक् ३६
शुक्लमाल्यानुलेपाढ्यः पञ्चभूषणभूषितः
पवित्रपाणिनोपेतः सकली कृतविग्रहः ३७
आचार्यः सुप्रसन्नास्यः शिवद्विजकुलोद्भवः
प्रविश्य गर्भगेहं तु एकाशीतिपदं कुरु ३८
मण्डूकाख्यपदं वाथ सप्तसप्तांशमेव वा
गर्भगेहे तु कर्तव्यं ज्ञात्वा ब्रह्मोदयं परम् ३९
स्थानकं देविकांशे तु आसनं मानुषे पदे
गर्भगेहपरे भागे स्थापयेत् देशिकोत्तमः ४०
आसनं भद्र पीठेन स्थानकं वेदिकोपरि
प्रागुक्तविधिना पीठव्यासायामादयोमताः ४१
कर्तव्यं सुन्दरं तस्मिन् आधाराख्यशिलां न्यसेत्
पीठव्यासत्रिपादं तु आधाराख्यशिलातलम् ४२
समग्रमायतं वापि तदर्धं तद्धनं भवेत्
स्थानकं सकलं चेत्तु पादाधस्तात् द्विजोत्तम ४३
आधाराख्यशिलायां तु रत्नगर्तं प्रकल्पयेत्
निम्नं षडङ्गुलं ख्यातं कर्तव्यं स गुणाङ्गुलम् ४४
मूले तु नवरत्नानि हेमपात्रं विनिक्षिपेत्
शूलपादतलाधस्तात् षण्मात्रं वायतान्वितम् ४५
प्रागेव कल्पयेत् धीमान्स्थापनार्थं बलान्वितम्
प्रविशेत् गर्भगेहं तु मूलमन्त्रं समुच्चरन् ४६
स्थापयेत्तु पदे शूलं मूलमन्त्रं दृढं तथा
अष्टबन्धं दृढं कृत्वा सुधया च विशेषतः ४७
तस्य वामे तथा स्थाप्यं गौरीशूलं विशेषतः
आधाराख्यशिलायां च गर्भभाजनसंयुतम् ४८
पञ्चषट्सप्तमात्रं वा गर्भव्यासं तथा समम्
गर्भन्यासं तु तत्रैव गर्भभाजनसंयुतम् ४९
प्रागुक्तविधिना सम्यक् गन्धपुष्पादिभिर्यजेत्
स्थापयेत्पूर्ववत् शूलं मूलं वै गर्भभाजनम् ५०
अथाशेषं तु यत्कर्म शिल्पिभिस्तु विशेषतः
कर्तव्यं लक्षणोपेतं स्थपतिः शिल्पिरुच्यते ५१
स्थपतिः शिल्पिकर्मा च योग्यस्त्वन्यैर्न कारयेत्
कृतं चेदन्यथा विप्र कर्तुरिच्छा भविष्यति ५२
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः
दक्षिणां दापयेत्तत्र पञ्चनिष्कं हिरण्मयम्
शूलस्थापनमाख्यातं रज्जुबन्धमथ शृणु ५३
इति काश्यपशिल्पे शूलस्थापनविधिर्नाम
चतुरशीतितमः पटलः समाप्तः