अथ त्र्! यशीतितमः पटलः
शूलदारुनिर्माणविधिः
अथ वक्ष्ये विशेषेण शूललक्षणमुत्तमम्
शुद्धकायसमं वेशदण्डदीर्घमुदाहृतम् १
मध्योदरविशालं स्यात् चतुर्भागैकविस्तरम्
मूलादष्टांशहीने तु तस्याग्रस्य समं भवेत् २
नाभ्यन्तं चतुरश्रं तु हिक्कान्तं वसुकोणकम्
तदूर्ध्वं वृत्तमाख्यातं शेषं वृत्तं तथैव च ३
द्वात्रिंशदङ्गुलायामं वैकदण्डायतं भवेत्
विस्तारं सार्धषण्मात्रं सार्धसप्ताङ्गुलं तु वा ४
विस्तारार्धं घनं ख्यातं पक्षदण्डान्तमुच्यते
अग्रं युगाङ्गुलं ख्यातं मध्यादग्रं क्रमात्कृशम् ५
वक्षो दण्डस्य मध्ये तु छिद्रं सार्धगुणाङ्गुलम्
हिक्कासूत्रादधस्तात्तु यावद्वै द्व्यङ्गुलावधि ६
वक्षो दण्डोर्ध्वसीमान्तं वंशदण्डं तु योजयेत्
षोडशाङ्गुलमायामं कटिदण्डस्य कीर्तितं ७
वस्वङ्गुलं तु तत्तारं घनं वेदाङ्गुलं भवेत्
मध्ये युगाङ्गुलं छिद्रं तारं पञ्चाङ्गुलादयम् ८
कटिदण्डोर्ध्वसीमाद्वा वंशदण्डे तु योजयेत्
पक्षदण्डादधो विप्र कटिदण्डाश्रयोपि वा ९
यथावत्कांशकं कुर्यादनेन विधिना कुरु
एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टकरं तु वा १०
बिम्बोचितकरं यावत्सङ्ख्यं वक्रशिखान्वितम्
द्व्यङ्गुलं तु शिखायाममस्तं सङ्ख्या विधीयते ११
पक्षदण्डविशालं तु हस्तसङ्ख्या तु भाजिते
शिलाव्यासं तदेवांशं मालाग्रे तु क्रमात्कृशम् १२
कटिदण्डाश्रयं द्व्येकं शिखायामं गुणाङ्गुलम्
सार्धाङ्गुलं तु तत्तारं वृत्तं तत्समतद्घनम् १३
स्थानकं सकलं चेत्तु ऊरुदीर्घोपरि द्विज
अष्टाङ्गुलं समारोप्य ऊरुशूलायतं भवेत् १४
आसने सकले चोरुदीर्घमूर्ध्वं न रोपयेत्
ऊरुमूलसुषिं कृत्वा कटिदण्डाग्रयोर्बुध १५
शिखायां तु समायोज्य यावद्धलन्तरं यथा
जानुमात्रं द्विधा कृत्वा ऊरुजङ्घान्तयोरपि १६
आरोपयेत् शिखामानं तस्मादारोपयेद्बुधः
गुणाङ्गुलं शिखामानं जङ्घादीर्घोरुपर्युतं १७
मध्यबिन्दुसमायुक्तमूर्ध्वाग्रं तु शिखान्वितम्
जङ्घानागैकताभ्यासं –उदाहृतम् १८
ऊर्ध्वाग्रे योजयेत्स्निग्धजङ्घाग्रशिखरं बुधः
गुणाङ्गुलं शिखामानं जानुसन्ध्युच्छ्रितावधि १९
सन्धिभिन्नाग्रशूलं तु एक एव विधीयते
जङ्घादीर्घोपरिष्टात्तु तले मानं तु रोपयेत् २०
ऊरुमध्ये त्रिभागैकमूरुदण्डस्य विस्तृतम्
तस्याग्रं तु त्रिपादं स्यात् जङ्घामूलं च तत्समं २१
जङ्घामूलत्रिभागैकसीनं जङ्घाग्रविस्तृतम्
त्रिधा पादतलायामं कृत्वा भागद्वयं ततः २२
तलाग्रविस्तृतं तत्तत्त्रिद्व्यंशविस्तृतान्वितम्
एतत्पादतलव्यासं मध्यमूलायते परे २३
कर्तव्यं सुषिरं तस्मिन् जङ्घाग्रादधिकायुतम्
योज्यस्निग्धं दृढं कृत्वा बाहुशूलमथोच्यते २४
बाहुमूलविशालं तु गुणाङ्गुलमुदाहृतम्
अग्रं द्वयाङ्गुलव्यासं प्रोष्ठमूलं च तत्समम् २५
सार्धद्वयाङ्गुलं वाथ प्रोष्ठमूलविशालकम्
तन्मूलविस्तृतार्धं स्यात्प्रकोष्ठाग्रविशालकम् २६
बाहुप्रकोष्ठयोश्चैव कूर्परं जानुवद्भवेत्
द्व्यङ्गुलं तु शिखामानं योजयेत्तद्दृढं यथा २७
पार्श्वयोर्वर्धनं चैव चांशदण्डे तु योजयेत्
अतिपक्षान्तरं दीर्घं तद्व्यासं तु गुणाङ्गुलम् २८
वंशदण्डसमानम्र ऊर्ध्वकायस्तवान्वितम्
अग्रे तु वक्षदण्डे तु मूलदण्डे तु योजयेत् २९
स्वाग्रमूले तदा तस्य पार्श्ववंशे द्वयोरपि
हस्तपादतलाग्रेत्र ताम्रपत्रेण योजयेत् ३०
आर्जयेद्वस्त्रबिम्बे वा शूलश्चैवावदं कुरु
देवानां शूलमेवं स्यात् देवीनामथ वक्ष्यते ३१
मध्योदरं त्रिधा भज्य एकांशं वंशविस्तरम्
अष्टांशहीनमग्रं स्यात् विशालं तस्य सूत्रकं ३२
बाहुपर्यन्तविस्तारं वातन्यर्थमिवार्जितम्
पक्षदण्डायतं शेषं तस्यार्धं विस्तृतं भवेत् ३३
तदर्धं बाहुदं ख्यातं कटिदण्डमथोच्यते
कटितारे तु भूतांशे युगांशं तस्य दीर्घकम् ३४
शेषं प्रागिव कर्तव्यं कश्च द्वेषमथ शृणु
आसने वंशदण्डं तु वस्वङ्गुलं तु रेख रोपयेत् ३५
गुणांशं पृष्ठमानं तु शेषं कर्तशुपोशनम्
जङ्घादण्डात्तु षण्मात्रं रोपयेत्स्थानके बुधः ३६
गर्भाग्रं तु प्रवेधं तु ततोधस्थं तु तद्भवेत्
शूलमेवं समाख्यातमुपशूलमथोच्यते ३७
भित्तिमध्यं समारभ्य पक्षदण्डकरान्तकम्
उपशूलायतं प्रोक्तमष्टाङ्गुलं नतं भवेत् ३८
वेदाङ्गुलं तु तन्नीप्रं शूलयोग्यं समे बुध
शूलव्याससमं बध्याच्छिद्रं तद्विंशदान्वितम् ३९
भित्तिमध्यं तु मूलं स्यात् मूलं बध्वा दृढं बुधः
पक्षदण्डं कटीदण्डं धृत्वा शूलाख्यशूलकम् ४०
छिद्रे दृढकरं बध्वा तत्परे कीलबन्धितम्
उपशूलविधानं च पक्षदण्डपुरं समम् ४१
उपशूलशिखायां तु वंशाग्रे सुषिरं कुरु
लोहजं दारुजं वाथ कीलकं योजयेद्दृढम् ४२
बिम्बार्थं शूलमाख्यातं तस्मादुक्तं समाचरेत्
शूललक्षणमाख्यातं शूलस्थापनमुच्यते ४३
इति काश्यपशिल्पे शूललक्षणं नाम त्र्! यशीतितमः पटलः समाप्तः