८२

अथ द्व्यशीतितमः पटलः
वृक्षसङ्ग्रहणविधिः
अथ वक्ष्ये विशेषेण वृक्षसङ्ग्रहणं परम्
देवानां चैव देवीनां शूलार्थं वृक्षमुच्यते १
पुंस्त्रीनपुंसकं चेति वृक्षभेदं त्रिधा भवेत्
सुषिरं स्थिग्धभूमौ वा आर्जवं सुदृढं घनम् २
अल्पगन्धसमायुक्तं फलं पुष्पं दृढं घनम्
शीतळोष्णसुसम्मिश्रं मनोहरसमन्वितम् ३
यत्तत्पुंलिङ्गमाख्यातं देवानां तदिहोच्यते
स्निग्धे वाऽस्निग्धभूमौ वा वर्जयित्वाऽतिमार्दुलं ४
मूलादाग्रं क्रमात्क्षीणं पुष्पं चैव फलं दळम्
अतिमार्दवसंयुक्तमतिशीतलसंयुतम् ५
अतिस्नेहसमायुक्तं रसं चैव तथा भवेत्
एतत्स्त्रीवृक्षमाख्यातं देवीनां शूलयोग्यकम् ६
क्षीणमूलसमायुक्तं फलं पुष्पं दळं तथा
अतिदुर्बलमाख्यातं यत्तत्षण्डमुदाहृतम् ७
चन्दनं चम्पकं चैव रक्तचन्दनमेव च
सालं च खदिरं चैव हेमशीर्षं च कुङ्कुमम् ८
आर्जवं शिंशुपं चैव राजातसमयूरकम्
शूलयोग्यं क्रमात्ख्यातं तेष्वन्तस्थदृढं ग्रहेत् ९
जीर्णं वर्णान्तरयुतं शिरश्शून्यं विशाखिकम्
स्वयं पतितवृक्षं च वाताशनिहतं तथा १०
गुल्मवल्मीकसंयुक्तं व्याळपक्षिसमाश्रितम्
नृपमन्दिरसंस्थं च कर्मकारालयस्थितम् ११
अग्निदग्धं तथा वृक्षं कर्मान्तरनियोजितम्
वर्जयेत्तु प्रयत्नेन गृहीते कर्मनाशनम् १२
तस्मात्सर्वप्रयत्नेन दोषाढ्यं परिवर्जयेत्
शस्तपक्षक्षुवारेषु शस्तवृक्षांश्च सङ्ग्रहेत् १३
आचार्यः शिल्पकर्ता च वृक्षस्थानं तु संव्रजेत्
वृक्षाधस्तात्तृणादीनि व्यपोह्य लेपनं कुरु १४
एतन्मन्त्रं समुच्चार्य अष्टदिक्षु बलिं क्षिपेत्
एतद्वृक्षाश्रिता देवा दानवाश्च पिशाचकाः १५
नागा गरुडगन्धर्वाः सिद्धविद्याधराश्च ये
अयं बिम्बार्थवृक्षस्तु गच्छध्वं स्वहिताय वै १६
इत्युक्त्वा च बलिं दद्यात् दध्योदनं सपुष्पकम्
रक्तचन्दनसंयुक्तं गन्धतोयसमन्वितम् १७
वृक्षस्येशानदिग्भागे ततो होमं समाचरेत्
स्थण्डिलं सैकतं कुर्यात् हस्तमात्रप्रमाणकम् १८
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत्
समिदाज्य चरुभिस्तु होमं कृत्वा शिवं द्विजः १९
समिधो हृदयेनैव मूलेनाज्यं च होमयेत्
अघोरेण चरुं हुत्वा प्रत्येकाष्टशताहुतीः २०
जयाद्यैरभ्यातानैश्च राष्ट्रभृद्भिश्च होमयेत्
ततस्त्वग्निं समुद्वास्य वृक्षं प्रोक्ष्य शिवाम्भसा २१
शिवात्मकेति मन्त्रं तु जपेद्वृक्षं स्पृशन् बुधः
वृक्षस्य पूर्वभागे तु मुखं पृष्ठं तु पश्चिमे २२
दक्षिणं सव्यपार्श्वं स्यात् वामपार्श्वं तथोत्तरम्
ज्ञात्वैवं लक्षयित्वा तु तस्य च्छेदनमाचरेत् २३
अस्त्रमन्त्रं जपन् वृक्षमूले त्रिः छेद्यलक्षयेत्
क्षीरतोयद्रुमश्चेष्टस्रुक्स्रुवार्थे तु शोभनम् २४
अस्त्रसुवेण मन्त्रेण शक्तिहोमं समाचरेत्
वृक्षमूलमशेषं तु स्थपतिः छेदयेत्क्रमात् २५
पूर्वे वा चोत्तरे देशे वृक्षस्य पतनं शुभम्
अन्यदिक्पतितं वृक्षं वर्जयेत्तु प्रयत्नतः २६
स्कन्धच्छेदं ततः कुर्यादब्जवन्नान्तरं कुरु
गव्यैर्गन्धोदकैः स्नाप्य गन्धमाल्यैरलङ्कृतम् २७
नव वस्त्रेण सञ्च्छाद्य दर्भैश्च सूक्ष्मरज्जुना
स्यन्दने शिबिकायां वाऽऽराप्य स्कन्धेथवा बुधः २८
धृत्वा शनैश्शनैर्गत्वा कर्ममण्डपमाविशेत्
मण्डपं मार्जनं कृत्वा गोमयालेपनं कुरु २९
पिष्टचूर्णैरलङ्कृत्य तन्मध्ये पूर्णवा बुधः
स्थण्डिलं कारयेद्विद्वान् शालां दीर्घसमायताम् ३०
विस्तारार्धं तदर्धं वा चतुरङ्गुलमुन्नतम्
प्रागग्रं स्थापयेत्तस्मिन् शूलवृक्षमधोमुखम् ३१
आशुष्कं रक्षयेद्विद्वान् मासं पक्षमथापि वा
पश्चादुक्तं तु कर्तव्यं त्वरितं तु न कारयेत् ३२
इति काश्यपशिल्पे वृक्षसङ्ग्रहणविधिर्नाम
द्व्यशीतितमः पटलः समाप्तः