अथैकाशीतितमः पटलः
लिङ्गोद्भवमूर्तिलक्षणम्
अथ वक्ष्ये विशेषेण लिङ्गोद्भवविधिं शृणु
लिङ्गाकारस्य मध्ये तु चन्द्र शेखरमूर्तिवत् १
नळकात्तु पदान्तं तु लिङ्गे गूढं भवेदिह
पितामहो हंसरूपी ऊर्ध्वास्यो वामपार्श्वके २
विष्णुर्वराहरूपेण दक्षिणांशे त्वधोमुखः
विष्णुर्दक्षिणपार्श्वे तु वामपार्श्वे पितामहः ३
हृदयाञ्जलिसंयुक्तौ स्थितौ तौ लिङ्गमिष्यते
रक्तश्यामहिरण्याभाः ईशविष्णुपितामहाः ४
एवं लिङ्गोद्भवं ख्यातं वृक्षसङ्ग्रहणं शृणु ५
इति काश्यपशिल्पे लिङ्गोद्भवमूर्तिलक्षणं नामैकाशीतितमः पटलः समाप्तः