अथाशीतितमः पटलः
कालसंहारमूर्तिलक्षणम्
अथ वक्ष्ये विशेषेण कालहामूर्तिलक्षणम्
वसुनन्ददशांशं वा नतमानं द्विजोत्तम १
रुद्र भान्वङ्गुलं वाथ नतमानमिहोच्यते
ललाटदक्षिणे सव्ये तन्त्रमध्ये तथैव च २
हिक्कामध्यस्य वामे तु वामस्तनाक्षदक्षिणे
नाभिमध्यमवामे तु सूत्रान्तरं यवाष्टकम् ३
मेढ्रमूलस्य मध्यात्तु वामे षडङ्गुलं भवेत्
स्थिताङ्घ्रिगुल्फमध्ये तु पूर्वसूत्रं प्रलम्बयेत् ४
देवस्य दक्षिणं पादं पद्मपीठोपरिस्थितम्
प्रथमं नृत्तमूर्तेस्तु दक्षिणं स्थितपादवत् ५
वामपादं धृतोद्धृत्य कुञ्चितं तलमुद्धृतम्
अङ्गुष्ठमुद्धृतं चाग्रे कालस्य हृदये न्यसेत् ६
सुदृष्टिः स्यात्त्रिणेत्रं च जटामकुटमण्डितम्
चतुर्भुजसमायुक्तमष्टहस्तमथापि वा ७
दक्षिणे पूर्वहस्तं तु शूलं कण्ठान्तमुद्धृतम्
दक्षिणे तरहस्ते तु परशुः वरदं तु वा ८
वामे पूर्वकरं नाभिसीमान्तं सूच्यधोगतम्
कण्ठान्तं शूलहस्ते तु मणिबन्धान्तरं भवेत् ९
वामे तु परहस्ते तु विस्मयं परिकल्पयेत्
हिक्कान्तमुष्णीषान्तं वा विस्मयेनामिकाग्रकम् १०
चतुर्हस्तं समाख्यातमष्टहस्तमथ शृणु
शूलं च परशुं वज्रं खड्गं दक्षिणहस्तके ११
वरदं डमरुं खेटं सूचीहस्तं च वामके
विद्रुमस्य निभाकारं सर्वाभरणभूषितम् १२
द्विभुजं च द्विपादं च सुदंष्ट्रं पाशपाणिकम्
करण्डमकुटोपेतं मसूर्यापास्य निर्गमम् १३
महाभयसमायुक्तं हृदयाञ्जलिपाशकम्
विकीर्णकेशकं दृष्ट्वा शाययेदूर्ध्ववक्त्रकम् १४
कालहामूर्तिरेवं हि प्रोक्तं लिङ्गोद्भवं शृणु
इति काश्यपशिल्पे कालसंहारमूर्तिलक्षणं नामाशीतितमः
पटलः समाप्तः