७९

अथैकोनाशीतितमः पटलः
दक्षिणामूर्तिलक्षणम्
अथ वक्ष्ये विशेषेण दक्षिणामूर्तिलक्षणम्
लम्बयेत् दक्षिणं पादं वामाङ्घ्रिनळकाग्रकम् १
सव्योर्वग्रे निधातव्यं वामपादं तु शाययेत्
ललाटदक्षिणे सव्ये नेत्रान्ते तत्पुटान्तके २
हिक्कामध्यस्य वामे तु हृन्मध्यस्य तु वामके
यवत्रयान्तरं नीत्वा लम्ब्य नाभेस्तु मध्यमे ३
मेड्रमूलस्य मध्ये तु पूर्वसूत्रं तु लम्बयेत्
नतमत्यर्थमात्रं स्यात् चतुर्भुजसमन्वितम् ४
दक्षिणे पूर्वहस्तं तु ज्ञानमुद्रा ञ्चितं भवेत्
दक्षिणे परहस्ते तु अक्षमालाधरं परम् ५
परदं पूर्वहस्तं स्याद्दण्डहस्तमथापि वा
वामजानूपरिष्टाच्च वरदे तलपृष्ठकम् ६
वामजानूपरिष्टात्तु दण्डं चेत्कूर्परं न्यसेत्
वामेत्वपरहस्ते तु वह्निर्वा व्याळ एव वा ७
विकीर्णमूर्धजं वापि जटामण्डलमेव वा
जटानिबद्धमूर्तिर्वा जटामकुटमेव वा ८
वामे धत्तूरनागौ च दक्षिणे चन्द्र शेखरम्
हसितवक्त्रसंयुक्तं सर्वाभरणभूषितम् ९
हितवस्त्रोत्तरीयं च सितयज्ञोपवीतिनम्
त्रिणेत्रं शङ्खजं वामे सव्ये मकरकुण्डलम् १०
कर्णौ तु शङ्खपत्रैर्वा कुण्डलैर्वाथ मण्डितौ
रुद्रा क्षैः कण्ठमालाभिः हृन्मालाभिर्विभूषितम् ११
व्याघ्रचर्माबरोपेतं सर्वक्लेशविवर्जितम्
नारदो जमदग्निश्च वसिष्ठो दक्षिणे भृगुः १२
भरद्वाजश्च शुनकश्चागस्त्यो वामपार्श्वके
वन्दितं किन्नराद्यैश्च वटवृक्षं समाश्रितम् १३
अपस्मारोपरिष्टात्तु लम्बपादतलं न्यसेत्
सूत्रं तत्पादपार्ष्ण्यं तु वेदं स्यान्मनुमात्रकम् १४
सूत्रं तत्पादजानोस्तु द्व्यन्तरं भानुमात्रकम्
श्यामवर्णमपस्मारं नागलीलासमन्वितम् १५
धर्मव्याख्यानमित्येवं कल्पयेत्कल्पवित्तमः
तदेव वामपादेनोत्कुटिकासनसंयुतम् १६
पूर्वहस्तद्वये वीणा धरं युक्त्या द्विजोत्तम
शेषं प्रागिव कर्तव्यं एतत् वीणा धरं परम् १७
तदेव वीणा हीनं तु ज्ञानमुद्रा भयान्वितम्
वामं प्रसारितं हस्तं वामजानूर्ध्वकूर्परम् १८
दक्षिणे तु परे चाक्षमालां वामेब्जमुत्पलम्
शुद्धश्वेतनिभं वर्णं शेषं पूर्ववदाचरेत् १९
ज्ञानमूर्तिरिति ख्यातं सर्वालङ्कारसंयुतम्
अन्योन्याङ्घ्रितलं विप्र स्फिक्पिण्डाधः प्रकल्पयेत् २०
ज्ञानमुद्रा हृदिस्थाने त्वभ्यन्तरमुखं करम्
वरदं वामहस्तं तु मेढ्रमूलोपरिन्यसेत् २१
दक्षिणे चाब्जमाला वा मालाब्जं वामहस्तके
नासाग्रं तु समीक्ष्याक्षा वार्जवं सूत्रभेदकाः २२
अपरे तु जटालम्बमृषिभिस्सेवितं परम्
योगमूर्तिरिति ख्यातं ध्याने दुःखनिवृत्तिदम् २३
लम्बयेद्दक्षिणं पादं वाममुत्कुटिकासनम्
योगपट्टं तथा बध्वा देहं चोत्कुटिकाङ्घ्रिके २४
प्रसार्यवामहस्तं तु वामजानूपरिद्विज
प्रागिवैव कृतं शेषं योगमूर्त्यपरं हि तत् २५
ऊरुमूर्ध्नसमायुक्तावन्योन्यं पादपार्ष्णिकौ
योगपट्टिकयोपेतं जङ्घामध्यं द्विजोत्तम २६
प्रसार्य पूर्वहस्तौ तु जानूपरि निधापितौ
अपरे दक्षिणे चाक्षमाला वामे कमण्डलुः २७
जटामण्डलसंयुक्तं करोट्यर्धेन्दुशेखरम्
नीलग्रीवसमायुक्तं शङ्खकुन्देन्दुसन्निभम् २८
अपरे चार्पयेद्वृक्षं नानासर्पविभूषितं
हृन्मालाकण्ठमालाद्यैः रुद्रा क्षैश्च विराजितम् २९
वटवृक्षं समाश्रित्य ऋक्षिभिस्सेवितं परम्
एवं त्वनेकभेदेन दक्षिणामूर्तिरुच्यते ३०
इति काश्यपशिल्पे दक्षिणामूर्तिलक्षणं नाम
एकोनाशीतितमः पटलः समाप्तः